बादामी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

बादामी

बादामी (Badami) कर्णाटकस्य बागलकोटेमण्डले विद्यमानं किञ्चन प्रेक्षणीयं स्थानम् । पूर्वं वातापी इति अस्य नाम आसीत् । निसर्गरमणीयम् इदं स्थानं शिलापर्वतानां मध्ये अस्ति । अत्र चत्वारः गुहादेवालयाः सन्ति । पर्वतारोहणाय सोपनानि निर्मितानि सन्ति । द्वौ विष्णुदेवालायौ, एकः शिवदेवालयः, एकः जैनदेवालयः च सन्ति । उन्नतपर्वतात् अगस्त्यतीर्थस्य वीक्षणम् अतीव मनोहरं भवति । पूर्वकाले बादामी चालुक्यवंशीयानां राजधानी आसीत् । कपीनां वासस्थलमेतत् ।

नगरदर्शनम्
गुहान्तर्गतहरिमन्दिरम्
आदिशेषे विराजमानः महाविष्णुः
बादामिपुष्करिणी
सरसि बनशङ्करिमन्दिरम्
येल्लम्मदेवालयः

मार्गः [सम्पादयतु]

गदग-सोल्लापुररेलमार्गे बादामी निस्थानम् अस्ति ।
बेङ्गळूरुतः ५०२ कि.मी. ।
हुब्बळ्ळीतः १२८ कि.मी.।
बागलकोटेतः ४६ कि.मी. ।
गदगतः ६७ कि.मी.
बिजापुरतः १२० कि.मी । समीपविमाननिस्थानम् -बेळगावी

बाह्यानुबन्धाः [सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=बादामी&oldid=236148" इत्यस्माद् उद्धृतम्