"जग्गी वासुदेव" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १५: पङ्क्तिः १५:
|quote = ''भवता विश्वस्यते इत्यनेन भवता ज्ञातमस्ति इति न ।''
|quote = ''भवता विश्वस्यते इत्यनेन भवता ज्ञातमस्ति इति न ।''
}}
}}
'''जग्गी वासुदेवः''' सद्गुरु नामाख्यः। सद्गुरुः योगी दिव्यदर्शी च अस्ति। सः ईशा फाउन्डेशनस्य (प्रतिष्ठानस्य) संस्थापकः। इदम् ईशा प्रतिष्ठानम् नि:स्वार्भावनया मानवसेवां करोति। इयं संस्था भारतवर्ष-समेतं समस्त विश्वेऽपि—यथा [[अमेरिकासंयुक्तराज्यम्|संयुक्तराज्यअमेरिका]], [[इङ्ग्लेण्डदेशः|इंग्लैण्डः]],[[लेबनान|लेबनानः]],[[सिङ्गापुरम्| सिंगापुर]]:,[[आस्ट्रेलिया|आस्ट्रेलिया]] आदि देशेषु— [[योगः|योग]]विद्यां शिक्षयति, अन्य सामाजिक-सामुदायिकविकासकार्याणि अपि सम्पादयति। सद्गुरुः संयुक्तराष्ट्रसंघस्य आर्थिक-सामाजिक परिषदि विशेषपरामर्शकपदवीम् अलंकरोति।
'''जग्गी वासुदेवः''' सद्गुरु नामाख्यः। सद्गुरुः योगी दिव्यदर्शी च अस्ति। सः ईशा फाउन्डेशनस्य (प्रतिष्ठानस्य) संस्थापकः। इदम् ईशा प्रतिष्ठानम् नि:स्वार्भावनया मानवसेवां करोति। इयं संस्था भारतवर्ष-समेतं समस्त विश्वेऽपि—यथा [[अमेरिकासंयुक्तराज्यम्|संयुक्तराज्यअमेरिका]], [[इङ्ग्लेण्डदेशः|इंग्लैण्डः]],[[लेबनान|लेबनानः]],[[सिङ्गापुरम्| सिंगापुर]]:,[[आस्ट्रेलिया|आस्ट्रेलिया]] आदि देशेषु— [[योगः|योग]]विद्यां शिक्षयति, अन्य सामाजिक-सामुदायिकविकासकार्याणि अपि सम्पादयति। सद्गुरुः संयुक्तराष्ट्रसंघस्य आर्थिक-सामाजिक परिषदि विशेषपरामर्शकपदवीम् अलंकरोति। अध्यात्मक्षेत्रे अस्य महत्तमं योगदानं पुरस्कृत्य २०१७ तमस्य वर्षस्य २५ तमे दिनाङ्के भारतसर्वकारेण अस्मै '''पद्मविभूषण'''प्रशस्तिः धोषिता । <ref>{{cite web|url=http://padmaawards.gov.in/PDFS/PadmaAwards-2017_25012017.pdf|title=PadmaAwards-2017}}</ref>
==प्रारम्भिकं जीवनम्==
==प्रारम्भिकं जीवनम्==
पङ्क्तिः ९९: पङ्क्तिः ९९:
* ''Maunamto Rahasyam'' ISBN 978-93-80409-48-1
* ''Maunamto Rahasyam'' ISBN 978-93-80409-48-1


===पुरस्काराः===
पद्मविभूषणप्रशस्तिः (२०१७) <ref>{{Cite news|url=http://www.newsbytesapp.com/timeline/India/4874/29558/nominations-for-padma-awards-2017|title=Padma Awards 2017|newspaper=NewsBytes|language=en|access-date=2017-01-25}}</ref>
==टिप्पणी==
{{reflist}}
==अग्रिमाध्ययनाय==
==अग्रिमाध्ययनाय==
* {{cite book|last=Subramaniam|first=Arundhathi|title=Sadhguru, More than a life|year=2010|publisher=Penguin Ananda|location=New Delhi|isbn=978-0-670-08512-5}}
* {{cite book|last=Subramaniam|first=Arundhathi|title=Sadhguru, More than a life|year=2010|publisher=Penguin Ananda|location=New Delhi|isbn=978-0-670-08512-5}}

०७:४८, २६ जनवरी २०१७ इत्यस्य संस्करणं

सद्गुरु
जन्मतिथिः (१९५७-२-२) ३ १९५७ (आयुः ६६)
जन्मस्थानम् मैसूरु, कर्णाटकराज्यम्, भारतम्
गुरुः/गुरवः पळनिस्वामी, मल्लाडिहल्लि राघवेन्द्र
तत्त्वचिन्तनम् योगः
उक्तिः भवता विश्वस्यते इत्यनेन भवता ज्ञातमस्ति इति न ।

जग्गी वासुदेवः सद्गुरु नामाख्यः। सद्गुरुः योगी दिव्यदर्शी च अस्ति। सः ईशा फाउन्डेशनस्य (प्रतिष्ठानस्य) संस्थापकः। इदम् ईशा प्रतिष्ठानम् नि:स्वार्भावनया मानवसेवां करोति। इयं संस्था भारतवर्ष-समेतं समस्त विश्वेऽपि—यथा संयुक्तराज्यअमेरिका, इंग्लैण्डः,लेबनानः, सिंगापुर:,आस्ट्रेलिया आदि देशेषु— योगविद्यां शिक्षयति, अन्य सामाजिक-सामुदायिकविकासकार्याणि अपि सम्पादयति। सद्गुरुः संयुक्तराष्ट्रसंघस्य आर्थिक-सामाजिक परिषदि विशेषपरामर्शकपदवीम् अलंकरोति। अध्यात्मक्षेत्रे अस्य महत्तमं योगदानं पुरस्कृत्य २०१७ तमस्य वर्षस्य २५ तमे दिनाङ्के भारतसर्वकारेण अस्मै पद्मविभूषणप्रशस्तिः धोषिता । [१]

प्रारम्भिकं जीवनम्

सद्गुरु जग्गी वासुदेवः ख्रिस्ताब्दे १९५७ सितम्बर मासस्य तृतीयायां तिथौ कर्नाटक प्रान्ते मैसूर नगरे जात:। अस्य पिता वैद्यः आसीत्। बालक: जग्गी वासुदेवः स्वभावेन प्रकृतिप्रियः। प्रायः अयं कतिपयदिनपर्यन्तं वनेषु तिरोहितो भूत्वा पर्यटनं करोति स्म। तत्रैव स: वृक्षस्य उत्तुङ्गशाखायाम् उपविश्य रमणीयवायोः सुखम् आस्वादयन् गहनध्यानावस्थायां लीनः भवति स्म । यदा अयं गृहं प्रत्यागच्छति अस्य झौलिका बहुभिः सर्पै: पूरिता भवति स्म। स: एभिः सर्पै: सह क्रीडति स्म। स: सर्पाणां ग्रहणे बन्धने च निपुणः आसीत्। स: एकादशवर्षावस्थायाः प्रभृति योगाभ्यासं करोति स्म। तस्य योग-गुरुः मल्लाडिहल्लि स्वामिनः इति विख्यातः श्री राघवेन्द्र रावः। जग्गी वासुदेवः मैसूरुविश्वविद्यालयात् आंग्लभाषायाम् स्नातकोपाधिं प्राप्नोत्।

आध्यात्मिकानुभवः

पंचविंशतिवर्षावस्थायाम् अयं एकस्मिन् दिने अनायासेन एव गहनम् आध्यात्मिकानुभवं प्राप्तवान् यत् अस्य जीवनस्य दिशां पर्यवर्तत। एकदा मध्याह्नकाले जग्गी वासुदेवः मैसूर नगरे चामुंडी-पर्वतम् आरुह्य एकस्यां शिलायाम् उपाविशत्। तदा अस्य नेत्रे पूर्णतः उन्मीलिते आस्ताम्। तस्मिन् समये अयम् अकस्मात् इव आत्मानं स्वशरीरात् असम्पृक्तम् अन्वभव�त् । यत् अयं शरीरात् परः सर्वस्मिन् स्थाने यथा शिलासु वृक्षेषु पृथिव्यां च प्रसरति इति तेन अनुभूतम् । ततः प्रभृति कतिचनदिनपर्यन्तम् अयमेव अनुभवः वारं वारं तेन प्राप्तः। सदैव परमानन्दस्थितिं प्रत्यनुभूतवान्। अनया घटनया अस्य जीवन-शैली परिवर्त्तिता। जग्गी वासुदेवः स्वानुभवं सहमानवै: सह बंटनार्थम् आत्मनः जीवितं समर्पयितुं संकल्पितवान् । इदमेव लक्ष्यं पुरस्कृत्य अयं ईशा फाउन्डेशनं स्थापयित्वा योगसम्बद्धान् विविधानि कार्याणि आरब्धवान्।

ईशा प्रतिष्ठानम्

सद्गुरुणा स्थापितं ईशा प्रतिष्ठानम् लाभेच्छारहितं निःस्वार्थसेवासंस्थानम्। सर्वेषां जनानां शारीरिक-मानसिक-आन्तरिकुशलतायै समर्पिता इयं संस्था प्रायः द्विलक्षपंचसहस्रादपि अधिक-स्वयंसेवकेभ्यः संचाल्यते। प्रतिष्ठानस्य मुख्यालयः ईशा योग केन्द्रम् कोयंबत्तूर नगरे विद्यते। अत्र ग्रीन हैंड्स परियोजना विशुद्ध्पर्यावरणम् उद्दिश्य प्रवर्त्तयति। तमिलनाडुप्रान्ते प्रायः षोडशकोटि संख्यानां वृक्षाणां रोपणं परियोजनायाः उद्देश्यः। अधुना तमिलनाडु प्रान्ते पुदुचेरी प्रदेशे च अष्टादशशताधिकेषु समुदायेषु विंशतिलक्ष-संख्यया वृक्षारोपणं सम्पन्नम्। २००६ ख्रिस्ताब्दे अक्टूबर मासे सप्ततदश तिथौ तमिलनाडु प्रान्ते सप्तविंशति जनपदेषु अष्टलक्ष-द्विपंचाशत् सहस्रान् पादपान् रोपयित्वा गिनिज् विश्वरिकार्ड स्थापयति स्म। २००८ ख्रिस्ताब्दे इयं संस्था इंदिरा गांधी पर्यावरण-पुरस्कारमपि प्राप्नोत् ।

ईशा योगकेन्द्रम्

ईशायोगकेन्द्रे नन्दिनः प्रतिमा

ईशा योगकेन्द्रम् ईशा प्रतिष्ठानस्य संरक्षणे स्थापितम्। इदं वेलंगिरि पर्वतेषु १५० एकरमितायां भूम्यां स्थितमस्ति। सघन-वनैरावृतम् ईशा योगकेन्द्रम् नीलगिरि जीवमंडलस्य सम्भागे स्थितम्। अत्र प्रभूतं वन्यजीविनः अपि विद्यन्ते । आन्तरिकविकासार्थं स्थापितम् एतत् शक्तिसम्पन्नं स्थानं ज्ञान-कर्म-| क्रिया-भक्ति नामाख्यान् योगस्य चतुरः मुख्यमार्गान् जनान्तिके प्रापयितुं बद्धलक्ष्यमस्ति। अस्मिन् स्थाने ध्यानलिङ्गयोगमन्दिरस्य प्राणप्रतिष्ठा कृता।

ध्यानलिङ्गम्

मन्दिरस्य अन्तः ध्यानलिङ्गम्

१९९९ ख्रिस्ताब्दे सद्गुरुणा प्रतिष्ठापितं ध्यानलिङ्गं अखिले विश्वे अतिविशिष्टं वर्तते । योगविज्ञानस्य सारभूतं ध्यानलिङ्गम् ऊर्जायाः शाश्वतम् आकारमस्ति। त्रयोदश फ़ुट-नव इंच-पर्यन्तं लम्बितम् इदं ध्यानलिङ्गं पारद-आधारितम् । इदं केनाऽपि संप्रदायेन मतेन वा सम्बंधितं नास्ति, न च अत्र कस्यापि विधि-विधानस्य पूजायाः वा आवश्यकता अस्ति। ये जनाः ध्यानानुभवेन वञ्चिताः, तेऽपि ध्यानालिङ्गमन्दिरे कतिपयक्षणपर्यन्तं मौनेन उपविश्य ध्यानस्य गहनम् अनुभवं प्राप्तुं शक्नुवन्ति। अस्य प्रवेशद्वारे सर्वधर्म स्तम्भोऽस्ति यस्मिन् हिन्दू-मुस्लिम-ईसाई-जैन-बौद्ध-सिक्ख- पारसी-यहूदी-शिन्तो धर्मसम्बद्धानि प्रतीकानि अङ्कितानि। अयं स्तम्भः धार्मिकमतभेदान् उल्लंघ्य सम्पूर्णमानवताम् आमन्त्रयति।

प्रकाशिताः ग्रन्थाः

आङ्ग्लभाषा

तमिळुभाषा

हिन्दीभाषा

कन्नडभाषा

तेलुगुभाषा

पुरस्काराः

पद्मविभूषणप्रशस्तिः (२०१७) [२]

टिप्पणी

  1. "PadmaAwards-2017". 
  2. "Padma Awards 2017". NewsBytes (in English).  Unknown parameter |access-date= ignored (help)

अग्रिमाध्ययनाय

  • Subramaniam, Arundhathi (2010). Sadhguru, More than a life. New Delhi: Penguin Ananda. ISBN 978-0-670-08512-5. 
"https://sa.wikipedia.org/w/index.php?title=जग्गी_वासुदेव&oldid=405962" इत्यस्माद् प्रतिप्राप्तम्