ध्यानयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


भारतीयविचारानुसारेण आत्मोन्नतिं साधयितुं चत्वारो मार्गाः उपदिष्टाः सन्ति- ज्ञानमार्गः, भक्तिमार्गः, कर्ममार्गः योगमार्गश्च । स्वनामधन्यैः श्रीरमणमहर्षिभिः अत्यन्तसरलरीत्या एतेषां चतुर्णां मार्गाणां विवेचनं कृतम् उपलभ्यते ।

हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ध्यानमार्गः[सम्पादयतु]

  1. प्राणायामेन मनसा शान्तिः अवाप्यते । योगशास्त्रानुसारं पूरकं कुम्भकं रेचकं च इति श्वसनक्रियायाः त्रीणि अङ्गानि सन्ति । वायोः श्वासमार्गेण अन्तः ग्रहणं नाम पूरकम् । तस्य बहिः निस्सारणं नाम रेचकम् । यदा च वायुः अन्तः बहिः वा तिष्ठति तत् कुम्भकम् इति निगद्यते । इयं सततं प्रचलन्ती क्रिया नियमबध्दा नास्ति । अतः योगशास्त्रम् इमां क्रियां संयमितां सन्तुलितां च कर्तुं विधिम् उपदिशति । स एव प्राणायामः इति उच्यते ।
  2. यदा कामः क्रोधः भयम् इत्यादिभिः विचारैः मनः क्षुब्धं भवति तदा प्राणक्रियायाः वेगः प्रवर्धते एवं श्वासोच्छवासः उष्णः भवति । यथा यथा च मनः शान्तं भवति तथा तथा श्वासोचछ्वासः अपि सामान्यः भवति । अतः प्रणानां निरोधेन मनसः निरोधः भवति इति सिध्यति ।
  3. प्राणनिरोधेन मनसः लयः भवति किन्तु नाशः न भवति । निद्रितः एवं मृतः इत्यनयोः मध्ये यो भेदः वर्तते स एव लयं गतं मनः नष्टं च मनः इत्यनयोः मध्ये तिष्ठति । नष्टं मनः न कदापि जागरितं भवति । किन्तु लयं गतं मनः पुनरपि जागर्ति ।
  4. मनसः कार्यं द्विप्रकारकं भवति । चक्षुरादिभिः इन्द्रियैः विषयाणां ग्रहणे कृते तान् विषयान् मनः आकलयति स्मरणं च करोति इति भवति मनसः एकं कार्यम् । तस्य नाशः न अभिप्रेतः । विषयज्ञानं यावत् प्रथमस्य मनसः कार्यम् । किन्तु तदनन्तरं मनः संकल्पं विकल्पं च कर्तुं प्रारभते । यथा कुत्र अपि दूरदर्शनयन्त्रं वीक्ष्य तत्क्षणमेव ‘इदं यन्त्रं कियत् मनोहरं मयापि तत् क्रेतव्यम्’ इति कामना मनसि जायते । तस्याः कामनायाः पूर्तिं विना मनः शान्तिं न प्राप्नोति । यतः सुखं विषयेभ्यः अवाप्यते इति मनुते मनुष्यः । एवं विषयाणां प्राप्तिः तदभावश्च इति भवतः सुखदुःखयोः कारणम् ।
  5. मनसः ‘लय’-अवस्थायां विषयाणां ग्रहणं भवति । तेन काचित् शान्तिः अनुभूयते । किन्तु प्राणनिरोधेन स्वस्वरुपस्य अज्ञानं न नश्यति । प्राणबन्धने समाप्ते तदेव अज्ञानलिप्तं मनः पुनः जागर्ति विषयेषु च विचरणं प्रारभते ।
  6. येन चिन्तनद्वारा अज्ञानं नाशयित्वा स्वरूपे सम्यक् स्थितिः सम्प्राप्ता स एव उत्तमः योगी । अहम् आनन्दस्वरूपोऽस्मि इति बोधः येन सम्प्राप्तः तत्कृते किमपि प्राप्तव्यं न अवशिष्यते । दृश्येभ्यः परावृत्तं चित्तं यदा चैतन्यस्वरूपम् अनुभवति तदेव तत्त्वदर्शनम् ।
"https://sa.wikipedia.org/w/index.php?title=ध्यानयोगः&oldid=395484" इत्यस्माद् पुनः प्राप्तिः