सुब्रह्मण्य भारती
चिन्नस्वामी सुब्रह्मण्य भारती | |
---|---|
जन्म |
सुन्दरमूर्ती (जन्मनाम) ११ १८८२ Ettayapuram, Madras Presidency, India |
मृत्युः |
११ १९२१ चेन्नै, भारतम् | (आयुः ३८)
निवासः | ट्रिप्लिकेन |
देशीयता | भारतीयः |
अन्यानि नामानि | भारतियार्, सुब्बय्या, शक्तिदासन्, महाकवि, मुण्डासु कविगळ् Kavignar |
शिक्षणस्य स्थितिः | The Madurai Diraviyam Thayumanavar Hindu College |
वृत्तिः | पत्रकारः |
कृते प्रसिद्धः | भारतस्य स्वातन्त्र्यान्दोलने सक्रियता, कवित्वम्, समाजोद्धारः |
Notable work | Panjali Sapatham, Pappa Pattu, Kannan Pattu, Kuyil Pattu, etc. |
आन्दोलनम् | भारतस्य स्वातन्त्र्यसङ्ग्रामः |
धर्मः | हिन्दुधर्मः |
भार्या(ः) | चेल्लम्माळ् |
अपत्यानि | तङ्गम्माळ् भारती (b. 1904), शकुन्तला भारती (b. 1908) |
पितरौ | चिन्नस्वामी सुब्रह्मण्य ऐय्यर् तथा एलक्कुम्इ लक्ष्मी अम्माळ् |
सुब्रह्मण्य भारती (१८८२-१९२१) भारतस्य कश्चन महाकवि: आसीत्। तस्य जन्म तमिळ्नाडु प्रदेशे एट्टयपुरनामके नगरे अभूत्। स: कश्चित् पत्रकार: अपि । स: ब्रिटेन-शासनस्य विरोधम् अकरोत्। तस्य नाम्नि कश्चन विश्वविद्यालयः अस्ति कोयम्बत्तूरुमहानगरे।
महाकविः सुब्रह्मण्यभारती
[सम्पादयतु]नाम - सुब्रह्मण्यः जननम् - डिसेम्बर११ , १८८२ एट्टयपुरम् , तिरुनेल्वेलीमण्डलम् , तमिळ्नाडु , भारतम् मरणम् - सप्टम्बर् ११ , १९२१( ३८ वयः ) वासः - तिरुवल्लिकेणी , चेन्नै . अन्यनामानि – भारतीयार् , सुब्बय्या , शक्तिदासः .
जीवनचरित्रम्
[सम्पादयतु]१८८२ तमे वर्षे डिसेम्बर् ११ दिनाङ्के चिन्नस्वामी ऐयर् , लक्ष्मी अम्माळ् दम्पतोः पुत्रत्वेन सुब्रह्मण्यः जातः । तं सुब्बय्या इति आह्वयन्ति स्म । सः तस्य एकादशे वयसि एव कविताः लेखितुम् सामर्थ्यं प्राप्तवान् आसीत् । १८९७ तमे वर्षे चेल्लम्मया सह तस्य विवाहः जातः । १८९८ तमे वर्षे वाणिज्ये नष्टं प्राप्तवान् । तेन कारणेन निर्धनः अभवत् । स्वस्य स्थितिं एट्टयपुरं महाराजाय सूचयित्वा धनसाहायं प्रार्थितवान् । राजा तस्मै राजभवने उद्योगं कल्पितवान् । किञ्चित् कालानन्तरं तम् उद्योगं त्यक्त्वा वाराणसीं प्रति गतवान् । १८९८ वर्षतः १९०२ वर्षंपर्यन्तं तत्र आसीत् । एट्टयपुरं महाराजेन सः पुनः आनीतः । एवं ७ वर्षाणि गीतानि न लिखितवान् । ७ वर्षानन्तरं १९०४ तमे वर्षे मधुरैनगरे सुब्रह्मण्येन लिखितं गीतं “ विवेकभानु “ पत्रिकायां प्रकाशितम् । आजीवनं बह्वीषु पत्रिकासु सम्पादकरूपेण कार्यं कृतवान् । मधुरैसेतुपतिविद्यालये तमिळ् अध्यापकत्वेन अपि कार्यं कृतवान् अस्ति । सुब्रह्मण्यः बहुभाषाज्ञः आसीत् । तमिळ् , हिन्दी , संस्कृतं , बङ्गाली फ्रेञ्च् भाषाः च ज्ञातवान् आसीत् । अन्यभाषाभ्यः साहित्यानि भाषान्तरयति स्म ।
साहित्यकार्यम्
[सम्पादयतु]“ यः कविताः लिखति सः कविः न । यस्य जीवनमेव कविताः ; कविताः एव जीवनं सः एव कविः । “ – भारती “ मम कार्यं कवितालेखनं , देशाय कार्यकरणं , अविरतपरिश्रमः “ - भारती स्वमातृभाषायाः तमिळ्भाषायाः विषये बहु आसक्तिः आसीत् तस्य । बहुभाषाज्ञः सः “ मया ज्ञातासु भाषासु तमिळ्भाषावत् मधुरा क्वापि न विद्यते “ इति तमिळ् भाषायाः माधुर्यविषये कथितवान् अस्ति । इतरभाषासु विद्यमानाः उत्कृष्ठाः कृतयः तेन तमिळ्भाषया अनूदिताः सन्ति । पुरातनकाव्यानां विषये तस्य विशेषासक्तिः आसीत् । देशीयकविः अस्ति भारती । तस्य चिन्तनानि सौन्दर्येण सत्यसन्धतया च रचितवान् इत्यतः तं लोकस्य श्रेष्ठकविभिः सह तोलनं कुर्वन्ति पण्डिताः । बहवः आधुनिककविषु अनितरसाधारणकविः इति तं मन्यन्ते । तस्य काश्चन कृतयः । • कुयिल्पाट्टु ( कोकिलगीतम् ) • कण्णन्पाट्टु ( कृष्णस्य विषये लिखितानां गीतानां सङ्ग्रहः ) • पाञ्चालीशपथम् • पुदिय आत्तिचूडी • स्वचरितम् • भारती अरुबत्तारु • ज्ञानप्पाडल्गल् • स्तोत्रपाडल्गल् • विडुदलैपाडल्गल् • चन्द्रिकैयिन् कथा
पत्रिकाकार्यं , स्वातन्त्र्यसङ्घर्षः च
[सम्पादयतु]भारती “ स्वदेशमित्रन् “ पत्रिकायाम् उपसंपातकरूपेण १९०४तमवर्षस्य नवम्बरमासतः १९०६तमवर्षस्य आगस्टमासपर्यन्तं कार्यं कृतवान् । तस्य जीवनस्य अन्तिमेषु दिनेषु अपि १९२० आगस्टतः १९२० सप्तम्बरपर्यन्तं कार्यं कृतवान् । चक्रवर्तिपत्रिकायां १९०५ वर्ष तः १९०६ पर्यन्तं कृतवान् । इण्ड्या , सूर्योदयः , कर्मयोगी , धर्मम् इत्यादीषु विभिन्नासु पत्रिकासु कार्यं कृतवान् । बालभारतम् अथवा यङ्ग् इण्डिया नामिकायाम् आङ्ग्लपत्रिकायाम् अपि सम्पादकः आसीत् भारती
देशीयकविः
[सम्पादयतु]स्वातन्त्र्यसङ्घर्षसमये देशैक्यभावात्मकगीतानि रचयित्वा जनानां सङ्घटनं कृतवान् इति कारणेन “ देशीयकविः “ इति आद्रियते सः । सः दक्षिणभारते जन्मप्राप्तवान् चेदपि हिमालयः अस्माकम् पर्वतः , गङ्गा अस्माकं नदी इति गीत्वा तेषां वैशिष्ट्यानि अपि रचयति । स्वमातृभूमेः विषये चिन्तनं कृत्वा न केवलं गौरवम् अनुभूतवान् , अपि च तस्याः भविष्यं कथं भवेत् इत्यस्मिन् विषये अपि सः रचयति स्म ( वन्देमातरम् एन्बोम् एङ्गळ् मानिलत्तायै वणङ्गुदुम् एन्बोम् ) । वङ्गस्य प्रभूतं जलम् उपयुज्य भारतस्य मध्यभागे कृषिकार्यं कुर्मः इति तथैव नदीनां संयोजनविषये लिखितवान् ( वङ्गत्तिल् ओडि वरुं नीरिन् मिहैयाल् मैयत्तु नाडुहलिल् पयिर् सेय्हुवोम् ) इति । भारतस्य स्वातन्त्र्यप्राप्तितः पूर्वमेव निश्चयेन स्वातन्त्र्यं प्राप्नुमः इति विश्वासेन स्वातन्त्र्यं प्राप्तवन्तः इव “ आनन्दपळ्ळु “ नाम गीतं गीतवान् ( आडुवोमे पळ्ळु पाडुवोमे आनन्दसुतन्तिरम् अडैन्दु विट्टोमेन्डृ ) ।
नवीनकविः
[सम्पादयतु]भारतीवर्यः एव स्वस्य गीतेषु प्रथमतया व्याकरणनियमानाम् उल्लङ्घनं कृतवान् । तमिळ्भाषाया व्याकरणग्रन्थः अस्ति “ तोल्काप्पियं “ ग्रन्थः । भारतेः पूर्वं कवयः तस्मिन् ग्रन्थे यथा नियमाः सन्ति तथैव लिखन्ति स्म । पण्डिताः एव तादृशरचनाः अवगन्तुं शक्नुवन्ति स्म । भारती तान् नियमान् उल्लङ्घ्य सामान्याः अपि यथा अवगच्छन्ति तथा सरलया शैल्या लिखितवान् । एवं परिहासचित्रलेखनशैलीं ( केरिकट्टुर् ) तमिळ्जनेभ्यः सः एव परिचायितवान् ।
महिलानां विषये आदरः
[सम्पादयतु]भारतीवर्यस्य महिलानाम् उपरि महान् आदरः आसीत् । तस्य मूलकारणं तु स्वामिविवेकानन्दस्य शिष्यत्वेन स्थिता ‘ भगिनी निवेदिता ‘ एव । कदाचित् भारतीवर्यः स्वातन्त्र्यान्दोलनस्य सम्मेलनं प्रति आगतवान् । तदा भगिनी निवेदिता “ पत्नी नागता वा ? ” इति पृष्टवती । “ भारते तादृशः अभ्यासः नास्ति । ताः बहिः नागच्छन्ति । “ इति उक्तवान् भारतीवर्यः । “ एवम् भारतस्य जनसङ्ख्यायाम् अर्धांशजनान् गृहे एव दासाः इव स्थापयन्ति चेत् भारतस्य स्वातन्त्र्यं कथं वा प्राप्तुं श्क्नुमः ? “ इति पृष्टवती । तदा एव भारतीवर्यस्य बोधः जातः । तदनन्तरं सः पत्नीमपि स्वातन्त्रान्दोलने भागं स्वीकर्तुं प्रेरयति स्म । महिलानां सर्वासाम् उपरि आदरं दर्शयति स्म । निवेदितामेव स्वस्य गुरुत्वेन स्वीकृतवान् । तमिळ्नाडुराज्ये प्रथमवारं महिलानां स्थानविषये भारतीवर्यः एव उद्घोषितवान् । “ महिलानां दासत्वं यावत् न समाप्यते तावत् स्वातन्त्र्य प्राप्तिः अपि न भवति । “ इति घोषितवान् । स्त्रिभ्यः सहस्रसहस्रवन्दनानि इति कविताः रचितवान् । स्त्रीत्वम् जयतु इति गीतं लिखितवान् । महिलानां शिक्षणं , ताभ्यः न्यायः कल्पनीयः इति भारतीवर्यस्य चिन्तनम् आसीत् । महिलाः अन्नं कर्तुम् केवलं न , आध्यात्मकार्यं कर्तुम् अपि ताः समर्थाः इति अवलोकितवान् ।
पाञ्चालीशपथम्
[सम्पादयतु]भारतस्य स्वातन्त्र्य-आन्दोलनं सः महाभारतयुद्धम् इव , भारतमातरं पाञ्चाली इव च उपमानं कृत्वा “ पाञ्चालीशपथं “ नाम ग्रन्थं रचितवान् । तस्य उत्तमकविताशैल्याः कारणेन तमिळ्भाषायाः साहित्यक्षेत्रे सः ग्रन्थः उत्तमकाव्यत्वेन शोभते ।
भारतीवर्यस्य स्मारकाणि
[सम्पादयतु]तमिळ्नाडुसर्वकारः भारतीवर्यस्य एट्टयपुरस्थं तस्य गृहं स्मारकरूपेण पालयन्तः सन्ति । चेन्नै नगरे तिरुवल्लिकेणि प्रदेशस्थं भारतीवर्यस्य गृहम् अपि स्मारकरूपेण पालयति सर्वकारः । एट्टयपुरे भारतीमणिमण्डपः अपि निर्मितः अस्ति । तस्मिन् मध्यभागे ७ पादपरिमिता भारतीवर्यस्य प्रतिमा अपि ११-१२-१९९९ तमे दिनाङ्के पञ्चाबप्रान्तस्य मुख्यमन्त्रिणा दर्बारासिङ्वर्येण प्रतिष्ठिता । तत्र सभामण्डपः अपि निर्मितः अस्ति । १००० जनैः तत्र उपवेष्टुं शक्यते । सुब्रह्मण्यभारतीवर्यस्य जीवनेन सम्बद्धानि भावचित्राणि अपि तत्र स्थापितानि सन्ति ।