भैरवीरागः
दिखावट
भैरवीरागः (Bhairavi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः । सङ्गीतसमयसारग्रन्थे “देवादि प्रार्थनायाम्” इति स्पष्टं लिखितम् अस्ति । अयं रागः करुणरसः, भक्तिरसयुक्तश्च भवति । कर्णाटकशास्त्रीयसङ्गीते सिन्धुभैरवीरागः इति व्यवहरन्ति । सम्पूर्णजात्यासहितः भवति । षड्ज, पञ्चम स्वरौ विहाय अन्ये कोमलस्वराः भवन्ति । वादिमध्यमः तथा संवादि षड्जः स्वरः भवति । प्रायः प्रातः कालीनः रागः भवति, तथापि सार्वकालिकः भवति । सङ्गीतसम्प्रदायरीत्या सङ्गीतसभायाः अन्तिमे एनं रागं प्रस्तुवन्ति । शास्त्रीयसङ्गीतस्यापेक्षया अधिकतया गझल्, ठुमरि, भजन्,टप्पादिषु अस्य रागस्य उपयोगः भवति ।
- स्फटिकरचितपीठे रम्येकैलासशृङ्गे,
- विकच-कमलपत्रैः अर्चयन्ती महेशम्।
करतलधृतवीणा पीतवर्णायताक्षी,
- सुकविभिरियमुक्ता भैरवी भैरवस्त्रीः॥
- आरोहः- स रे ग म प ध नि स
- अवरोहणः- स नि ध प म ग रे स
- पक्कड- ग म प ग म, रे, स ग रे स नि ध स
सम्बद्धरागाः
[सम्पादयतु]समयः
[सम्पादयतु]प्रातः १० तः १२ वादनपर्यन्तं प्रशस्तः कालः । किन्तु सङ्गीतसम्प्रदायरीत्या सङ्गीतसभायाः अन्तिमे एनं रागं प्रस्तुवन्ति ।
थाट्
[सम्पादयतु]- भैरव