सामग्री पर जाएँ

भगिनी निवेदिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भगिनी निवेदिता
भगिनी निवेदिता भारते
जन्म २८ अक्टोबर् १८६७
ऐर्लाण्ड्
मृत्युः १३ अक्टोबर् १९११ (४४ वयसि)
दार्जिलिङ्ग, पश्चिमवङ्गराज्यम्, भारतम्
अन्यानि नामानि भगिनी निवेदिता
वृत्तिः साहित्यकारः, सामाजिक कार्यकर्ता, अध्यापकः, पादरी&Nbsp;edit this on wikidata
कृते प्रसिद्धः समाजसेविका, राष्ट्रभक्ता

भगिनी निवेदिता ( /ˈbhəɡɪn nɪvɛdɛtɑː/) (आङ्ग्ल: Margaret Elizabeth Noble, हिन्दी: भगिनी निवेदिता) इति स्वामिविवेकानन्देन प्रदत्तं नाम । तस्याः वास्तविकं नाम तु मार्गरेट् एलिजबेथ् नोबल् आसीत् । भारतस्य स्वतन्त्रतासङ्ग्रामे तस्याः अपि अविस्मरणीयं योगदानं वर्तते । मेडलीन् स्लेड्, एनी बेसन्ट् सदृशम् एषा अपि भारतमातुः विदेशिपुत्री । एषा अपि सर्वस्वं त्यक्त्वा भारतस्वतन्त्रतायै योगदानम् अयच्छत् । मेडम कामा-द्वारा निर्मितस्य "वन्दे मातरम्"-ध्वजस्य अनुसरणं कृत्वा अनया अपि भारतीयराष्ट्रध्वजस्य निर्माणे स्वयोगदानं कृतम् । स्वामिविवेकानन्दस्य जीवनीलेखने अपि एतस्याः महद्योगदानं वर्तते ।

जन्म, परिवारश्च

[सम्पादयतु]

विंशतितमेऽब्दे भारतवत् अन्ये बहवः देशाः अपि इङ्ग्लैण्ड-देशस्य अधीनाः आसन् । तेषु आयर्लैण्ड-देशः अपि अन्यतमः । भारतीयक्रान्तिकारिवत् तस्मिन् देशे अपि स्वतन्त्रयोद्धारः मातृभूमेः स्वतन्त्रतायै सक्रियाः आसन् । आयर्लैण्ड-देशे सेम्युअल् नोबल्-नामकः एकः ‘पादरी’ (padre) आसीत् । सः धर्मप्रचारेण सह मातृभिमिस्वतन्त्रतायै अपि कार्यं करोति स्म । सेम्युअल् इत्यस्य पत्नी मेरी यदा प्रसूता आसीत्, तदा सा अवदत्, “यदि आवयोः शिशोः जन्म निर्विघ्नेन भविष्यति, तर्हि आवां स्वशिशुम् ईश्वरसेवायां योजयिष्यावः” इति । परन्तु सेम्युअल् अवदत्, “न भोः ! आवयोः शिशुः ईश्वरकार्याय न किन्तु मातृभूमिस्वतन्त्रतायै कार्यं करिष्यति” इति ।

१९६७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य अष्टाविंशतितमे (२८/१०/१९६७) दिनाङ्के तयोः गृहे कन्यायाः जन्म अभवत् । सा कन्या एव मार्गरेट् अर्थात् भगिनी निवेदिता । निवेदितया बाल्यं आयर्लैण्ड-देशे तस्याः पितामह्याः गृहे व्यतीतम्, यतो हि तस्य पिता धर्मप्रचारस्य, देशस्वतन्त्रतायाः च कार्ये व्यस्तः आसीत् । तस्य पिता देशसेवायाः विचारान् निवेदितायाः मनसि आरोपयत् । परन्तु १८८२ तमे वर्षे ३४ वर्षस्य वयसि तस्याः पितुः अवसानम् अभवत् । तदा निवेदितायाः आयुः पञ्चदश आसीत् । पितुः अवसानानन्तरं गृहनिर्वाहस्य दायित्वं निवेदितायाः उपरि आपतितम् । अतः १८८४ तमे वर्षे सा एकस्यां शालायां शिक्षिकात्वेन कार्यं प्रारभत । परन्तु देशसेवायै जन्मधृता निवेदिता कुत्रापि शान्त्या वृत्त्युपार्जनं कर्तुं न शक्तवती । सा षड्वर्षेषु भिन्नेषु चतुर्षु स्थानेषु कार्यं कृतवती । अन्ततो गत्वा सा १८९२ तमे वर्षे लण्डन-महानगरम् अगच्छत् ।

शिक्षणम्

[सम्पादयतु]

पितुः मरणानन्तरं वृत्त्युपार्जनेन सह निवेदिता पठन्ती अपि आसीत् । तस्याः माता मेरी निवेदितां, तस्याः अनुजां च पठितुं 'होलीफाक्स'-कलाविद्यालयं प्रैषयत् । तयोः सहोदर्योः सम्यगध्ययनेन विद्यालयस्य शिक्षकाः सन्तुष्टाः आसन् । ते अध्ययने अतिचतुरे आस्ताम् । तस्मिन् विद्यालये ते सङ्गीत-चित्र-नृत्यादीनाम् अभ्यासम् अकुरुताम् । तस्मिन् विद्यालये अध्ययनं समाप्य निवेदिता 'केस्विक्'-विद्यालये शिक्षिकात्वेन कार्यं प्रारभत ।

बाल्यकालात् निवेदितायाः स्वप्नम् आसीत् यत्, “आयर्लैण्ड-देशः स्वतन्त्रः स्यात्” इति । तस्याः पित्रोः संस्काराः अपि तथैव आसन् । लण्डन-महानगरं सम्प्राप्य तस्याः आयर्लैण्ड-देशस्य क्रान्तिकारिभिस्सह सम्पर्कः अभवत् । १८९३ तमे वर्षे अमेरिका-देशस्य शिकागो-महानगरे विश्वधर्मपरिषदि सा भागम् अवहत् । तत्र भारतस्य प्रतिनिधेः स्वामिविवेकानन्दस्य भाषणं श्रृत्वा सा प्रेरणां प्रापत् । स्वामिववेकानन्देन तस्यां परिषदि यत् भाषणं दत्तमासीत्, तेन सर्वेषां हृदयम् अजयत सः । ततः विवेकानन्दः इङ्ग्लैण्ड-देशस्य लण्डन-महानगरे 'लेडी ईझाएल्' इत्यस्याः गृहम् अगच्छत् । तस्मिन् गृहे स्वामिविवेकानन्दस्य प्रवचनम् आसीत् । तस्मिन् प्रवचने पञ्चदश जनाः आसन् । तेषु निवेदिता अपि अन्यतमा । ततः तु निवेदिता विवेकान्दं प्रति मुग्धा अभवत् । विवेकानन्दः तदनन्तरवर्षे यदा पुनः लण्डन-महानगरम् अगच्छ्त्, तदारभ्य निवेदितायाः परिचयः विवेकानन्देन सह अवर्धत । परन्तु स्वामिना सह सा अधिकं समयं न यापयत् । एकदा सा विवेकानन्दं पत्रम् अलिखत्, “भोः स्वामिन् ! भारतम् आगन्तुकामा अहं भवतः आज्ञायाः प्रतीक्षां कुर्वती अस्मि” । निवेदितायाः पत्रं पठित्वा विवेकानन्दः किंवक्तव्यमूढः अभवत्, यतो हि स्वामी जानाति स्म यत्, “सा विदेशस्य शीतवातावरणे निवसितुम् अभ्यस्ता अस्ति । भारतस्य उष्णवातावरणे सा कथं निवत्स्यति ?” इति । परन्तु निवेदितायाः निर्णयः दृढः आसीत्, अतः स्वामी तस्यै भारतम् आगन्तुम् आज्ञाम् अयच्छत् ।

भारतागमनम्

[सम्पादयतु]

१८९८ तमस्य वर्षस्य 'जनवरी'-मासस्य अष्टाविंशतितमे (२८/१/१८९८) दिनाङ्के मोम्बासा-नामकेन जलयानेन सा कोलकाता-महानगरं प्रापत् । मासद्वयं यावत् सा भारतस्य संस्कृति-इतिहास-जीवशैल्यादिवषये गहनाध्ययनम् अकरोत् । स्वामिना प्रदर्शितध्यानमार्गस्यापि सा अनुसरणम् अकरोत् । ततः १९९८ तमस्य वर्षस्य 'मार्च'-मासस्य पञ्चविंशतितमे (२५/३/१९९८) दिनाङ्के स्वामिविवेकानन्दः तस्यै दीक्षाम् अददत् । दीक्षाकाले स्वामी तस्यै मन्त्रम् अयच्छत्, “भारते स्निह्यताम्, भारतस्य सेवा क्रियताम् (Love India, Serve India)” इति । स्वामी निवेदितायै उपादिशत् यत्, “भारतस्य यथार्थतया यदि त्वं सेवां कर्तुम् इच्छसि, तर्हि भारतस्य आत्मनि लीना भव । भारतीयानां सुखदुःखानि, अज्ञानम्, अन्धविश्वासम्, आपत्तिं च स्वस्य मत्वा सहस्व । साधनया, तपश्चर्यया च तेषां निवारणं कुरु । तदैव त्वं स्वोद्देशे सफला भविष्यसि” इति । दीक्षाकाले एव मार्गरेट् इत्यस्मात् निवेदिता इति स्वामिना तस्याः नामान्तरणं कृतम् । ततः सा निवेदिता इति प्रसिद्धा अभवत् । कालान्तरे भगिनी शब्दः अपि तस्याः नाम्ना सह अयुजत् (जुड़ गया) । अतः भगिनी निवेदिता इति सा प्रसिद्धा ।

तस्मिन् एव काले कोलकाता-महानगरे 'प्लेग'-रोगेण यमरूपं धृतम् आसीत् । जनाः औषध-सेवा-उपचारादीनाम् अभावेन मरन्तः आसन् । निवेदिता तेषां रोगिणां कृते धनसञ्चयस्य कार्यं प्रारभत । अविरतपरिश्रमेण सा रोगिणाम् उपचारार्थं धनम् एकत्रितम् अकरोत् । रागिणां सेवायै सा सर्वदा तत्परा आसीत् । ततः सा भारतभ्रमणं प्रारभत । भारतयात्राकाले सा विविधयोगिभिः ध्यान-योग-समाधि-विषये अपठत् । १९०० तमे वर्षे पेरिस-महानगरे विश्वधर्मपरिषदः आयोजनम् आसीत् । निवेदिता स्वामिना सह तस्यां परिषदि भागम् अवहत् । परन्तु ततः आगमनानन्तरं स्वामिनः स्वास्थ्यं शिथिलम् अभवत् । एकदा स्वामी निवेदिताम् अवदत्, “इतःपरं त्वया स्वविवेकेनैव अग्रे गन्तव्यमस्ति । तव अन्तरात्मा यस्मिन् मार्गे प्रति नयति, तं मार्गं प्रति गच्छतु” इति ।

भारतीयस्वतन्त्रतान्दोलने योगदानम्

[सम्पादयतु]

विवेकान्दस्य आदेशानन्तरं निवेदिता सर्वत्र एकाकी एव अटति स्म । सा इङ्ग्लैण्ड-देशस्य यात्राम् अकरोत् । तस्मिन् काले इङ्ग्लैण्ड-देशे जनाः हिन्दुधर्मम् अङ्गीकर्तुम् आरब्धवन्तः आसन् । तेन तत्रस्थाः क्रिस्त-जनाः रुष्टाः आसन् । ते भारतीयसंस्कृतेः अपमानं कुर्वन्ति स्म । सा यदा इङ्गलैण्ड-देशे आसीत्, तदा तया अनुभूतं यत्, "इङ्ग्लैण्ड-भारतयोः मित्रता न भवितुम् अर्हति । अतः भारतेन तु स्वतन्त्रतायाः कृते सङ्घर्षः एव करणीयः" इति । भारतं प्रत्यागत्य सा बहुत्र भाषणानि अकरोत् । तस्याः भाषणेषु भारतं प्रति प्रेम एव आसीत् । सा ऐच्छत् यत्, “भारतीयाः स्वयं जागरूकाः भवेयुः, स्वमातृभूम्यै युद्धं कुर्युः” इति । अतः सा भारतीयानां शिक्षायाः कार्यं प्रारभत, येन सुशिक्षिताः भारतीयाः स्वभाग्यं स्वयमेव लेखितुं समर्थाः भवेयुः । निवेदितायाः देशसेवाकार्यं पश्यन्तः भारतस्य राष्ट्रियनेतारः तया सह सम्पर्कम् अस्थापयन् । राष्ट्रियनेतॄणां निवेदितया सह सम्बन्धे वर्धिते सति आङ्ग्लसर्वकारः निवेदितायाः पृष्ठे गुप्तचरान् न्ययुङ्क्त । तस्याः पत्रेषु अपि आङ्ग्लसर्वकारस्य गृध्रदृष्टिः आसीत् ।

१९०२ तमस्य वर्षस्य 'जुलाई'-मासस्य तृतीये (३/७/१९०२) दिनाङ्के स्वामिविवेकानन्दः ब्रह्मलीनः अभवत् । ततः पञ्चदिनपश्चात् भगिनी निवेदिता रामकृष्ण मिशन् इत्याख्यां संस्थाम् अत्यजत् । सा पुनः भारतभ्रमणार्थं निर्गता । मुम्बई-नागपुर-वर्धा-अमरावती-नगराणां यात्रां कृत्वा सा वडोदरा-महानगरम् अगच्छत् । तत्र अरविन्द घोष इत्यनेन सह तस्याः परिचयः अभवत् । तस्य राष्ट्रवादिविचारैः सा प्रभावता । वडोदरा-महानगरात् कर्णावती-महानगरं गत्वा सा तत्र दिनत्रयं यावत् भाषण-प्रवचन-सम्मेलनानि अकरोत् । भारतमातुः सुप्तपुत्रेभ्यः उत्थानबोधः एव तस्याः मुखात् सर्वदा निर्गच्छति स्म । सा देशभक्त्याः विषये भारतीयान् बोधयति स्म । तस्याः भाषणस्य सारः आसीत् यत्, “ईश्वरप्राप्तेः ईप्सा अस्ति चेत्, भारतमातुः सेवां कुर्वन्तु । तेन ईश्वरप्राप्तिः निश्चयेन भविष्यति” इति । कर्णावती-तः सा मुम्बई-अजञ्ता-इलोरा-मद्रास-आदिस्थेषु भ्रमणं कृत्वा वङ्गप्रदेशं प्रापत् । यदा सा वङ्गप्रदेशं प्रापत्, तदा तत्र क्रान्तिकारिप्रवृत्तिः वेगवती आसीत् । अतः सा स्वपार्श्वे सङ्गृहीतं सर्वं क्रान्तिकारिसाहित्यं तेभ्यः क्रान्तिकारिभ्यः अददत् । सा राष्ट्रध्वजस्य एकां परिकल्पनाम् अपि देशस्य सम्मुखम् उपास्थापयत् । तस्मिन् एव समये स्वामिविवेकानन्दस्य अनुजः भूपेन्द्रनाथ दत्त आङ्ग्लविरोधस्य कारणेन कारागारे आसीत् । भगिनी निवेदिता तं कारागारवासात् अमोचयत् । ततः 'चाफेकर'-बन्धूनां मात्रा सह स्थित्वा निवेदिता तस्यै सान्त्वनां प्रादात् । 'चाफेकर'-परिवारस्य त्रीन् पुत्रान् आङ्ग्लाः अमारयन् । तेन वङ्गप्रदेशस्य राजकीयस्थितिः विस्फोटकी अभवत् । तस्मिन् एव काले लोर्ड कर्जन् वङ्गप्रदेशस्य विभाजनम् अकरोत् । वङ्गविभाजनस्य निर्णयस्य सर्वत्र विरोधः अभवत् । तेन विरोधने स्वदेशी-आन्दोलनस्य जन्म अभवत् । भगिनी निवेदिता तस्मिन् आन्दोलने भागम् अवहत् । तया अपि आजीवनं स्वदेशिवस्त्रधारणस्य प्रतिज्ञा कृता । आजीवनं तस्याः प्रतिज्ञायाः पालनमपि अकरोत् सा ।

मृत्युः

[सम्पादयतु]

भगिनी निवेदिता राष्ट्रियप्रवृत्तिभिः सह सल्लग्ना आसीत्, परन्तु तया समाजसेवायाः कार्यम् अपि क्रियमाणम् आसीत् । सा भारतमातुः सेवायै स्वजीवनं समार्पयत् । सा स्वस्वास्थ्यस्यापि चिन्तनं नाकरोत् । भारतस्य ऊष्णवातावरणे यद्यपि सा कष्टमनुभवति स्म, तथापि स्वास्थ्यस्य चिन्ताम् अकृत्वा सा सम्मेलन-प्रवचन-भाषणादिकार्याणि अविरतं करोति स्म । परन्तु स्वजीवनस्य अन्तिमदिनेषु तया तत्सर्वं त्यक्तम् । १९११ तमस्य वर्षस्य 'अक्तूबर'-मासस्य त्रयोदशे (१३/१०/१९११) दिनाङ्के चतुश्चत्वारिंशत् (४४) वयसि वङ्गप्रदेशे तस्याः निधनम् अभवत् । भारतमातुः निःस्वार्थभावेन सेवां कृतवत्यै तस्यै कोटि कोटि नमस्काराः ।

सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]

http://www.bhagininiveditacollege.in/

http://bhagininiveditabank.com/

https://en.wikipedia.org/wiki/Bhagini_Nivedita_(film)

https://en.wikipedia.org/wiki/Sister_Nivedita

http://bngvn.org/ Archived २०१४-०५-१६ at the Wayback Machine

https://en.wikipedia.org/wiki/Kishore_Bharati_Bhagini_Nivedita_(Co-ed)_College

http://www.du.ac.in/du/index.php?page=bhagini-nivedita-college

http://www.jagranjosh.com/articles/bhagini-nivedita-college-du-notified-recruitment-to-17-assistant-professor-posts-2013-1380005219-1

"https://sa.wikipedia.org/w/index.php?title=भगिनी_निवेदिता&oldid=481695" इत्यस्माद् प्रतिप्राप्तम्