अन्नदानय्य पुराणिक
अन्नदानय्य पुराणिक | |
---|---|
जन्म | ८ मार्च् १९२८ |
मृत्युः | २० अक्टोबर् २०१५ (आयुः ८७) |
वृत्तिः | कविः, साहित्यकारः&Nbsp; |
अन्नदानय्य पुराणिक | |
---|---|
अन्नदानय्य पुराणिक |
अन्नदानय्यः पुराणिकः (Annadanayya Puranika) कन्नडभाषायाः साहित्यकारेषु ज्येष्ठेषु अन्यतमः अपि च अधुनिकवचनकर्ता । कर्णाटकस्य मद्दूरुनगरे प्रचालिते प्रथमकन्नडसाहित्यसम्मेलनस्य अध्यक्षः अभवत् । कन्नडभाषायाः कर्णाटकस्य सेवां षड्दशककालतः कृतवान् । कर्णाटके प्रचालिते स्वातन्त्र्यसङ्ग्रामे प्रवृत्ते हैदराबादप्रान्तस्य विमोचनसङ्घर्षे, कर्णाटाकैकीकरणसङ्घर्षे च अस्य योगदानं महत्तरम् अस्ति । उभयोः सङ्घार्षयोः अन्नदानय्यपुराणिकस्य नायकत्वं दृष्ट्वा कर्णाटकस्य भूतपूर्वमुख्यमन्त्रिणः एस्.निजलिङ्गप्पः, बि.डि.जत्तिः इत्यादयः पुरस्कारपत्रं दत्तवन्तः । कर्णाटकसर्वकारेण स्वातन्त्र्ययोधः इति विशिष्टस्थानं कल्पितम् । क्रि.श. २००६तमे वर्षे सुवर्णकर्णाटकम् इति उत्सवाचरणावसरे अस्य योगदानं परिगणय्य कर्णाटकसर्वकारेण अस्मै एकीकरणप्रशस्तिः प्रदत्ता । कर्णाटकराज्यस्य उच्चन्यायालयस्य ज्येष्टन्यायवादी सन् सेवमानोऽस्ति । मानवतावादिनं, गान्धिमहात्मनः अनुयायिनम् अन्नदानय्यपुराणिकं कर्णाटकस्य प्रजाः गौरवादरैः सह साहित्यरत्न अन्नदानय्यपुराणिक इत्येव सम्बोधयन्ति स्म । धारवाडस्य मुरुघामठे मृत्युञ्जयस्वामी सार्वजनिककर्यक्रमे साहित्यरत्नः इति उपाधिं दत्तवान् ।[१] बीदरमण्डलस्य बाल्किप्रदेशस्य हिरेमठसंस्थाने अन्नदानय्यपुराणिकाय पट्टदेवरु इति प्रशिस्तिः प्रदत्ता । सिद्धगङ्गामठे अस्य ९८तमे जन्मदिनोत्सवे शरणतपस्वी इति प्रशस्तिः प्रदत्ता । आधुनिकवचनरचाक्षेत्रे अस्य योगदानं परिगणयन् क्रि.श. २००६तमे वर्षे रमणश्री प्रशस्तिः रमणश्रीप्रतिष्ठानेन सह मिलित्वा अखिलभारतशरणपरिषदा प्रदत्ता ।
बाल्यं शिक्षा च
[सम्पादयतु]अन्नदानय्यः क्रि.श. १९२८तमवर्षस्य मार्चमासस्य अष्टमे दिने कोप्पळमण्डलस्य द्याम्पुरग्रामे अजायत । अस्य पिता कविरत्नं पण्डितः कल्लिनाथः शास्त्री पुराणिकः माता दनम्मा । सिद्दय्यः पुराणिकः बसवराजः पुराणिकः च अस्य सहोदरौ । शालाशिक्षां कुकनूरुग्रामे कोप्पळपत्तने च पदवीशिक्षां धारवाडनगरे च प्राप्तवान् । भाग्यनगरस्य (हैदराबाद) उस्मानियाविश्वविद्यालयतः एल्.एल्.बि.पदवीं प्राप्तवान् ।
साहित्यम्
[सम्पादयतु]अन्नदानय्यपुराणिकः वचनसाहित्यं, संशोधनम्, न्यायाङ्गः, इत्यादिविषयसम्बद्धान् ३०ग्रान्थान् व्यरचयत् । अनेकान् सार्वकालिकान् लेखान् २०००वचनानि (कन्नडभाषासुभाषितानि) च विरचितवान् । अपि च अनेकग्रन्थाः सम्पादिताः ।
- अस्य काश्चन प्रमुखाः कृतयः
- *शरणुस्वामी (ಶರಣು ಸ್ವಾಮಿ)
- * भगीरथः (ಭಗೀರಥ)
- * चेन्नबसवसाहित्यम् (ಚೆನ್ನಬಸವ ಸಾಹಿತ್ಯ)
- * वचनप्रकाशः (ವಚನ ಪ್ರಕಾಶ)
- * वचनमन्दारः (ವಚನ ಮಂದಾರ)
- * वचनदीप्तिः (ವಚನ ದೀಪ್ತಿ)
- * वचनसङ्गमः (ವಚನ ಸಂಗಮ)
- * षट्स्थलब्रह्मी चेन्नबसवण्णः (ಷಟಸ್ಥಳಬ್ರಹ್ಮಿ ಚೆನ್ನಬಸವಣ್ಣ)
- * कर्णाटकसहकसङ्घगळ कानूनु (ಕರ್ನಾಟಕ ಸಹಕಾರ ಸಂಘಗಳ ಕಾನೂನು)
- * पुरुषसिंहः सरदार् वल्लभभायी पटेलः (ಪುರುಷ ಸಿಂಹ ಸರ್ದಾರ ವಲಭಬಾಯಿ ಪಟೇಲ್)
- * भगत सिंहः (ಭಗತ್ ಸಿಂಗ್)
- * नीतिवन्तः न्यायवादी (ನೀತಿವಂತ ನ್ಯಾಯವಾದಿ) (आत्मकथनम् - ಆತ್ಮ ಕಥನ)
- * न्यायदरुशन (ನ್ಯಾಯ ದರುಶನ)
- * वचनसौरभ (ವಚನ ಸೌರಭ)
- * षट्स्थलधर्मसारः (ಷಟ್ ಸ್ಥಲ ಧರ್ಮಸಾರ )
अन्नदानय्यः कन्नडभाषानिघण्टुनिर्माणस्य सम्पादकमण्डल्याः सदस्यः (क्रि.श. १९६०तः १९६३) कन्नडनुडि इति मासपत्रिकायाः, न्यायदर्शन इति पत्रिकायाः च सम्पादकत्वेन सेवाम् अकरोत् । सहजीवनप्रकाशनम्, श्री सिद्धलिङ्गप्रकाशनम् इति प्रकाशनसंस्थाद्वयस्य प्रकाशकः सन् भारतस्य स्वातन्त्र्यपूर्वकालतः कन्नडभाषापुस्तकानि प्रकाशितवान् । कन्नडासाहित्यपरिषदः मुद्रणालयः, सीमाप्रदेशेषु साहित्यसम्मेलनम्, साहित्यपरिषदे कर्णाटकसर्वकारस्य शाश्वतानुदानम्, साहित्यपरिषदि ग्रन्थालयारम्भः, इत्यदीनि नूतनकार्याणि परिषदः कार्यदर्शी सन् कृतवान् । क्रि.श. १९६४तः १९६८पर्यन्तं परिषदः स्थायीसमित्याः सदस्य सन् परिषदः उन्नतीकरणस्य कारणिकः अभवत् । क्रि.श. १९६६तः १९६९पर्यन्तं कार्णाटकभाषायोगस्य सदस्यः सन्, कर्णाटकगेज़ेटियर् सम्पादकमण्डल्याः कार्याणि अकरोत् ।
सङ्घसंस्थाः
[सम्पादयतु]अन्नदानय्यपुराणिकः अनेकान् जात्यतीतसङ्घान् प्रतिष्टापितवान् । बसवेश्वरास्य राज्यसर्वकारस्य अष्टमजन्मशतमानोत्सवस्य समाचरणस्य काले प्रचालितायाः बसवकल्याणतः हम्पीपर्यन्तं पादयात्रायाः नेता अभवत् । केन्द्रसर्वकारस्य बसवेश्वरस्य पत्रमूल्याङ्कस्य लोकार्पणकाले बि.डि.जात्तिवर्येण सह कार्यम् अकरोत् । अद्य राज्यस्य अग्रमान्यसंस्थासु अन्यतमायाः बसवसमिति इति संस्थायाः संस्थापककार्यदर्शीति २७वर्षाणि सेवाम् अकरोत् । सर्वप्रथमतया राज्ये छात्रान् मेलयित्वा अखिलकर्णाटकविद्यार्थिपरिषात् इति सङ्घटनं प्रतिष्ठापितवान् । तेन सङ्घटितच्छात्राः कर्णाटकस्य एकीकरणसङ्घर्षे आगताः । साहित्यसंवर्धकविश्वस्थमण्डल्याः धर्मदर्शी अभवत् । शेषाद्रिपुरशिक्षणसंस्थायाः, कर्णाटकरेड्क्रास् सङ्घस्य, एडेयूरुसिद्धलिङ्गेश्वरमन्दिरसमितेः, जयनगरनागरिकक्षेमाभिवृद्धसङ्घस्य च सदस्यः सन् लोकसेवाम् अकरोत् ।
न्यायसेवा
[सम्पादयतु]कर्णाटकस्य उच्चन्यायालयस्य न्यायवादी सन् १०सहस्राधिकान् अभियोगान् दीनदरिद्रानाम् अल्पसङ्ख्याकानां च हिताय निश्शुल्कं निरूढवान् । क्रि.श. १९६९-८१तमवर्षपर्यन्तं राज्यस्य अस्य उच्चन्यायालयस्य अड्वोकेट् सन् सर्वकारस्य कोटिशः मौल्ययुतसम्पत्तिं संरक्षितवान् । वारं वारम् उच्चन्यायालयस्य न्यायाधीशस्य स्थानमारोढुं प्राप्तावकाशः अपि तन्निराकृत्य दीनानां सेवाम् अकरोत् । सामान्यजनानां न्यायालयव्यवहाराः अवगताः भवेयुः इति धिया न्यायाङ्गविषयान् कन्नडभाषाया निरूप्य ग्रन्थान् लेखान् च प्रकाशितवान् । देहल्याः अखिलभारतीयन्यायवादिनः सङ्घटनस्य कर्णाटकस्य प्रतिनिधिः क्रि.श. १९७६तमवर्षतः १९७८पर्यन्तं सेवाम् अकरोत् । बेङ्गळूरुनगरस्य सर्वकारीयकलामहाविद्यालये प्राध्यापकः मुख्यपरीक्षकः च सन् क्रि.श. १९६२तः ६९पर्यन्तं सेवारतः अभवत् ।
स्वातन्त्र्यसङ्घार्षः
[सम्पादयतु]महात्मनः गाधेः निमन्त्रणं श्रुत्वा भारतस्वातन्त्र्यसङ्ग्रामे प्रविष्य भारतं त्यजतु इति आन्दोलने सक्रियः अभवत् । क्रि.श. १९४७तमे वर्षे भारतं सवतन्त्रम् अभवत् । किन्तु हैदराबादस्य निजामः तं प्रान्तं स्वतन्त्रभारते विलीनं कर्तुं नैच्छत् । हैदराबादप्रान्तं स्वतन्त्रं राष्ट्रम् इति उद्घुष्टवान् । तदा तं विरुध्य आन्दोलनकाराः सङ्घर्षम् आरब्धवन्तः । आन्दोलनकारिणां सामान्यजनानाम् उपरि निजामस्य नुयानिनः आक्रमणम् अकरोत् । क्रि.श. १९४७तमवर्षस्य आगस्ट् मासस्य पञ्चदशे दिने भारतं स्वतन्त्रम् अभवत् । किन्तु हैदराबादस्य निजामः बहुसङ्ख्याकानाम् अभिप्रायानुगुणं हैदराबादप्रान्तं स्वतन्त्रभारते विलीनं कर्तुं नाङ्गीकृतवान् । यदा निजामः हैदराबादस्य प्रान्तं स्वतन्त्रराष्ट्रम् इति उद्घुष्टवान् तदा तस्य अनुचराः विलीनपक्षपातिनाम् उपरि आक्रमणम् कृतवन्तः । तदा हैदराबादस्य उस्मानिया विश्वविद्यालये एल्.एल्.बि. अध्ययननिरतः अन्नदानय्यपुराणिकः निजांदुराक्रमणं विरुद्ध्य अन्नपूर्णय्यस्वामी इत्यादिभिः सह मिलित्वा हैदराबादनगरे विद्यमानकन्नडभाषिकजनान् रक्षितवान् । अग्रे कर्णाटके मण्डरगिप्रदेशे हैदराबादप्रान्तविमोचनसङ्घर्षस्य शिबिरम् अस्थापयत् । सर्दार् वल्लभभायी पटेलः, एस्.निजलिङ्गप्पः इत्यादीनां मार्गदर्शने राज्ये प्रवत्तस्य सङ्घर्षस्य नेता अभवत् ।
कर्णाटकैकीकरणस्य सङ्घार्षः
[सम्पादयतु]कर्णाटकस्य एकीकरणं भवेदिति स्वातन्त्र्यपूर्वादेव सङ्घर्षः आसीत् । हैदराबादस्य कङ्ग्रेस् समावेशे कर्णाटकस्य एकीकरणस्य अभ्यर्थनं विरुध्य निर्णये कृते कन्नडजनाम् आशाभङ्गः अभवत् । कर्णाटकस्य कङ्गेस्नायकाः [[एस्.निजलिङ्गप्पस्य नेतृत्वे हुब्बळ्ळिनगरे सभां कृत्वा कर्णाटकस्य एकीकरणस्य ऐतिहासिकनिर्णयस्वीकरणस्य अवसरः प्राप्तः । अत्रान्तरे आराज्यं सञ्चर्य छात्रान् सङ्घटितवान् अयम् अन्नदानय्यपुराणिकः । अखिलकर्णाटकविद्यार्थिपरिषत् प्रतिष्ठाप्य तस्य प्रथमसम्मेलनं हैदराबादनगरे एव सञ्चालितवान् । कर्णाटकराज्यस्य अग्रगण्या राजनीतिज्ञा मार्गरेट् आळ्वा इति महिला अस्यां परिषदि सक्रिया आसीत् । प्रथमसम्मेलनस्य सार्वानुमतनिर्णयानाम् अनुसारम् अखिलकर्णाटकविद्यार्थिपरिषदः छात्राः एकीकरणसङ्घर्षे सक्रियाः भवेयुः इति निमन्त्रणं दत्तमासीत् । एतदनुसारं कर्णाटकस्य एकीकरणं पुरस्कृत्य छात्राः महाशोभायात्रां हुब्बळ्ळिनगरे समायोजयन् । विरोधिनां हिंसाचारेण केचन छात्राः व्रणिताः । अन्नदानय्यपुराणिकः छात्रैः सह मिलित्वा हिंसामर्गमाश्रितवान्ति मत्वा आरक्षकाः कतिपयछात्रैः सह तं बद्धवन्तः । कर्णाटकस्य तत्कालीनः मुख्यमन्त्री एस्.आर्.बोम्मायी ज्येष्टः राजनीतिज्ञः न्यायवादी शिवप्प शेट्टर् च न्यायालये अड्डित्वा अन्नदानय्य पुराणिकस्य बन्धनविमोचनम् अकुरुताम् । कर्णाटकस्य एकीकरण्स्य पश्चात् पुराणिकः बेङ्गळूरुमहानगरे अवसन् न्यायाङ्गस्य समाजस्य, साहित्यस्य सेवायां निरतः अभवत् । जयनगरविस्तरणे पत्न्या नीलाम्बिकया सह अवसत् । कन्नडभाषापुस्तकप्रकाशनार्थम् एव नियतां प्रकाशनसंस्थां चालयति स्म । पुत्री चन्द्रिका पुराणिकः महिलासहित्यकारा, आकाशवाण्याः सङ्गीतकलावती, शेशाद्रिपुरसन्ध्यामहविद्यालये कन्नडविभागाध्यक्षा अस्ति । पुत्रः उदयशङ्करपुराणिकः बहुराष्ट्रियसुतन्त्रज्ञानसंस्थायाः मुख्यस्थत्वेन कार्यं निर्वहति । अपि च विज्ञानविषयलेखकेन अनेन लिखितः नैके लेखाः ख्यातकन्नडभाषावृत्तपत्रिकासु प्रकाशिताः ।
उल्लेखः
[सम्पादयतु]- ↑ विविधप्रसारमाध्यमेषु प्रकाशितांशाः
http://archive.deccanherald.com/deccanherald/jun242004/metro2.asp