अभावप्रत्ययालम्बना वृत्तिर्निद्रा (योगसूत्रम्)
उपनिषद् |
---|
सूत्रसारः
[सम्पादयतु]सूत्रार्थः
[सम्पादयतु](जाग्रद्वृत्तीनां, स्वाप्नवृत्तीनां च) अभावस्य कारणभूतं तमोगुणं/अभावं विषयत्वेन स्वीकर्त्री वृत्तिः निद्रा अस्ति।
Dreamless sleep (निद्रा) is the subtle thought pattern, which has as its object an inertia (इनर्शिया), blankness, absence, or negation (नेगेशन - नकारः) of the other though patterns (वृत्तयः).
व्यासभाष्यम्
[सम्पादयतु]सा च सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः । कथं ? सुखमहमस्वाप्सम्, प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति । दुःखमहमस्वाप्सम्, स्त्यानं मे मनो भ्रमत्यनवस्थितम् । गाढं मूढोऽहमस्वाप्सम् । गुरूणि मे गात्राणि, क्लान्तं मे चित्तम् । अलसं मुषितमिव तिष्ठतीति । स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे । तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मात्प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥१०॥
विशेषम्
[सम्पादयतु]• अभाव = absence, non-existence, non-occurrence, negation, voidness, nothingness
• प्रत्यय = the cause, the feeling, causal or cognitive principle, notion, content of mind, presented idea, cognition
• आलम्बना = support, substratum (सब्स्ट्रेटम्), leaning on, dependent on, having as a base or foundation
• वृत्तिः = operations, activities, fluctuations, modifications, changes, or various forms of the mind-field
• निद्रा = deep sleep
जागरणे सति सा ( निद्रा ) वृत्तिः स्मरणे भवति इत्यतः सा एकप्रकारस्य ज्ञानम् (एव) अस्ति। यतः
१) अहं सुखेन निद्रां कृत्वान्। मम मनः प्रसन्नम् अस्ति, बुद्धिश्च निर्मला अस्ति। (उत)
२) अहं अतीव विचलिततया निद्रां कृतवान्, मम मनः अकर्मण्यं जायमानम् अस्ति ( यतः चञ्चले सति तत् भ्रमितं भवति। (उत)
३) अहं
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिस्रोतसि अभावप्रत्ययालम्बना वृत्तिर्निद्रा (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine