अभ्यासवैराग्याभ्यां तन्निरोधः (योगसूत्रम्)
योगसुत्रम् |
---|
सूत्रसारः
[सम्पादयतु]सूत्रशब्दार्थः
[सम्पादयतु](तासां वृत्तीनां) निरोधः अभ्यासेन, वैराग्येण च भवति।
These thought patterns (वृत्तयः) are mastered (निरोधः, regulated, coordinated, controlled, stilled, quieted) through practice (अभ्यासः) and non-attachment (वैराग्यम्)।
व्यासभाष्यम्
[सम्पादयतु]चित्तनदी नामोभयतो वाहिनी । वहति कल्याणाय वहति पापाय च । या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा, संसारप्राग्भाराविवेकविषयनिम्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिलीक्रियते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ॥१२॥
विशेषम्
[सम्पादयतु]• अभ्यास = by or with practice, repeated practice
• वैराग्य = non-attachment, by desirelessness or dispassion, neutrality or absence of coloring, without attraction or aversion
• तस्य = of those, through that of
• निरोधः = control, regulation, channeling, mastery, integration, coordination, understanding, stilling, quieting, setting aside of
असंशयं महाबाहो मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।६.३५
हे अर्जुन ! मनः नियन्त्रयितुम् अशक्यं चञ्चलं च इत्यत्र संशयः नास्ति । तथापि अभ्यासेन वैराग्येण च तस्य नियन्त्रणं शक्यं भवति ।
युवा वृद्धोऽति वृद्धो वा व्याधितो दुर्बलोऽपि वा।
अभ्यासात् सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः।।[१]
अभ्यासेन क्रियाः सर्वाः अभ्यासात् सकलाः कलाः।
अभ्यासात् ध्यानमौनादि किमभ्यासस्य दुर्लभम्।। (हठयोगप्रदीिपका)
चित्तं काचित् नदी अस्ति, यस्याः द्वे तीरे (दो किनारें) स्तः। एकत्र मोक्षः, कल्याणः च अस्ति, अपरत्र च संसारः, पापं च अस्ति। चित्त-रूपनद्याः तरङ्गाः वृत्तयः सन्ति, वत्तीनां समुच्चयः एव धारा इत्युच्यते, यदा धारा मोक्षतीरं प्रति गच्छति, तदा कैवल्य-प्राग्भारा उत मोक्षाभिमुखी धारा भवति/उच्यते। यदा धारा संसारतीरं प्रति गच्छति, तदा संसार-प्राग्धारा उत अविवेकविषयनिम्ना पापवहा भवति/उच्यते।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिस्रोतसि अभ्यासवैराग्याभ्यां तन्निरोधः (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM
उद्धरणम्
[सम्पादयतु]- ↑ हठप्रदीपिका - 1-64
अधिकवाचनाय
[सम्पादयतु]आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine