एलिनोर् रूजवेल्ट्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एलिनोर् रूजवेल्ट्
Eleanor Roosevelt
एलिनोर् रूज्वेल्ट्
In office
२० जनवरी १९६१ – ७ नवम्बर १९६२
President जॉन् एफ्. केनेडी
Succeeded by एस्थर् पीटरसन्
संयुक्तराष्ट्रमहासभायाः प्रतिनिधिः
In office
३१ दिसम्बर १९४६ – ३१ दिसम्बर् १९५२
President हेरी एस्. ट्रुमन्
संयुक्तराष्ट्रमानवाधिकारपरिषदः अध्यक्षा
In office
१९४६ – १९५१
Succeeded by चार्ल्स् मलिक्
संयुक्तराष्ट्रमानवाधिकारपरिषदे संयुक्तराज्यामेरिकाप्रतिनिधिः
In office
१९४७ – १९५३
Succeeded by मेरी लॉर्ड्
संयुक्तराष्ट्रस्य प्रथमा महिला
In office
४ मार्च १९३३ – १२ अप्रैल १९४५
President फ्रैङ्कलिन् डी. रूजवेल्ट्]]
Preceded by लाउ हेन्री हूवर्
Succeeded by बॉस् ट्रुमन्
न्यू यॉर्क्-महानगरस्य प्रथमा महिला
In office
१ जनवरी १९२९ – ३१ दिसम्बर १९३२
Preceded by केथेरिन् ए. डन्.
Succeeded by एडिथ् लुइस् एल्शुल्
व्यैय्यक्तिकसूचना
Born एलिनोर् रूजवेल्ट्
Eleanor Roosevelt

(१८८४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-११)११, १८८४
न्‍यू यॉर्क्
Died ७, १९६२(१९६२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०७) (आयुः ७८)
न्‍यू यॉर्क्, संयुक्तराष्ट्रसङ्घः
Resting place हायड् पार्क्, न्‍यू यॉर्क्
Political party प्रजातान्त्रिकी
Spouse(s) फ्रैङ्कलिन् डी. रूजवेल्ट्
Children
  • अन्ना रूजवेल्ट्
  • जेम्स् रूजवेल्ट्
  • फ्रैङ्कलिन् रूजवेल्ट्
  • एलियट् रूजवेल्ट्
  • फ्रैङ्कलिन् डी. रूजवेल्ट् (अनुजः)
  • जॉन् रूजवेल्ट्
Parents एलियट् बी. रूजवेल्ट्
अन्ना हॉल् रूजवेल्ट्
Occupation राजनीतिज्ञा
Signature

एलिनोर् रूजवेल्ट् ( /ˈɛlnɔːr ˈrzəvɛlt/) (हिन्दी: एलिनोर् रूजवेल्ट्, आङ्ग्ल: Eleanor Roosevelt) “संयुक्तराज्य अमेरिका”-देशस्य प्रथमा महिला (First Lady) आसीत् । “अन्ना एलिनोर् रूजवेल्ट्” इतीदमस्याः पूर्णं नाम अस्ति ।

सा अमेरिका-देशस्य द्वात्रिंशत्तमस्य राष्ट्रपतेः फ्रैङ्कलिन् रूजवेल्ट् इत्याख्यस्य पत्नी आसीत् । संयुक्तराष्ट्रसङ्घस्य राष्ट्रपतेः पत्नी प्रथमा महिला (First Lady) कथ्यते । सा एका सफला प्रशासिका, सङ्गठनकर्त्री, महत्त्वपूर्णनिर्णायिका च स्त्री आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

ई. स. १८८४ तमस्य वर्षस्य अक्टूबर-मासस्य ११ तमे दिनाङ्के अमेरिकासंयुक्तराज्यस्य न्‍यू यॉर्क्-महानगरे एलिनोर् इत्यास्याः जन्म अभवत्[१]

तस्याः पिता इलियट् रूजवेल्ट्, माता अन्ना रूजवेल्ट् च आसीत् । तस्याः पित्रा ३० वर्षस्य वयसि एव विश्वस्य भ्रमणं कृतम् आसीत् ।

अमेरिका-देशस्य पञ्चविंशतितमः राष्ट्रपतिः ‘थिओडोर् रूजवेल्ट्’ इत्याख्यः एलिनोर् इत्यस्याः पितृव्यः आसीत् । तस्याः पिता प्रसिद्धः क्रीडालुः आसीत् । माता अपि विश्वस्य प्रसिद्धा अद्वितीया सुन्दरी आसीत् ।

बाल्यकाले तस्याः श्रेष्ठतया पालनं, पोषणं च अभवत् । ई. स. १८९२ तमस्य वर्षस्य दिसम्बर-मासस्य १ दिनाङ्के न्‍यू यॉर्क्-महानगरे तस्याः मातुः मृत्युः अभवत् । यदा तस्याः मातुः मृत्युः अभवत्, तदा सा अष्टवर्षीया आसीत ।

तस्याः पिता केनचित् रोगेण ग्रस्तः आसीत् । सः मद्यपानं करोति स्म । अतः मादकद्रव्यैः रोगाः अभवन् । चिकित्सकाः रोगान् ज्ञातुम् असमर्थाः । अन्ते ई. स. १८९४ तमस्य वर्षस्य अगस्त-मासस्य १४ दिनाङ्के तस्याः पितुः मृत्युः अभवत् । तदा सा दशवर्षीया आसीत् । इलियट् इत्याख्यः तदा ३४ वर्षीयः आसीत् । तदनन्तरं तस्याः मातामही तां पालितवती ।

शिक्षणम्[सम्पादयतु]

एलिनोर् इत्यस्याः प्रारम्भिकशिक्षणं गृहे एव अभवत् । फेडरिक् रोसर् इत्यनेन ई. स. १८८९ तः १८९० पर्यन्तं एलिनोर् पाठिता । किन्तु एलिनोर् पठने असमर्था आसीत् । अतः तस्याः पितृव्यया सा प्रोत्साहिता ।

शिक्षकस्य एका सहायिका अपि आसीत् । सा अपि पाठयति स्म । सा व्याकरणं, गणितं, काव्यं, आङ्ग्लसाहित्यं च पाठयति स्म । अनन्तरं सा पठितुम् इङ्ग्लैण्ड्-देशं गतवती आसीत् । वर्षत्रयं यावत् सा इङ्ग्लैण्ड्-देशे अधीतवती ।

तस्याः माता, पिता, भ्राता च इटली-देशे निवसन्ति स्म । तस्याः पिता रोगग्रस्तः आसीत् । अतः पितुः रोगस्य उपचारः अपि इटली-देशे अभवत् । इटली-देशस्य कस्मिंश्चित् कॉन्वेन्ट्-विद्यालये ई. स. १८९० तः १८९१ तमवर्षपर्यन्तम् एलिनोर् इत्यस्याः शिक्षणम् अभवत् ।

अनन्तरम् इङ्ग्लैण्ड्-देशस्य लण्डन्-महानगरे “एलेन्स्वुड् गर्ल्स् एकेडमी (Allenswood Girl’s Academy)” इत्यस्यां संस्थायां १८९८ तः १९०२ तमवर्षपर्यन्तं एलिनोर् अधीतवती । तस्यां संस्थायां मेरी सोवेस्टर् (Marie Souvestre) नामिकायाः एका शिक्षिका अपि आसीत् । सा एलिनोर् इत्याख्यां व्यक्तिगतरूपेण पाठयति स्म, निर्दिशति स्म च। तत्र सा फ्रेञ्च्-भाषां, जर्मन्-भाषाम्, इटालियन्-भाषां च अधीतवती । इतः परम् अपि तया आङ्ग्लसाहित्यं, सङ्गीतं, चित्रकला, नृत्यं च अधीतम् ।

विद्यालये इतिहासस्य, भूगोलस्य, दर्शनशास्त्रस्य च न पाठ्यते स्म। तथापि मेरी सोवेस्टर् (Marie Souvestre) तस्याः मार्गदर्शनं करोति स्म । एलेन्स्वुड्-संस्थायां यापितानि वर्षाणि तस्याः जीवनस्य स्मरणीयानि वर्षाणि आसन् । तथापि सा महाविद्यालये पठितुम् इच्छति स्म । किन्तु तस्याः इच्छा पूर्णा न जाता ।

व्यक्तित्वम्[सम्पादयतु]

एलिनोर् रूजवेल्ट् इत्याख्यायाः व्यक्तित्वम् आकर्षकम् आसीत् । तस्याः शारीरिकसंरचना अपि विशिष्टा आसीत् । दीर्घशरीरं, सुन्दरता, धाराप्रवाहेण भाषणं च तस्याः व्यक्तित्वस्य परिचयं ददाति स्म । तस्याः शरीरस्य औन्नत्यं ५ फीट्, ११ इन्च् आसीत् । तसयाः अक्षिणी नीलवर्णीये आस्ताम् । तस्याः केशपाशः रासभधूसरवर्णीयः (Brown) आसीत् [२]

तस्याः व्यक्तित्वेन जनाः आकृष्टाः भवन्ति स्म । यत्र यत्र सा गच्छति स्म, तत्र जनाः मन्त्रमुग्धाः सन्तः तस्याः विचारान्, भाषणं च शृण्वन्ति । सः “वसुधैव कुटुम्बकम्” इति सिद्धान्तम् अन्वसरत् । तया स्वजीवनस्य प्रतिक्षणं जनसेवायै समर्पितम् ।

ई. स. १९४८ तमे वर्षे “इंस्टीट्यूट् ऑफ् पब्लिक् ओपीनियम्” इत्यनया संस्थया विश्वस्य सर्वाधिकानां लोकप्रियाणां व्यक्तीनां सर्वेक्षणं कृतम् आसीत् । तेषु सर्वप्रथमदशव्यक्तिषु एलिनोर् अपि अन्यतमा आसीत् ।

विवाहः[सम्पादयतु]

१९०५ तमस्य वर्षस्य मार्च-मासस्य १७ दिनाङ्के “फ्रैङ्कलिन् रूजवेल्ट्” इत्याख्येन सह तस्याः विवाहः अभवत् [३]। फ्रैङ्कलिन् तस्याः सम्बन्धी आसीत् । विवाहावसरे अमेरिका-देशस्य तत्कालीनः राष्ट्रपतिः थिओडोर् रूजवेल्ट् इत्याख्यः उपस्थितः आसीत् । नूतनदम्पतये आशीर्वचांसि दातुं सः तत्र गतवान् आसीत् ।

विवाहस्य समये ‘फ्रैङ्कलिन्’ कोलम्बिया-विश्वविद्यालये विधिशास्त्रस्य (Law) अध्ययनं कुर्वन् आसीत् । ई. स. १९१३ तमे वर्षे फ्रैङ्कलिन् जलसेनायाः सहायकमन्त्रिपदं प्राप्तवान् । तदा एलिनोर् गौरवम् अन्वभवत् ।

ई. स. १९२० तमे वर्षे फ्रैङ्कलिन् अमेरिका-देशस्य उपराष्ट्रपतिः भवितुं प्रयतितवान् । किन्तु तदा निर्वाचने सः पराजितः जातः । निर्वाचनकाले अपि एलिनोर् विभिन्नराजनैतिकगतिविधिषु कार्यरता आसीत् । निर्वाचनानन्तरं फ्रैङ्कलिन् इत्याख्येन वाक्कीलवृत्तिः आरब्धा ।

ई. स. १९४५ तमस्य वर्षस्य अप्रैल-मासस्य १९ तमे दिनाङ्के फ्रैङ्कलिन् रूजवेल्ट् इत्याख्यस्य मृत्युः अभवत् । तस्मिन् समये तयोः एका पुत्री, पञ्च पुत्राः च आसन् । ‘फ्रैङ्कलिन् रूजवेल्ट्’ ‘जेम्स् रूजवेल्ट्’, ‘फ्रैङ्कलिन् डी रूजवेल्ट्’, ‘इलियट् रूजवेल्ट्’, ‘जॉन् एस्पिन्वॉल् रूजवेल्ट्’ एते पुत्राः आसन् । अन्ना रूजवेल्ट् इयं पुत्री आसीत् [४]

पुत्रेषु फ्रैङ्कलीन् इत्याख्यस्य अल्पसमये एव मृत्युः अभवत् । अतः अनन्तरं तृतीयस्य पुत्रस्य अपि नाम फ्रैङ्कलिन् इति कृतम् । केनडा-देशस्य केम्पोबेलो-द्वीपे अपरस्य फ्रैङ्कलिन् इत्याख्यस्य जन्म अभवत् ।

जीवनम्[सम्पादयतु]

वृत्तिजीवनम्[सम्पादयतु]

इङ्ग्लैण्ड्-देशे अध्ययनं पूर्णं कृत्वा सा पुनः न्यूयॉर्क्-महानगरं प्रापत् । तत्र सा किञ्चित्कालं ‘स्ट्रीट् सेटिलमेण्ट् हाउस्’ इत्यत्र पाठितवती ।

यदा फ्रैङ्कलिन् इत्याख्येन वाक्कीलवृत्तिः आरब्धा, तदा एलिनोर् अपि “लीग् ऑफ् वूमन् वोटर्स्” इत्यत्र वृत्तिं प्राप्तवती आसीत् । तत्र अनेकाभिः संस्थाभिः सह तस्याः सम्पर्कः अभवत् । सङ्घटनकार्येषु तस्याः अभिरुचिः आसीत् ।

तया “वूमन् ट्रेड् यूनियन्”, “स्टेट् डेमोक्रेटिक् पार्टी” इत्येतयोः संस्थयोः चतुर्वर्षाणि यावत् कार्यं कृतम् आसीत् । तदनन्तरं सा एकं विद्यालयं स्थापितवती । तस्मिन् विद्यालये सा प्रधानाचार्या आसीत् । तत्र सा अर्थशास्त्रं, समाजशास्त्रं च पाठयति स्म । अनेन प्रकारेण सा शनैः शनैः समाजसेवायां, राजनीतौ च कार्यं कुर्वती आसीत् ।

ई. स. १९२९ तमे वर्षे फ्रैङ्कलिन् न्यूयॉर्क्-महानगरस्य राज्यपालपदम् अलङ्कृतवान् । तदा एलिनोर् प्रजातान्त्रिकपक्षस्य महिलाप्रकल्पस्य प्रभारिणी अभवत् । तस्मात्कालात् तौ द्वौ पूर्णरूपेण राजनीतिक्षेत्रं प्रविष्टवन्तौ आस्ताम् ।

राजनैतिकजीवनम्[सम्पादयतु]

ई. स. १९३३ तमस्य वर्षस्य मार्च-मासस्य ४ दिनाङ्के “फ्रैङ्कलीन् रूजवेल्ट्” अमेरिका-देशस्य द्वात्रिंशत्तमः राष्ट्रपतिः अभवत् । तेन सह एलिनोर् रूजवेल्ट् इत्याख्या अपि “व्हाइट् हाउस् (White House)” इत्यत्र प्रथमा महिला (First Lady) अभवत्[५]

ई. स. १९३३ तः ई. स. १९४५ तमस्य अप्रैल-मासस्य १२ दिनाङ्कपर्यन्तं सा संयुक्तराष्ट्रसङ्घस्य प्रथमा महिला आसीत् । तस्याः कार्यकालः द्वादश वर्षाणि, एकः मासः, एकः सप्ताहः च आसीत् ।

राजनैतिकक्षेत्रे प्रवेशे सति तया अन्यानि बहूनि अतिरिक्तानि कार्याणि त्यक्तानि । किन्तु महिलासमाजकल्याणसंस्थाभिः सह तस्याः निरन्तरं सम्पर्कः आसीत् ।

व्हाइट् हाउस इत्यत्र तया प्रथमदिने एव महिलापत्रकाराणां गोष्ठी आयोजिता । तेन कारणेन सर्वे आश्चर्यचकिताः अभवन् ।

एकदा फ्रैङ्कलिन् रुग्णः आसीत् । तदा जनानां सम्पर्काय अपि नगरे भ्रमणं कर्त्तव्यम् आवश्यकम् आसीत् । किन्तु रुग्णे सति सः गन्तुम् असमर्थः आसीत् । तदा एलिनोर् स्वयमेव नगरे भ्रमणार्थं गतवती आसीत् । इयम् इतिहासस्य विशिष्टा घटना आसीत् ।

ई. स. १९४१ वर्षतः एलिनोर् इत्याख्यया विश्वस्य महिलाऽधिकाराणां विषये बहूनि कार्याणि कृतानि आसन् । तस्मिन् वर्षे एव तस्यै “सिविलियन् डिफेन्स्” इत्यस्याः संस्थायाः सहनिर्देशिकायाः पदं प्रदत्तम् आसीत्[६] । किन्तु गच्छता कालेन आलोचनायाः कारणेन तया तत्पदं त्यक्तम् आसीत् ।

तदनन्तरं सा ब्रिटेन्-देशस्य, ऑस्ट्रेलिया-देशस्य, दक्षिणीप्रशान्तमहासागरीयदेशानां च यात्रां कृतवती । तदा तया अन्येषां देशानां पक्षतः अमेरिका-देशाय सहयोगस्य, सद्भावनायाः च वृद्ध्यर्थं महत्प्रयासाः कृताः । तस्मिन् कार्ये सफलता अपि प्राप्ता आसीत् ।

ई. स. १९४५ तमे वर्षे (१९ अप्रैल १९४५) पत्युः मृत्युः अभवत् । पत्युः मृत्योः अनन्तरं तया स्वतन्त्रतापूर्वकं कार्यं कर्तुम् अवसरः प्राप्तः । ई. स. १९४६ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य मानवाधिकारायोगस्य अधिकारिभिः अध्यक्षत्वेन सा वृता ।

सा विश्वस्य प्रथमा महिला आसीत्, या अमेरिका-देशस्य तत्कालीनेन राष्ट्रपतिना ट्रूमैन् इत्याख्येन संयुक्तराष्ट्रसङ्घे अमेरिका-देशस्य प्रतिनिधित्वेन प्रेषिता । १९४६ तमे वर्षे लण्डन्-महानगरे संयुक्तराष्ट्राणां प्रथमं सम्मेलनं आयोजितम् आसीत् । तस्मिन् सम्मेलने अपि एलिनोर् भागमगृह्णात् ।

सा विंशतितमायाः शताब्द्याः सर्वाधिकतमा लोकप्रिया महिला आसीत् । तया सर्वाधिकं भ्रमणं कृतम् आसीत् । तया अधिकानां पुस्तकानाम् अपि अध्ययनम् कृतम् आसीत् । तया विश्वशान्तये महद्योगदानं प्रदत्तमासीत् ।

तया पीडिताभ्यः महिलाभ्यः, बालकेभ्यः च संरक्षणं प्रदातुं बहवः प्रयासाः कृताः । तया स्वस्याः भाषणानां, लेखानां च माध्यमेन अन्ताराष्ट्रियस्तरे देशानां परस्परसम्बन्धः सुमधुरः भवेत् इत्येतदर्थं परिश्रमः अनुष्ठितः ।

एलिनोर् इत्याख्येन भारतस्य यात्रा अपि कृता आसीत् । ई. स. १९४५ तः १९५३ तमवर्षपर्यन्तं सा संयुक्तराष्ट्रमहासभायाः प्रतिनिधित्वेन कार्यं कृतवती आसीत् । सा मानवाधिकारायोगस्य सदस्या आसीत् । इयं तस्याः विशिष्टा उपलब्धिः आसीत् । अतः सा अस्मिन् आयोगे निरन्तरं प्रयासान् कुर्वती आसीत् ।

राजनैतिकैः कार्यैः सह तया स्वस्याः जीवनविषयकाणि, जीवनानुभवविषकाणि च कानिचित् पुस्तकानि लिखितानि । तेषु – This is My Story (1937), This I Remember (1949), On My Own (1958), Autobiography (1961) च [७]

यदा १९६१ तमे वर्षे तस्याः आत्मकथा (Autobiography) नामकं पुस्तकं प्रकाशितं जातम् आसीत् । तस्मिन् वर्षे जॉन् एफ्. केनेडी इत्ययं अमेरिका-देशस्य राष्ट्रपतिः आसीत् । तेन तस्यै संयुक्तराष्ट्रस्य प्रतिनिधिपदं प्रदत्तम् आसीत् । अनन्तरं राष्ट्रपतिना महिलानां स्थितिविषयके आयोगे अपि सा नियुक्ता ।

प्रशस्तयः[सम्पादयतु]

  • ई. स. १९४० तमे वर्षे सा प्रथमं राष्ट्रियं पुरस्कारं प्राप्तवती ।
  • ई. स. १९४६ तमे वर्षे “फ्रैङ्कलिन् रुजवेल्ट् ब्रदरहुड्” इत्यनया प्रशस्त्या सा सम्मानिता ।

मृत्युः[सम्पादयतु]

ई. स. १९६२ तमस्य वर्षस्य नवम्बर-मासस्य ७ दिनाङ्के न्युयॉर्क्-महानगरे कर्करोगेण (Cancer) एलिनोर् रूजवेल्ट् इत्यस्याः मृत्युः अभवत् [८]। तस्याः मृत्योः निमित्तं सम्पूर्णे विश्वे शोकसभाः आयोजिताः । जनैः तस्यै श्रद्धाञ्जलिः प्रदत्तः, शोकसन्देशाः प्रेषिताः च ।

सम्बद्धाः लेखाः[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. सुधा सिंह (2008). विश्व की महान नारियां. प्रियंका प्रकाशन, दिल्ली. p. 36. ISBN 9788190659604. 
  2. "First Lady Biography: Eleanor Roosevelt". http://www.firstladies.org/. Archived from the original on 29 April 2020. आह्रियत 26 March 2015. 
  3. "Biography of Eleanor Roosevelt". http://www.fdrlibrary.marist.edu/. आह्रियत 26 March 2015. 
  4. "Eleanor Roosevelt". http://www.history.com/. आह्रियत 26 March 2015. 
  5. "Anna Eleanor Roosevelt". https://www.whitehouse.gov/. आह्रियत 26 March 2015. 
  6. "Anna Eleanor Roosevelt". http://www.gwu.edu/. आह्रियत 26 March 2015. 
  7. "First Lady Biography: Eleanor Roosevelt". http://www.firstladies.org/. Archived from the original on 29 April 2020. आह्रियत 26 March 2015. 
  8. "Eleanor Roosevelt Biography". http://www.biography.com/accessdate=26 March 2015. 
"https://sa.wikipedia.org/w/index.php?title=एलिनोर्_रूजवेल्ट्&oldid=481467" इत्यस्माद् प्रतिप्राप्तम्