एस् आर् बोम्मायी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(एस्. आर्. बोम्मायी इत्यस्मात् पुनर्निर्दिष्टम्)
S. R. Bommai
Chief Minister of Karnataka
In office
13 August 1988 – 21 April 1989
Preceded by Ramakrishna Hegde
Succeeded by President's rule
व्यैय्यक्तिकसूचना
Born 6 June, 1924
Karadagi village, Shiggaon, Haveri District
Died 10 October, 2007, age 84
Hubli
Political party Janata Party
Spouse(s) Gangamma Bommai

एस्.आर्.बोम्मायीमहोदयस्य पूर्णं नाम सोमप्प रामप्प बोम्मायी इति । राजकीयतन्त्रस्य व्यत्यासात् रामकृष्णहेगडे महोदयस्य अधिकारत्यागस्य समनन्तरम् एस्.आर्.बोम्मायीमहोदयः कर्णाटकस्य मुख्यमन्त्री अभवत् । राजतन्त्रस्य ध्रुवनक्षत्रमिव भासमानः एषः क्रि.श.१९२४तमे वर्षे जून् मासे ६दिनाङ्के धारवाडमण्डलस्य शिग्गांविउपमण्डलस्य करडगिग्रामे अजायत । कृषकः रामचन्द्रप्पः पिता माता शिवम्मा । बोम्मायी इति अस्य कुलस्य नाम । अस्य प्राथमिकी शिक्षा स्वस्य कमडोळ्ळिग्रामे अभवत् । हुब्बळ्ळीपत्तने पदविशिक्षां समाप्य आधुनिकन्यायविद्यायां पदवीं बेळगावीपत्तने अवाप्नोत् ।

बाल्यं शिक्षा च[सम्पादयतु]

पठने क्रीडने च समानासक्तियुतः सोमप्पः सांस्कृतिकप्रक्रियासु अपि भागं वहति स्म । तासु अनेकानि पारितोषिकानि अपि प्राप्तवान् । विद्यार्थिजीवने चर्चास्पर्धासु स्पर्धार्थी भूत्वा तेन राजकीयप्रवेशाय प्रेरणा प्राप्ता। एषः छात्रजीवने इदाफ् कलाडिगे नामकाभ्यां शिक्षकाभ्यां प्रभावितः । हुब्बळ्ळीपत्तनस्य एम्.बि.हुरुळिकुप्पिमहोदयस्य पुत्र्या गङ्गम्मया सह अस्य विवाहः सम्पन्नः । फलरूपेण द्वौ पुत्रौ द्वे पुत्र्यौ अजायन्त । ज्येष्ठः पुत्रः मल्ल्लिकार्जुनः अभियन्तृविद्यामधीत्य उद्यमी अभवत् । द्वितीयः बसवराजः अपि अभियन्तृशिक्षां प्राप्य राजकीयं प्रविष्टवान् । सोमप्प बोम्मायीमहोदयः एषः क्रि.श.१९९८तमे वर्षे कर्णाटकविधानपरिषदि चितः। दशवर्षाणि यावत् न्यायवादिनः वृत्तिं निरवहत् । स्वातन्त्र्यान्दोलनसमये प्रवृत्ते ’क्विट् इण्डिया’ आन्दोलने प्रविश्य राजकीयजीवनम् आरब्धवान् । क्रि.श.१९४२तमे वर्षे रेडिकल् ह्यूमनिसम् इति पक्षं प्रविष्टवान् । क्रि.श. १९४७पर्यन्तम् अपि तस्य सदस्यः आसीत् ।

राजकीयजीवनम्[सम्पादयतु]

पोर्चुगीसैः आक्रान्तस्य गोमान्तकप्रदेशस्य (गोवा) विमोचनार्थं बोम्मायीमहोदयः गोवास्वातन्त्र्यसभां संस्थाप्य तस्य कार्यदर्शी अभवत् । तस्य राज्यस्य स्वातत्र्यप्राप्तये आन्दोलनं कुर्वाणः बहुवारं कारागृहवासमनुभूतवान् । क्रि.श.१९६०तमे वर्षे कर्णाटकविश्वविद्यालयस्य सेनेट् सदस्यः अभवत् । ततः पञ्चवर्षेषु उत्तमं प्रशासनानुभवं प्राप्तवान् । धारवाडस्य कोताम्ब्रिन्यायमहाविद्यालयस्य अध्यक्षः अभवत् । ८ वर्षाणि हुब्बळ्ळीधारवाड सेण्ट्रल् को आपरेटिव् होल्सेल् स्टोर्स् संस्थायाः मुख्यः अभवत् । क्रि.श.१९६७तमे वर्षे सार्वजनिकसम्पर्ककार्यक्रमम् आरभ्य जनप्रियः राजतन्त्रज्ञः अभवत् । तस्मिन् एव वर्षे कर्णाटकविधासभायाः निर्वाचने लोकसेवकसङ्घस्य अभ्यर्थिरूपेण कुन्दगल्क्षेत्रतः स्पर्धितवान् । तत्र विजयम् अपि प्राप्तवान् । एवम् अस्य राजकीयजीवनस्य शुभारम्भः अभवत् । क्रि.श. १९६९तमे वर्षे काङ्ग्रेसपक्षं प्रविष्टवान् । क्रि.श.१९७२तमे वर्षे पञ्चायतिमतक्षेत्रात् विजयं प्राप्य विधानपरिषदं प्रविष्टवान् । क्रि.श.१९७६-७७वषावधौ प्रतिपक्षनायकः भूत्वा प्रसिद्धः नायकः अभवत् । क्रि.श.१९७७तमे वर्षे यदा जनतापक्षः स्थापितः तदा तस्य अध्यक्षत्वेन नियुक्तः । क्रि.श.१९८३तमे वर्षे प्रवृत्ते निर्वाचने जनतापक्षस्य नेता बोम्मायीमहोदयः एव अभवत् । जनतापक्षेन कङ्ग्रेस् पक्षः प्रथमवारं पराजितः । तेन अधिकारसूत्रम् अपि गृहीतम् । बोम्मायीमहोदयस्य त्यागभावनया रामकृष्णहेगडेमहोदयः मुख्यमन्त्री अभवत् ।

क्रि.श.१९८४तमे वर्षे प्रचलिते लोकसभानिर्वाचने जनतापक्षः पराजितः । तदा रामकृष्णहेगडेमहोदयः त्यागपत्रं दत्त्वा विधानसभां विसर्जितवान् । कर्णाटके क्रि.श.१९८५तमे वर्षे प्रचलिते निर्वाचने जनतापक्षेन बहुमतः सम्पादितः । रामकृष्णहेगडेमहोदयः मुख्यमन्त्री अभवत् । क्रि.श.१९८८तमे वर्षे हेगडेमहोदयस्य सर्वकारः प्रजाभिः बहुविधैः आक्षिप्तः । दूरभाषाचौर्यश्रवणस्य महाक्षेपेन तस्य अधिकारः एव बाधितः अभवत् । तदा राजकीयज्येष्ठं बोम्मायीमहोदयं मुख्यमन्त्रिस्थाने प्रतिष्ठापितवन्तः । पक्षस्य अन्तःकलहात् सर्वकारसञ्चालनम् कष्टकरम् अभवत् । रामकृष्णहेगडेदेवेगौडयोः मध्ये विद्यमानेन मनस्तापकारणेन शासकाः द्विधा विभक्ताः तेन पक्षोऽपि विभाजितः । बोम्मायिमहोदयस्य नेतृत्वे जनतादलम् इति पक्षः उत्पन्नः । नूतनपक्षस्य केन्द्रीयः अध्यक्षः वी पी सिंहमहोदयः अभवत् । देवेगौडादयः मूलजनतापक्षे एव न्यवसन् । देवेगौडः प्रोत्साहं प्रतिस्वीकृतवान् इति सर्वकारः पतितः । केन्द्रे विश्वनाथ प्रताप सिंहः प्रधानी अभवत् । बोम्मायिमहोदयः पक्षस्य सङ्घटनार्थं राष्ट्रियः अध्यक्षः अभवत् । क्रि.श.१९८९तमे वर्षे बोम्मयिपक्षः देवगौडपक्षः च उभावपि पराजितौ । कालान्तरे अजितसिंहः, रामकृष्णहेगडे, एस्.आर्.बोम्मायि, देवेगौडा सर्वे एकस्मिन् एव पक्षे सम्मिलिताः । देवेगौडः जनतदलपक्षस्य राज्याध्यक्षः भूत्वा देशसञ्चारं कृतवान् । ओडिश्शासर्वकारेण बोम्मायिमहोदयः राज्यसभासदस्यरूपेण चितः । तदारभ्य बोम्मायिमहोदयः बहुवारं राज्यसभासदस्यः अभवत् ।

उपलब्धयः[सम्पादयतु]

गिरिजनानाम् अभिवृद्धिं प्रोत्साहितवान् । बाब्रिमस्जीदभङ्गस्य अध्ययनं कर्तुं रचितसमितौ बोम्मायीमहोदयः अपि सदस्यः आसीत् । गोवाविमोचनान्दोलने सक्रियः भूत्वा विजयं सम्पादितवान् । हुब्बळ्ळीधारवाडयोः नैकान् महाविद्यालयान् स्थापयितुं प्रोत्साहं दत्तवान् । यदा अर्थविभागस्य जलानयनविभागस्य च मन्त्री आसीत् तदा कृषिक्षेत्रस्य अभिवृद्धये परिश्रमं कृतवान् । क्षामनिवारणार्थम् अनुष्ठिताः कार्यक्रमाः जनप्रियाः अभवन् । गुण्डूरावमहोदयस्य काले वज्रचूर्णावधारणं प्रकाशितवान् । अनेन राजकीयव्यवहारः पारदर्शकः भवेत् इति निदेशितवान् । पञ्चायतराज्ययोजनायाः सुरूपं दत्तवान् । मतदानारम्भस्य आयुः १८ इति निम्नीकृत्य युवकानां प्रियः अभवत् । हैदराबाद् कर्णाटकप्रान्तस्य अभिवृद्ध्यै मण्डलीं निर्माय कोटिद्वयरूप्यकाणाम् अनुदानं दत्तवान् । केन्द्रसर्वकारीयेषु उद्योगेषु कन्नडजानानां नियुक्तिः विरलतया भवति स्म । एतं पक्षपातं निवारयितुं परिश्रमं कृत्वा सफलः अभवत् । सर्वकारीये प्राशासने सर्वत्र कन्नडभाषायै अद्यतां दातुम् आदेशं सञ्चालितवान् । क्रि.श. १९८९-९०तमवर्षमध्ये शालाभवननिर्माणम्, अतिवृष्टिपरिहारः, विद्युदुत्पादनकेन्द्राणाम् आरम्भः, ग्रामेषु वनमहोत्सवपारितोषिकानि, विद्याप्रोत्साहधनवृद्धिः, उर्दुभाषाभिवृद्धये निदेशनालयस्थापनम् इत्यादीनि अभिवृद्धिपराणि कार्याणि बोम्मायिमहोदयस्य साधनानाम् आवलिः भवति । 'पठतु अर्जयतु’ इति योजनायां ग्रामीणनिरुद्योगिनां कृते प्रतिमासं ३०० रूप्यकाणाम् अनुदानम्, रायचूरुप्रान्ते शाखोत्पन्नविद्युदागारस्य संस्थापनम् , कृष्यर्थम् आद्यता, नजीरनिवासयोजनया उपमण्डलेषु दीनानां गृहनिर्माणकार्याणि, दीनानां निवेशनदानम् , प्रतिग्रामम् आरोग्यकेन्द्रस्थापनम्, ग्रामेषु शौचालयानां निर्माणम्, इत्यादीनि लोकहितकार्याणि कुर्वन् एस्.आर्.बोम्मायिमहोदयः बहुजनप्रियः राजकीयः नेता अभवत् ।

क्रि.श. १९९६तमे वर्षे लोकसभानिर्वाचने काङ्ग्रेस् पक्षः पराजयमवाप्नोत् । तावता महपक्षरूपेण प्रवृद्धः भारतीयजनतापक्षः जितवान् चेदपि संसदि प्राबल्यं प्रदर्शयितुमसमर्थः अभवत् । अनन्तरं केन्द्रे प्रवृत्तराजकीयक्रीडया बोम्मायीमहोदयः मानवसम्पन्मूलसंसाधनमन्त्री अभवत् । निष्ठावान् जनसेवकः,निष्कामकर्मकरः, अतः एव जनानां बहुप्रीतिपात्रम् अभवत् मान्यः एस्.आर्.बोम्मायिमहोदयः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एस्_आर्_बोम्मायी&oldid=363918" इत्यस्माद् प्रतिप्राप्तम्