कटासराजशिवमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कटासराजशिवमन्दिरस्य समीपे तडागस्य दृश्यम्

कटासराजशिवमन्दिरं पाकिस्थानस्य पञ्जाब-राज्यस्य उत्तरीयभागे स्थितायां नमक-कोह-पर्वत-शृंखलायां स्थितं प्राचीनं तीर्थस्थानं वर्तते।[१] शिवमन्दिरस्य समीपे अन्यानि बहूनि मन्दिराणि सन्ति।तेषां मन्दिराणां निर्माणं दशम्यां शताब्द्यां जातम् आसीत्। इतिहासकाराणां, पुरातत्त्वविभागस्य च अनुसारं स्थानमिदं शिवनेत्रत्वेन प्रसिद्धमासीत्। यदा माता सती देहत्यागम् अकरोत्, तदा भगवतः शिवस्य अक्ष्णोः द्वौ अश्रूबिन्दौ अपतताम्। प्रथमः अश्रूबिन्दुः कटास-पर्वते अपतत्, यत्र अमृततडागस्य निर्माणम् अभवत्। अतः तस्य महासरोवसरस्य नाम अमृतकुण्डः इति, तीर्थस्थानस्य नाम च कटासराजः अभवत्। द्वितीयः अश्रूबिन्दुः अजयमेरु-महानगरे (राजस्थान) अपतत्, यत्र पुष्करराजतीर्थस्य निर्माणम् अभवत्।[२]

ततोधिकं महाभारतकाले पाण्डवाःवनवासकाले एतस्यां पर्वतशृङ्खलायाम् एव न्यवसन्।[३] अत्र स्थितं कुण्डं ज्ञात्वा भीमादयः चत्वारः पिपासवः पाण्डवाः समागताः, परन्तु कुण्डस्यास्य अधिरक्षकः यक्षः क्रमशः नकुलं, सहदेवं, भीमम्, अर्जुनं च निश्चेतम् अकरोत्। 

यक्षयधिष्ठिरयोः संवादः[सम्पादयतु]

क्रमशः जलपीपासया समागतेभ्यः पाण्डवेभ्यः यक्षः स्वाधिकारत्वम् अबोधयत्, तदा यक्षः स्वस्य प्रश्नानाम् उत्तरं जलं स्वीकर्तुं शक्नोति इति उक्तवान्। परन्तु चतुर्षु न कोऽपि पाण्डवः तस्य प्रश्नानाम् उत्तरं दातुम् उद्यतः। ते तु साक्षात् जलम् अपिबन्। अतः चत्वारः अपि भ्रातरः मूर्छिताः। ततः स्वभातॄणाम् अन्वेषणे समागतः युधिष्ठिरः अमृतकुण्डस्य समीपे समुपस्थितः। स्वस्य भ्रातॄणां मूर्छितावस्थां दृष्ट्वा सः उक्तवान् यत्, यः एताषां मूर्छायाः कारणरूपः अस्ति, सः मम सम्मुखम् आगच्छेत् इति। ततः यक्षः तस्य सम्मुखम् उपस्थितः। यक्षः उक्तवान् यत्, पूर्वं मम प्रश्नानाम् उत्तरं प्रयच्छ, ततः तव जलपीपासा दूरीभवेत्। यदि त्वमपि एतेषाम् अनुसरणं कृत्वा मम प्रश्नानाम् उत्तराणि अदत्त्वा जलपानं करिष्यसि, तर्हि तव अपि एषा दशा भविष्यति इति।

युधिष्ठिरः नम्रतापूर्वकम् उक्तवान् यत्, भवान् प्रश्नं करोतु यथाशक्तिः अहं प्रत्युत्तरं दास्ये इति। ततः प्रश्नानाम् उत्तराणि दत्त्वा युधिष्ठिरः स्वभ्रातृभिः सह ततः निर्गतः।

जीर्णोद्धारः[सम्पादयतु]

पाकिस्थानस्य सर्वकारस्य अवगणनायाः कारणेन मन्दिरस्यास्य अतीव दुर्दशा अस्ति।[४]  [५] [६]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भ[सम्पादयतु]

  1. https://www.dawn.com/news/1256209
  2. Handbook of the Punjab, western Rajputana, Kashmir, and upper Sindh, Edward Backhouse Eastwick, John Murray (Publisher), 1883, ... Kataksh is on the N. side of the Salt Range, 16 m. from Pind Dadan, at a height of more than 2,000 ft. above the sea ... Shiva wept so, on the death of his wife Sati, that his tears formed the sacred pool of Pushkara near Ajmir and Kataksh, in the Sindh Sagar Doab ...
  3. After 26/11, first Hindu jatha leaves for Pakistan, Neeraj Bagga, The Tribune (India), 18 Feb 2012, ... Katasraj is believed to be the place where discourse between Yudhishtir and Yaksha took place, as referred to in Mahabharata ...
  4. http://www.thehindu.com/news/international/pak-failed-to-save-katas-raj-temple/article20721359.ece
  5. http://indianexpress.com/article/what-is/pakistan-sc-says-govt-failed-to-save-katas-raj-temple-a-look-at-the-hindu-pilgrimage-site-4952430/
  6. http://www.jagran.com/news/world-pakistan-will-renovated-the-katasraj-temple-13303340.html
"https://sa.wikipedia.org/w/index.php?title=कटासराजशिवमन्दिरम्&oldid=428331" इत्यस्माद् पुनः प्राप्तिः