कर्णम् मल्लेश्वरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कर्णम् मल्लेश्वरी
व्यक्तिगतविवरणम्
सम्पूर्णनाम कर्णम् मल्लेश्वरी
जन्म (१९७५-२-२) १, १९७५ (आयुः ४४)
श्रीकाकुलम्, आन्ध्रप्रदेशराज्यम्
औन्नत्यम् ५ फीट्, २ इन्च्
क्रीडा
देशः  India
वृत्तविधाः ओलंपिक्-क्रीडायाः भारोत्तोलिका (वेटलिफ़्टर)


कर्णम् मल्लेश्वरी ( /ˈkərnəm məllɛʃvər/) (हिन्दी: कर्णम् मल्लेश्वरी, आङ्ग्ल: Karnam Malleswari) भारतस्य महिला भारोत्तोलिका (Weightlifter) अस्ति । सा प्रथमा महिला अस्ति, यया ओलम्पिक्-क्रीडासु कांस्यपदकं प्राप्तम् [१]। तया दशवर्षीये क्रीडाजीवने ११ स्वर्णपदकानि, ३ रजतपदकानि च प्राप्तानि सन्ति । सा नववर्षेभ्यः राष्ट्रियविजेत्री वर्तते । सा “आयरन् गर्ल्” इति नाम्ना अपि ख्याता अस्ति ।

जन्म, परिवारश्च[सम्पादयतु]

कर्णम् मल्लेश्वरी इत्याख्यायाः जन्म ई. स. १९७५ तमस्य वर्षस्य जून-मासस्य १ दिनाङ्के भारत-देशस्य आन्ध्रप्रदेश-राज्यस्य श्रीकाकुलम्-मण्डलस्य श्रीकाकुलम-नगरे अभवत् [२]। अतः इदानीमपि तन्नगरं “भारोत्तोलनस्य राजधानी” इति कथ्यते ।

मल्लेश्वर्याः बाल्यनाम मल्ली इति आसीत् । तस्याः शरीरस्य औन्नत्यं ५ फीट्, २ इन्च् इति अस्ति ।

तस्याः पिता “कर्णम् मनोहर”, माता “कर्णम् श्यामला” च । तस्याः पिता आन्ध्रप्रदेश-राज्यस्य रेल-विभागे आरक्षकत्वेन कार्यरतः आसीत् । माता गृहिणी अस्ति । माता श्यामला मल्लेश्वर्याः आहाराय सर्वदा चिन्तयति स्म । यतः कस्मैचित् भारोत्तोलकाय पौष्टिकाहारः, सन्तुलिताहारश्च महत्त्वपूर्णः भवति ।

तस्याः एकः भ्राता, चतस्रः भगिन्यश्च सन्ति । भ्रातुः नाम रवीन्द्रकुमार इति । भगिन्यः – नरसम्मा, कृष्णाकुमारी, कल्याणी, माधवी च । स्वबान्धवेषु वयसि सा तृतीयम् अपत्यम् अस्ति ।

तस्याः भगिनी कृष्णाकुमारी अपि भारोत्तोलिका अस्ति । कृष्णाकुमारी अपि राष्ट्रियस्तरस्य स्पर्धायां सम्भजति ।

ई. स. २००० तमे वर्षे तस्याः भारोत्तोलनस्पर्धायाः विषये विवादाः प्रचलन्तः आसन् । किन्तु कांस्यपदके प्राप्ते सति तस्याः पिता अस्यै स्पर्धायै उररीकृतः[३]

बाल्यम्[सम्पादयतु]

मल्लेश्वर्याः पारिवारिकजनाः श्रीकाकुलम-मण्डले निवसन्ति स्म । तथापि तया स्वस्याः बाल्यस्य कानिचित् वर्षाणि आन्ध्रप्रदेश-राज्यस्य प्रकासम्-मण्डलस्य दोनकोण्ड-पत्तने व्यतीतानि आसन् । बाल्ये अपि तस्याः मनसि भारोत्तोलनस्य एव प्रभावः आसीत् ।

शिक्षणम्[सम्पादयतु]

‘अम्दला विलासा’-ग्रामस्य “झेड्.पी.पी.जी. (Z.P.P.G.)-उच्चविद्यालये” मल्लेश्वरी अधीतवती । सा भारतस्य बह्व्यीः भाषाः जानाति । यथा – हिन्दी, आङ्ग्ल्, तेलुगू, बङ्गाली, पञ्जाबी इत्यादयः । एतासु भाषासु तस्याः महत्प्रभुत्वम् अस्ति । सा लघुवयसः एव भारोत्तोलनस्य शिक्षणं प्रापत् ।

आन्ध्रप्रदेश-राज्यस्य श्रीकाकुलम-मण्डलस्य ऊसवनीपेट-ग्रामे “नीलमशेट्टी अप्पन्ना” इत्याख्यः प्रशिक्षकः आसीत्[४] । तेन एव आरम्भे मल्लेश्वर्यै अस्याः क्रीडायाः प्रशिक्षणं प्रदत्तम् आसीत् । तस्याः उत्साहं दृष्ट्वा सर्वे प्रोत्साहनम् अकुर्वन् । तस्मिन् समये “स्पोर्ट्स् अथॉरिटी ऑफ् इण्डिया (ASI)” इत्यनया संस्थया “विशेष क्षेत्र खेल परियोजना” प्रचालिता आसीत् । तस्यां योजनायाम् एव मल्लेश्वरी प्रशिक्षणं प्रापत् ।

अस्याः क्रीडायाः मार्गदर्शकः “पाल सिंह संधू” अपि आसीत् । किन्तु प्रारम्भे मार्गदर्शकः तस्याः विरोधं करोति स्म । सः स्पर्धायां चयने अपि साहाय्यं न करोति स्म, अपितु विघ्नकरः भवति स्म ।

यदा रूस्-देशे ओलम्पिक्-स्पर्धा अभवत्, तदा तत्र लिओनिद् तरनेन्को (Leonid Taranenko) इत्याख्यः तस्याः क्रीडामार्गदर्शकः आसीत् । यदा तया सा स्पर्धा जिता, तदा तस्याः स्पर्धायाः सम्पूर्णः श्रेयः लिओनिद् तरनेन्को (Leonid Taranenko) इत्याख्याय प्रदत्तः आसीत् । यतः तेन मल्लेश्वर्याः हार्दं मार्गदर्शनं कृतम् आसीत् ।

विवाहः[सम्पादयतु]

मल्लेश्वर्याः विवाहः ई. स. १९९७ तमे वर्षे “राजेश त्यागी” इत्याख्येन सह अभवत् । राजेशः अपि भारोत्तोलकः अस्ति । सः C.R.P.F. (Central Railway Police Force) इत्यस्मिन् विभागे कार्यरतः अस्ति । तयोः पुत्रद्वयम् अस्ति । शरच्चन्द्रः, अङ्गदः च [५]

विवाहानन्तरं मल्लेश्वरी पत्या राजेशेन सह यमुनानगरम् अगच्छत् । तौ निवासार्थं यमुनानगरं गतवन्तौ आस्ताम् । किञ्चित्समयं यावत् सा स्पर्धासु भागं न अगृह्णात् । सा बैङ्कॉक्-एशियाई-स्पर्धायै अभ्यासं कुर्वती आसीत् । पुनः सा १९९८ तमे वषे बैङ्कॉक्-एशियाई-स्पर्धासु भागं गृहीतवती ।

स्पर्धायां भारतदेशाय स्पर्धकद्वयस्य एव चयनं भवेत् इति निर्णयः आसीत् । तदा तिस्रः प्रत्याशिन्यः आसन् । तासु मणिपुर-राज्यस्य प्रसिद्धा भारोत्तोलिका कुञ्जरानी देवी अपि आसीत् । अन्ते कुञ्जरानी इत्याख्या निष्कासिता । तदैव बैङ्कॉक्-एशियाई-स्पर्धायां मल्लेश्वर्या वृता । तत्र सा रजतपदकं प्राप्तवती ।

क्रीडाजीवनम्[सम्पादयतु]

भारोत्तोलनं मुख्यतः पुरुषाणां क्रीडा मन्यते । तथापि मल्लेश्वरी अस्यां क्रीडायां प्रवेशं प्राप्तुम् इच्छति स्म । अस्यां क्रीडायां तस्याः अभिरुचिः आसीत् । अतः द्वादशे वर्षे सा अस्याः भारोत्तोलनक्रीडायाः अभ्यासं आरम्भं कृतवती ।

किन्तु पुरुषाणां क्रीडा अस्ति इति नियमानुगुणं बहवः जनाः तस्याः विरोधं कृतवन्तः । किन्तु अन्ते प्रशिक्षकः, पारिवारिकजनाः, मित्राणि च तस्याः समर्थनं, प्रोत्साहनं च अकुर्वन् ।

सा यष्टिकायाः द्वयोः शीर्षयोः पाषाणौ बद्ध्वा संतुलनाय अभ्यासं करोति स्म । तदनन्तरं सा व्यायामशालां गच्छन्ती आसीत् । प्रातःकाले, मध्याह्ने, सांयकाले च सा अभ्यासम् एव करोति स्म । निरन्तरम् अभ्यासेन तस्याः स्नायवः दृढीभवन्ति स्म । अतः तस्यै आदिनं शारीरिकपीडा भवति स्म । तथापि प्रातःकाले पुनः व्यायामशालां गच्छति स्म ।

तया स्वस्याः सम्पूर्णं जीवनं भारोत्तोलनाय समर्पितं कृतम् आसीत् । अतः सा कुत्रापि न गच्छति स्म । सा क्षेत्रीयासु, राष्ट्रियासु च प्रतियोगितासु प्रविष्टवती । सर्वासु प्रतियोगितासु सा भागं गृहीतवती । अनन्तरं सा प्रतियोगितासु जयं, पुरस्कारान् च प्रापत् ।

भारते राष्ट्रियस्तरस्य कनीयानां (Junior) भारोत्तोलनस्पर्धा आसीत् । तस्यां स्पर्धायां मल्लेश्वरी प्रथमस्थानं प्राप्तवती । तदनन्तरं ई. स. १९९२ तमे वर्षे थाइलैण्ड्-देशे एशिया-खण्डस्य विजेतृक्रीडास्पर्धा अभवत् । तस्यां स्पर्धायां सा भागमगृह्णात् । ततः तया त्रीणि रजतपदकानि जितानि ।

ई. स. १९९४ तमे वर्षे तुर्की-देशे वैश्विकविजेतृस्पर्धायाः आयोजनम् अभवत् । तदा तस्यां स्पर्धायां मल्लेश्वरी द्वितीयस्थानं प्राप्तवती आसीत् । किन्तु किञ्चिद्दिवसानन्तरं सर्वैः ज्ञातं यत् – “चीन-देशीयेन स्पर्धकेन मादकद्रव्यस्य उपयोगः कृतः आसीत् । अतः सः स्पर्धकः अयोग्यः उद्घोषितः । तेन कारणेन सः तत्रापि प्रथमस्थानं प्रापत् ।

ई. स. १९९५ तमे वर्षे कोरिया-देशे वैश्विकस्तरस्य भारोत्तोलनस्पर्धा आयोजिता । तस्यां तया ११३ कि. ग्रा. भारं उत्तोलितम् । तेन सा विश्वभारोत्तोलकस्य पुरस्कारं प्रापत् ।

ई. स. १९९४ तः १९९५ पर्यन्तं सा मानसिकस्थितिः समीचीना नासीत् [६]। यतः तत्कालीनाः क्रीडासमीक्षकाः मल्लेश्वर्याः समीक्षां कुर्वन्ति स्म । ते कथयन्ति स्म यत् – “मल्लेश्वर्याः शारीरिकभारः अधिकः अस्ति । सा यविरां पिबति” इति । अनेन कारणेन कानिचिद्दिनानि यावत् तस्याः मानसिकस्थितिः असन्तुलिता जाता । किन्तु दृढविश्वासेन सा पुनः अभ्यासरता अभवत् ।

ई. स. १९९६ तमे वर्षे “आउट्लुक्”-नामिकायाः साप्ताहिक्याः प्रथमः वार्षिकोत्सवः आसीत् । अतः तन्निमितं साप्ताहिक्यां भारतस्य पञ्चाशत् विशिष्टमहिलानाम् उल्लेखः प्रदत्तः आसीत् । तासु महिलासु मल्लेश्वरी अपि अन्यतमा आसीत् ।

ई. स. २००० तमे वर्षे सिडनी-महानगरे ओलम्पिक्-क्रीडा अभवत् । तस्याम् अपि मल्लेश्वरी भागं गृह्णीतवती । तस्याः नाम ६३ कि. ग्राम् भारोत्तोलनस्पर्धायाम् आसीत् । किन्तु तदा मल्लेश्वर्याः भारः ६९.९० किलोग्राम् आसीत् । अतः सा “भारतीयोत्तोलनसमित्या” (Indian Weight-lifting Association) सा ६९ कि. ग्राम् भारोत्तोलनस्पर्धायां समावेशिता ।

Anti Doping Agency इत्यस्याः संस्थायाः अधिकारिभिः मल्लेश्वर्याः परीक्षणं कृतम् आसीत् । कारणं अधिकारिणः शङ्काम् अकुर्वन् यत् – “मल्लेश्वर्या मादकद्रव्यं तु न सेवितं वा” ? इति । यतः मादकद्रव्यैः ऑक्सीजन्-वायोः संवाहिकानां रक्तकोशिकानां वृद्धिर्भवति ।

सामान्यतः एकस्य क्रीडालोः एकं वारं एव परीक्षणं क्रियते । किन्तु तदा मल्लेश्वर्याः द्विवारं परीक्षणं कृतम् । तथापि मल्लेश्वर्याः मनसि उद्वेगस्य प्रभावः नासीत् । अन्ते सा सम्पूर्णे परीक्षणे उत्तीर्णा जाता ।

तस्यां स्पर्धायां चीन-देशस्य “लिन्-विनिङ्ग्” (६६.७४ कि. ग्रा.), हङ्गरी-नगरस्य “से-अर्ज्-बीयट्-मारकुस्” (६७.७६ कि. ग्रा.), भारत-देशस्य “कर्णम् मल्लेश्वरी (कि. ग्रा.)” च आसीत् । तेषु “लिन् विनिङ्ग्” स्वर्णपदकं, “से-अर्ज्-बीयट्-मारकुस्” रजतपदकं, “कर्णम् मल्लेश्वरी” कांस्यपदकं च प्रापत् ।

सिडनी-नगरस्य ओलम्पिक्-स्पर्धायां मल्लेश्वर्या २४० कि. ग्रा. भारं उत्तोलितम् आसीत् । अस्याः सफलतायाः कारणात् पदकसूचौ भारत-देशस्य नाम ७१ क्रमाङ्के अभवत् । २००० तमे वर्षे सिडनी-नगरस्य ओलम्पिक्-स्पर्धासु महिलायाः भारोत्तोलनस्पर्धा प्रथमवारम् आयोजिता ।

कास्यपदकं प्राप्य मल्लेश्वर्या उक्तं यत् – “अनेन पुरस्कारेण, सम्माननेन चाहं प्रसन्नाऽस्मि” । यतः ओलम्पिक्-स्पर्धासु सा प्रथमा महिला आसीत्, यया पदकं सम्प्राप्तम् ।

अस्याः विशिष्टसफलतायाः कारणेन “टाईम्”-नामिकायां पत्रिकायां “वर्षस्य प्रथमा एशियाई-महिला” इति सम्बोधनेन मल्लेश्वर्याः सम्मानः कृतः ।

ओम प्रकाश चौटाला इत्याख्यः हरियाणा-राज्यस्य तत्कालीनः मुख्यमन्त्री आसीत् । तेन विशिष्टसफलतायाः कारणेन मल्लेवर्याः अभिनन्दनं कृतम् आसीत् [७]। अतः मल्लेश्वरी तस्मै स्वीयां कृतज्ञताम् आविष्कृतवती ।

मल्लेश्वर्याः विशिष्टसफलतायाः कारणेन तत्कालीनेन प्रधानमन्त्रिणा “अटल बिहारी वाजपेयी” इत्याख्येन उक्तं यत् – “भवत्याः विशिष्टसफलतायाः कारणेन अस्माकं देशः गर्वान्वितः जातः । निश्चितमेव अयं महान् सम्मानः वर्तते इति । भारत-देशस्य महिलाभ्यः अपि महत्वपूर्णम् उदाहरणम् अस्ति । भवत्याः प्रदर्शनेन भारत-देशस्य युवकाः प्रेरिताः भविष्यन्ति” इति ।

ई . स. २००९ तमे वर्षे “इण्डियन् वेटलिफ्टिङ्ग् फेडरेशन्” इत्यस्याः संस्थायाः अधिकारिभिः मल्लेश्वर्यै तस्याः संस्थायाः उपाध्यक्षपदं प्रदत्तम् आसीत् [८]। तदा तया विचारितम् आसीत् यत् – “सा क्रीडाक्षेत्रे परिवर्तनं करिष्यति” इति । किन्तु सा निष्फला अभवत् ।

बालिकाः समस्यानां निवारणारणार्थं मल्लेवर्याः पार्श्वे गच्छन्ति स्म । किन्तु तस्याः संस्थायाः महासचिवः बालिकाः प्रपोथति स्म । अतः सा क्रीडायाः स्वरूपं परिवर्तयितुम् असमर्था जाता ।

मल्लेश्वरी उवाच यत् – “अहं ज्येष्ठा भारोत्तोलिका अस्मि । तथापि बालिकाः मया सह सम्भाषणं कर्तुम् असमर्थाः” । अस्मात् कारणात् मल्लेश्वर्या ई. स. २०११ तमस्य वर्षस्य दिसम्बर-मासे संस्थायै त्यागपत्रं प्रदत्तम् ।

अनन्तरं तया उक्तं यत् – “भारत-देशे क्रीडासंस्थायाः अधिकतमाः पालकाः चालकाः च संस्थया सह संलग्नाः न भवन्ति । ये देशाः भारतस्य तुलनायां लघवः वर्तन्ते, ते देशाः अपि ओलम्पिक्-स्पर्धायां पञ्च षड् वा पदकानि प्राप्नुवन्ति । यतः तेषु देशेषु भूतपूर्वाः क्रीडालवः क्रीडाविषये संलग्नाः भवन्ति । वयं वैदेशिकेभ्यः मार्गदर्शकेभ्यः (Coach) धनव्ययं कुर्मः, किन्तु स्वदेशस्य भूतपूर्वक्रीडालूनां साहाय्यं न स्वीकुर्मः । भारोत्तोलनस्पर्धायै मम मनसि महान् स्नेहः विद्यते । किन्तु यदि क्रीडासंस्थायाः कार्यशैल्यां परिवर्तनं न भवेत्, तर्हि भविष्यत्काले भारतम्अपरा कर्णम् मल्लेश्वरी प्राप्तुं न शक्ष्यति ।

स्वप्नः[सम्पादयतु]

मल्लेश्वरी हरियाणा-राज्ये एकां भारोत्तोलनसंस्थां स्थापयितुं इच्छति स्म । सा इच्छति यत् – भारतस्य महिलाः अपि क्रीडायां सोत्साहं भागं गृह्णीयुः । मुख्यमन्त्रिणा अपि सा उक्ता यत् – भविष्यत्काले क्रीडालुभ्यः हरियाणा-राज्ये एका भारोत्तोलनसंस्था भवेत् इत्यस्मिन् विषये हरियाणा-राज्यसर्वकारः चिन्तयति ।

प्रशस्तयः[९][सम्पादयतु]

मल्लेश्वरी स्वस्याः क्रीडाजीवने बहून् पुरस्कारान्, सम्माननानि च प्रापत् । अधः तेषां वर्णनं कृतम् अस्ति यत् –

विशिष्टप्रशस्तिः[सम्पादयतु]

  • ई. स. १९९४ तमे वर्षे भारतसर्वकारेण मल्लेश्वर्यै अर्जुनपुरस्कारः प्रदत्तः । अयं पुरस्कारः भारतस्य सर्वोच्चक्रीडापुरस्कारेषु द्वितीयक्रमाङ्के वर्तते ।
  • ई. स. १९९६ तमे वषे मल्लेश्वरी भारतसर्वकारस्य “राजीवगान्धी-खेल-रत्न-पुरस्कारेण” सम्मानिता अभवत् ।
  • ई. स. १९९६ तमे वर्षे भारतसर्वकारेण मल्लेश्वर्याः “पद्मश्री”-प्रशस्त्या सम्माननं कृतम् ।

पुरस्काराः, सम्मानाः च[सम्पादयतु]

  • ई. स. २००० तमे वर्षे ओलम्पिक्-क्रीडास्पर्धायां भारोत्तोलने कांस्यपदके प्राप्ते सति केन्द्रीयसर्वकारेण, क्षेत्रीयसर्वकारेण च मल्लेश्वर्यै पञ्चलक्षं रूप्यकाणि पुरस्काररूपेण प्रदत्तानि आसन् ।
  • मल्लेश्वरी वैश्विकविजेतृक्रीडास्पर्धायां पञ्च स्वर्णपदकानि, षड् रजतपदकानि च प्रापत् ।
  • एशिया-खण्डस्य विजेतृक्रीडास्पर्धायाम् अपि मल्लेश्वर्या षड् स्वर्णपदकानि, दश रजतपदकानि च प्राप्तानि सन्ति ।
  • एशिया-खण्डस्य क्रीडासु अपि सा एकं रजतपदकं, एकं कांस्यपदकं च प्राप्तवती ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Karnam Malleswari Olympic Weightlifting Champion". http://www.olympics30.com/. Retrieved 21 March 2015. 
  2. "Karnam Malleswari Biography". http://www.veethi.com/. Retrieved 21 March 2015. 
  3. "Malleswari’s Father agrees to alternative proposal". http://www.thehindu.com/. Retrieved 21 March 2015. 
  4. शिखर भारतीय महिलाएं. Google books. https://books.google.co.in/books?id=a3CDBQAAQBAJ&pg=PA82&lpg=PA82&dq=%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%AE+%E0%A4%AE%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%80&source=bl&ots=HeUweQMI-H&sig=BDj6OF8aSsa5_LAbJ3J1ItfiP-Y&hl=en&sa=X&ei=DDcNVffeJNO9uATfioIo&sqi=2&ved=0CF4Q6AEwCw#v=onepage&q&f=false. Retrieved 21 March 2015. 
  5. "Heroic Mother Of Day 6: Karnam Malleswari". https://www.facebook.com/. Retrieved 21 March 2015. 
  6. भारत की प्रथम महिलाएँ. Google books. https://books.google.co.in/books?id=EIODBQAAQBAJ&pg=PA136&lpg=PA136&dq=%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%AE+%E0%A4%AE%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%80&source=bl&ots=89CDT4lSKI&sig=E9R9RMP4-HeQ_xnPy7uhxB16W7E&hl=en&sa=X&ei=DDcNVffeJNO9uATfioIo&sqi=2&ved=0CGMQ6AEwDA#v=onepage&q&f=false. Retrieved 21 March 2015. 
  7. "Karnam Malleswari". http://www.tribuneindia.com. Retrieved 21 March 2015. 
  8. "Karnam Malleswari". http://www.aazad.com/. Retrieved 21 March 2015. 
  9. "Karnam Malleswari". http://www.mapsofindia.com. Retrieved 21 March 2015. 
"https://sa.wikipedia.org/w/index.php?title=कर्णम्_मल्लेश्वरी&oldid=316815" इत्यस्माद् पुनः प्राप्तिः