कल्याणसौगन्धिकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कल्याणसौगन्धिकम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः नीलकण्ठः
देशः भारतम्
भाषा संस्कृतम्

कल्याणसौगन्धिकं नाम व्यायोगो नीलकण्ठेन रचितः । असौ कदा प्रादुरभूदिति न तावन्निश्चप्रचम् । आ नवम्या आ च पञ्चदश्याः शताब्द्द्याः अयं जनुषा भुवं भूषयांबभूवेति संशीतिरेव विवेचकानां दुनोति चेतः । भवतु, डेमहोदयस्तु एनं नवमशताब्दीकं निरधारयत् । व्यायोगश्चायं महाभारतीयां वनपर्व-कथामधिष्ठाय रचितो यत्र द्रौपद्याः प्रीतये वृकोदरः सौगन्धिकं पुष्पमानिनीषू रक्षोभिर्युयुधे हनूमता च वाक्कलिं कल्पितवान् ।

वायुवेगेनापहृतं दिव्यं कुसुममाघ्राय तस्य रामणीयकं च निभाल्य पाञ्चाली तादृशं पुष्पं चकमे । वायुसूनु-र्वायुवेगेन धावन् विप्रदम्पतिभ्यां वार्यमाणोऽपि अविरतो दुर्गम-बन्धुरेषु गिरिपथेषु नैकवधान् विघ्नान् प्रतिद्रवन् गन्धमादनस्थं तं जलाशयं प्राप यो विकचैः सौगन्धिकैः प्रतिच्छन्नः परिमलेन वातलहरीः सम्भारयन् विरराज । निर्भीकं पुष्पाणि चिन्वानो भीमः क्रद्धेन रक्षसा संगतो विभीषितश्च तं मरिष्यसि एवेत्युक्त्वात्मपरिचयेन तमाहूय गदया निहत्य पलायनपरायणं चकार । अथ नेपथ्यात् श्रूयते स्म - भीमं पुष्पावचयान्मा स्म निवार्यतेति । सोऽपि पुष्पाण्यवचित्य कदलीवनं प्रविष्टस्तत्रत्यं सौमनस्यभाजं निसर्गमहिमानं वीक्ष्य मनसि चकार - अत्र कोऽपि प्रतापवान् निवसतीति । असौ कण्डूयमानभुजो युयुत्सालोलमना आह्वयत् । प्रत्याह्वानेन सह हनूमान् संस्कृतां गिरं संगिरन्नागतः । अथासौ जरठः कपिरिति कृत्वापसरणाय दत्तादेशो नाहं वार्धक्यपरिभूतः स्थानान्तरं गन्तुमपि प्रभुरिति प्रत्यवदत् । अपसारयितुं कृतोत्साहो भीमो न तस्य पुच्छमपि चालयितुं शशाकेति मनसि स्वं निन्दन्नपि देवैः स्तम्भितमिति तं तथास्थितमेव मुष्टिभिश्चूर्णयितुं घोषयन् ममाग्रजो हनूमान् स्वजातीयं त्वां रक्षितुं नापतेदिति समकथयत् । ततो मुष्टीमुष्टिरणे प्रवृत्ते विद्याधर-दम्पती तौ वारयित्वा सुरेन्द्र-सन्देशेन युवां भ्रातृभावेन रामलक्ष्मणाविव स्तामिति निरदिशताम् । रामनाम्ना श्रुतिगतेन भाव-विह्वलो वानरोत्तमः संग्रामेऽर्जुनस्य ध्वजे स्वस्यावस्थानं प्रत्यजानीत् ।

समीक्षा[सम्पादयतु]

व्यायोगानुरूपं कथावस्तु योजयन् भीमं च धीरोद्धतं चित्रयन् नीलकण्ठस्तत्र तत्र परिवर्तनानि विधत्ते स्म । प्रसङ्गाननुसृत्य लघुकलेवरेऽस्मिन् रूपके संवादेषु काव्य-कौशल-लेशानपि पश्यामः -

लज्जानमद्---वदन--मन्थरमीक्षणार्धं

सप्रश्रयाहृतकरद्वयरुद्धवक्षः।

साकूतदर्शनकृतैक-कटाक्षपात-

माश्लेषसौख्यमनुजस्य सुधेत्यभेदः।।

इति हनुमद्वचनसुधादीधितिविनिद्रयति मानसकुमुदं रसिकानाम् । वात्सल्यमिह सजीवामिव मूर्तिः दधानमवतरति । वय-वस्तु-माला-गुम्फन-पटिम्ना हरत्येव हृदयं नीलकण्ठः कामपि चित्र-पक्षति-विच्छित्तिमयमिव नृत्ते पदैर्योजयन् -

अन्तर्गहोद्गतमहाजगरस्य-दंष्ट्रा-व्याकृष्टपादमुरुगर्जितमेषसिंहः।

दंष्ट्राग्रकृष्टपृथुकुम्भतटास्थिवल्गद्-ग्रीवानिखातनखमाक्षिपति द्विपेन्द्रम्।।

इत्यहोऽजगरधृतैकपादः सिंहो गजेन्द्र-कुम्भे निखातदंष्ट्राश्चित्रितश्चित्रयते मनः। अन्येन आक्रान्तोऽन्यमाक्रामतीति सनातनी लोकयात्रा व्यज्यमाना भासतेतराम्। औद्धत्यप्रधाने व्यायोगे खलु विकत्थन-प्रचुरा एव संवादा योज्यन्ते किन्तु तत्र नैपुणं खिलीभूतमेव दृश्यते । यथा राक्षसः -

खड्गेन क्षतविग्रहस्य पिशितैः क्लृप्तोपदंशोत्तरं

कोष्णं ते रसयन् कपालचषकेणाकण्ठमस्रासवम्।

आन्त्रस्रग्गुणमुद्वहन् विरचन्नेपथ्यमस्थिव्रजै-

र्नृत्यन् मत्तविलासेजां धनपत्तेः प्रीतिं करिष्याम्यहम्।।३।।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कल्याणसौगन्धिकम्&oldid=436965" इत्यस्माद् पुनः प्राप्तिः