कविकुलकोकिलम्
कविकुलकोकिलम् | |
---|---|
'राजा' रविवर्मणा निर्मितं प्रतापचित्रम् | |
लेखकः | डॉ. रमा चौधुरी |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
कविकुलकोकिले नाटकेऽस्मिन् दश दृश्यानि विलसन्ति । १९६० ईसवीये उज्जयिन्यां कालिदाससमारोहे नाटकस्यास्याभिनयेन स्वर्णकलशस्य पुरस्कार उपलब्धः ।
कथावस्तु
[सम्पादयतु]उज्जयिन्याः समीपे पौण्ड्राभिधाने ग्रामे कालिदास उपद्रवैः प्रसिद्धोऽस्ति । तस्य पिता प्रातः काले उषोवन्दनां कृत्वा करतलवादनपुरःसरं कालिदासं नृत्यन्तं व्यवलोकयत् । पित्रा पृष्टः सोऽब्रवीत् ग्रामसीमायाः कोणे विद्यमाने लघुसरसि शतदलकमलं विकसितं, तस्मान्नृत्यामि । पितुर्मतेनात्र प्रसन्नताया न किमपि विशिष्टं कारणमासीत् । तदानीमेव कालिदासस्याध्यापकास्तं क्रोशन्तस्तस्य पितुः पार्श्वे समागत्य तस्योद्दण्डतां न्यवेदयन् । अथ च तैः कथितं भवतः पुत्रः संस्थातो निष्कासितः यतो हि स संस्थाया दुष्टतमो मूर्खतमोऽयोग्यतमश्च छात्रोऽस्ति । अथ कालिदासोऽब्रवीत् एतेषामध्यापनेन मम कर्णौ दुग्धप्रायौ भवतः । नाहं ताडनशीलेभ्योऽध्यापकेभ्यः पठिष्यामि । पित्रा कथितम् - अतः पश्चात्ते मुखं न दिदृक्षामि । ततस्तस्य स्नेहमयी जननी तं स्वसविधे नीतवती।
द्वितीयदृश्ये कालिदासः कालीं परिहसति । पाठशालां कारागारमिति कथयति । अतः पश्चाद् अध्यापकस्य हस्तगतो न भविष्यामीति प्रतिजानीते । अथ तस्य जनन्यागत्य पृष्ठं — सूर्यातपे कस्मात् स्थीयते ? कालिदासोऽवादीत् - विद्यालयं गमिष्यामि । अहं प्रकृतिजनन्याः वनविद्यालये पठिष्यामि । तत्र प्राकृतिकाः विषयाः रसमया रमणीया रोमाञ्चकाश्च सन्ति । अतः पश्चाद् द्वौ महाशयौ समागत्य कालिदासकृतं पुष्पफलचौर्यं तस्य जनकाय निवेदितवन्तौ । पिता तौ क्षमामयाचत । कालिदासेनोक्तम् - एतेन किम् ? नाहं पश्चात्तपामि । ताभ्यां चौरकालिदास इत्यभिहितम् । ततस्तेन कथितम् – युवामेव चौरौ, यौ प्रकृतिमातुः सम्पत्तिं स्वकीयां मन्येथे । तत्र तु सर्वेषां समानाधिकारः।
एकस्मिन् दिवसे कालिदासमात्रा कथितम् - गृहे भोज्यं न विद्यते । कालिदासो वनं गतवान् । तत्र स काष्ठविक्रेतारमपश्यद्, यः प्रतिदिनं विपिने काष्ठं संगृह्य नगरे विक्रीणाति स्म । कालिदासस्तादृशीमेव जीविकामात्मने निश्चितवान् । ततस्तस्यैव काष्ठविक्रेतुः कुठारं गृहीत्वा काष्ठं संगृह्य शयितः । तत्र द्वौ जनौ वनविहारार्थमागतौ । भोजनपाचनाय तौ काष्ठसञ्चयार्थं तत्रैव समायातौ । ततः तौ कालिदासं विगतनिद्रं विधाय तं धिक्चक्रतुर्यत्पण्डितसूनुस्त्वं काष्ठहरोऽसि संवृत्तः । ततस्ताभ्यां परिहासे सोऽभिहितः - दरिद्रतादूरीकरणाय गौडाधिपतेः कन्यां विद्यावतीं स्वयंवरे प्राप्नुहोति।
चतुर्थदृश्ये विद्यावतीस्वयंवरे पराजिताः पण्डिताः परो लज्जामनुभवन्ति । तस्ते मूर्खश्रेष्ठस्यान्वेषणं प्रारभन्ते । पञ्चमदृश्ये कृत्तप्रायां वृक्षशाखामधिरुह्य तस्याः कर्तने संलग्नं कालिदासं विलोक्य ते प्रसन्नाः भवन्ति।
षष्ठे दृश्येऽङ्गुलिनिर्देशपुरःसरे शास्त्रार्थे विजयी कालिदासो राजकन्यायाः विद्यावत्याः पाणि गृह्णाति | सप्तमदृश्ये रात्रौ स वासकगृहे विद्यावतीं पश्यति । विद्यावत्या निवेदितं-रमणीयेऽस्मिन् निशीथे संकथा भवेत् । कालिदासो मनसि सञ्चुकोच । मनसा पुनः पुनः सरस्वत्याः स्तुतिं कृतवान् – “देवि सरस्वति ! देवि भारति ! आविर्भव मम रसनायाम् । मुहूर्तमात्रमपि आविर्भव, आविर्भव । रक्ष मां, रक्ष मामिति ।' राजदुहित्रा पुनः पुनः प्रेरितोऽपि स मौनं कलितवान् । अथ तदानीमेवोष्ट्रध्वनिः श्रुतः । कस्यायं ध्वनिरिति विद्यावत्या पृष्टः स “उट्र” इत्युवाच । तच्छुत्वा सा भृशं मनसि सन्तापमन्वभवत् । ततो विद्यावती तं मूर्खतममाकलव्य धूर्तादि वदन्ती स्वभाग्यमुपालभत ।
किं न करोति विधिर्यदि रुष्टः किं न करोति स एव हि तुष्टः।
उट्रे लुम्पति रं वा षं वा तस्मै दत्ता विपुलनितम्बा।।७.५२।।
अनन्तरं तया नेहागन्तव्यं कदापि । न दर्शनीयं त्वया मुखमित्याद्युवाच। अष्टमे दृश्ये कालिदासः सरस्वत्याः स्तुतेरनन्तरं तस्याः दर्शनं प्राप्तवान् । सरस्वत्या कथितम् त्वमस्मिन् कुण्डे त्रिवारं निमज्यावलोकय किं दृश्यते । कालिदासो यान्युत्पलानि तत्रोपलब्धवान् तैरेव स देवीमानर्च। ‘वं कविकुलकोकिलो भूया...' इत्याशीर्वाग्देवतया तस्मै प्रदत्ता। नवमे दृश्ये कालिदासो महाकविर्भवति। ततः स विद्यावत्याः राजप्रासादमगच्छत् । विद्यावत्यपि स्वकार्यं शुशोच । कालिदासस्तस्याः द्वारं हस्तेन उद्घाटयत् । विद्यावती कालिदासस्य स्वरमभिज्ञाय - अस्ति कश्चिद् वाग्विशेषः इति श्रुत्वा प्रसन्नतायाः परं पारं गता। तदा सात्मानं कृतार्थामन्वभवत्।
दशमदृश्ये महाकविः सम्राजो विक्रमादित्यस्य सभायां स्वकीयं काव्यकौशलं प्रदर्शयति । तत्र विदुषां सम्मत्या स सम्राजा ‘कविसार्वभौमः' इत्युपाधिं प्राप्तवान् । ततः परं महाकविः विक्रमादित्यस्य नवरत्नेषु सम्मानितः । सभायां कालिदास इदं सिद्धं कृतवान् यत् काव्यमेव श्रेष्ठं शास्त्रम् । काव्यमेव जीवनस्य श्रेष्ठं सत्यम् । अन्येषां शास्त्राणां महत्त्वमनन्तरं राजते इति।
शिल्पम्
[सम्पादयतु]कविकुलकोकिले भावुकतापूर्णानामेकोक्तीनामाधिक्यं राजते। तृतीयदृश्यस्य कालिदासस्यैकोक्तौ प्रकृत्या सह भव्यं सामञ्जस्यं विलसति। गालिदानस्य आधुनिकी रीतिरप्यस्मिन् वर्तते । कालिदासस्याध्यापकः कृमिकीट-कृकलास-शठशृगाल-बर्वर-मर्कट-गर्दभाद्यपशब्दान् प्रयुङ्क्ते।
प्रस्तुत-नाटकस्य प्रशंसा प्रेक्षकाणां मुखैर्वर्तते -
It was an enjoyable play, full of witty dialogues as well as petty songs exquisitely sung. - B. K. Bhattacharya I. A. S. Foreword of Kalidasa CaritamP. VII