कारगिलयुद्धम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कारगिलयुद्धम्
Kargil War
Part of भारतपाकिस्थानयुद्धानि
Kargil.map.mr1.png
कारगिलयुद्धक्षेत्रम्
दिनाङ्कः मई-जुलाई १९९९
स्थानम् कारगिलमण्डलम्, जम्मूकाश्मीरराज्यम्
फलम् युद्धपूर्वं या सीमाव्यवस्था आसीत्, सा व्यवस्था अनुसरणीया [१]
  • वास्तविकनियन्त्रणरेखायाः बहिः गताः पाकिस्थानस्य सैनिकाः
भूमिगत-
परिवर्तनम्
नैकस्यापि
प्रतिद्वन्द्विनः
भारतम् भारतम् Pakistan पाकिस्थानम्
नेतारः आज्ञाकारिणश्च
वेद प्रकाश मल्लिक परवेझ् मुशर्फ्
शक्तिः
३०,००० ५,०००
हताहतानां सङ्ख्या हानिश्च
भारतस्य अधिकृता साङ्ख्यिकी
  • ५२७ मृताः[२][३][४]
  • १,३६३ आहताः[५]
  • युद्धबन्दिनः
  • १ युद्धविमानं ध्वस्तम्
  • १ युद्धविमानम् अपतत्
  • १ हेलिकॉप्टर् ध्वस्तम्

पाकिस्थानस्य याच्ञा

पाकिस्थानाधिकृता साङ्ख्यिकी

पाकिस्थानस्य अन्याः याच्ञाः

भारतीययाच्ञाः

कारगिलयुद्धं (आङ्ग्ल: Kargil War, हिन्दी: करगिल युद्ध) भारतस्य ऐतिहासिकविजयस्य स्मारकत्वेन इतिहासे अङ्कितम् अभवत् । १५,००० मीतपादौन्नते पर्वते एतत् युद्धं जातम् आसीत् । पाकिस्थानदेशेन कारगिल, द्रास, बटालिक इत्यादिभ्यः स्थानेभ्यः भारतस्योपरि आक्रमणं कृतम् आसीत् । भारतगणराज्यस्य जम्मूकाश्मीरराज्यस्य श्रीनगर-महानगरस्य, लेह-नगरस्य च मध्ये स्थितं राष्ट्रियमहामार्गं ध्वंसितुं पाकिस्थानस्य प्रयासः आसीत् । परन्तु पाकिस्थानस्य सैनिकानां सः प्रयासः भारतीयसैनिकैः खण्डितः । तस्मिन् युद्धे भारतेन पाकिस्थानस्योपरि महान् विजयः प्राप्तः । पाकिस्थानविरुद्धं यत् युद्धं भारतगणराज्यम् अकरोत्, तस्याः युद्धस्य योजनायाः नाम ‘ऑपरेशन् विजय’ आसीत् ।

कारगिल इत्युक्ते किम् ?[सम्पादयतु]

कारगिलयुद्धस्य विषये सर्वेषां ज्ञानम् अस्ति । परन्तु कारगिल इत्युक्ते किम् इति विरलाः एव जानन्ति । भारतपाकिस्थानदेशयोः मध्ये या वास्तविकनियन्त्रणरेखा (Line of Actual Control) विद्यते, तस्याः समीपे कारगिल-नामकम् एकं मण्डलम् अस्ति, तस्य मण्डलस्य केन्द्रमस्ति कारगिल-नगरम्कारगिल-नगरं सिन्धुनद्याः सुरु-नामिकायाः उपनद्याः तटे विकसितम् अस्ति । शीतकाले तस्मिन् नगरे ऋणं ४८ अंशं तापमानं भवति । लद्दाख-प्रदेशस्य समीपवर्तिषु बृहन्नगरेषु कारगिल-नगरं द्वितीयम् अस्ति । एतस्य नगरस्य जनसङ्ख्या अधिका नास्ति । परन्तु युद्धक्षेत्रत्वात् एतस्य नाम विश्वे प्रख्यातम् अभवत् ।

सीमातीक्रमणस्य ज्ञानम्[सम्पादयतु]

१९९९ तमस्य वर्षस्य ‘मई’-मासस्य तृतीये दिनाङ्के काश्मीरराज्यस्य बटालिक-विस्तारस्य निवासी ताशी-नामकः एकः पशुपः (herdsman) पशुं चारयितुं गृहात् निर्गतः । मार्गे ताशी अन्वभवत् यत्, “पशुवृन्दे एकः ‘याक्’-पशुः न्यूनः अस्ति” इति । अतः सः 'बञ्जु हिल्स्'-नामिकायाः गिरिकायाः (hill) शीर्षम् आरोहत् (चढ़ा) । गिरिकायाः उपरि स्थित्वा यदा ताशी स्वपशुम् अन्विष्यति स्म, तदा वायव्यदिशि अन्यगिरिकायां तेन जनाः दृष्टाः । सामान्यतः शीतकाले भारतीयसैनिकाः अपि तस्मिन् क्षेत्रे न भवन्ति । अतः तस्य मनसि कुतूहलः समुद्भूतः । भाग्यवशात् तस्य पार्श्वे द्विनेत्री (binocular) आसीत् । तस्य द्विनेत्रिणः माध्यमेन यदा सः तत्र अपश्यत्, तदा पाकिस्थानदेशेन भारतीयसीमायाः अतिक्रमणं कृतमस्ति इति दृष्ट्वा सः आश्चर्यचकितः अभवत् । यतो हि भारतीयसैन्यं शीतकाले तस्मिन् क्षेत्रे न भवति । तदुपरान्तं, भारतीयसैन्यावासे पाकिस्थानदेशस्य सैनिकाः स्वसैन्यावासस्य (bunker) निर्माणे रताः आसन् । सीमाप्रदेशनिवासी सः स्थित्याः गभीरताम् अजानत् । अतः सः झटिति समीपस्थं भारतीयसेनाकार्यालयम् अगच्छत् । तत्र गत्वा सः पाकिस्थानसैनिकानां सीमातिक्रमणस्य विषये सूचनाम् अयच्छत् ।

एकस्य सामान्यस्य नागरिकस्य सूचनायाः विषये भारतीयसैनिकैः गभीरतया न चिन्तितम् । ततः दिनत्रयानन्तरं षष्ठे दिनाङ्के स्थितेः पुष्टिं कर्तुं भारतीयसैन्यस्य एकं दलं 'बञ्जु हिल्स्' अगच्छत् । सूचनायाः सत्यतां ज्ञात्वा सैनिकाः स्वोच्चाधिकारिणे सीमातिक्रमणस्य सूचनाम् अयच्छन् । ततः सैन्याधिकारी देहली-महानगरस्थाय प्रधामन्त्रिकार्यालयाय पाकिस्थानस्य सीमातिक्रमणस्य समाचारं प्रैषयत् । ततः भारतीयाः अजानन् यत्, “शीतकाले यत् सैन्यवासं रिक्तम् आसीत्, तस्मिन् अधुना पाकिस्थानदेशस्य सैनिकानाम् आधिपत्यम् अस्ति” इति । पाकिस्थानस्य सैनिकान् भारतीयसीमायाः प्रतिप्रेषितुं यद् युद्धम् अभवत्, तदेव कारगिलयुद्धम् ।

ताशी स्वस्य लुप्तं पशुं तु न प्रापत्, परन्तु सः देशसेवायाः अमूल्यम् अवसरं प्रापत् । भारतीयसैन्यं तस्मै ५०,००० रूप्यकाणि पारितोषिकत्वेन अयच्छत् । ताशी युद्धानन्तरम् अपि भारतीयसैन्यस्य साहाय्यम् अकरोत् । युद्धस्य समाप्तेः त्रिवर्षानन्तरं ताशी युद्धक्षेत्रस्य समीपवर्तिविस्तारे अटन् आसीत् । तत्र सः भारतीयसैनिकानां शवानि अपश्यत् । सामान्यतः भारतीयसैनिकाः युद्धस्थानात् मृतसैनिकानां शवानि नीत्वा सैनिकस्य परिवाराय यच्छन्ति । परन्तु भारतीयसैनिकैः यानि शवानि न प्राप्तानि, तानि ताशी प्रापत् । सः तेषां हुतात्मनां सैनिकानां त्रिवर्षपुरातनानां गलितशवानां सूचनां भारतीयसेनायै अयच्छत् । बटालिक-विस्तारस्य स्थानिकाः अपि युद्धकाले भारतीयसैन्यस्य साहाय्यम् अकुर्वन् । मार्गप्रदर्शनभोजननिर्माणेत्यादिषु कार्येषु स्थानिकाः भारतीयसैनिकानां साहाय्यम् अकुर्वन् ।

पृष्ठभूमिका[सम्पादयतु]

१९४७ तमात् वर्षात् भारत-पाकिस्थानदेशयोः मध्ये वारं वारं युद्धानि अभूवन् । तेषु १९४७,१९६२,१९७५ वर्षे जातानि युद्धानि अतिभीषणानि आसन् । पाकिस्थान-देशस्य आतङ्कवादिनः समयान्तरे भारतीयसीमायाः अतिक्रमणं कृत्वा जनसामान्यान्, भारतीयसैनिकान् च मारयन्ति स्म । एतादृश्यां स्थित्यां सत्याम् अपि भारतगणराज्यस्य तत्कालीनः प्रधानमन्त्री अटल बिहारी वाजपेयी पाकस्थानदेशेन सह मित्रतां कर्तुं प्रयासम् अकरोत् । १९९९ तमस्य वर्षस्य 'फरवरी'-मासस्य विंशतितमे (२०/२/१९९९) दिनाङ्के सः बस्-यानेन पाकिस्थानदेशम् अगच्छत् । तस्य गमनेन द्वयोः देशयोः जनाः, सर्वे देशाः च प्रसन्नाः आसन् । तत्र सः पाकिस्थानदेशस्य प्रधानमन्त्रिणं नवाज़ शरीफ इत्येनम् अमिलत् । वाजपेयी इत्यनेन प्रवर्तिता सा यात्रा ‘अमृतसर लाहोर बस् यात्रा’ इति प्रसिद्धा अभवत् । तस्याः यात्रायाः सार्धद्विमासानन्तरमेव पाकिस्थानदेशेन कारगिल-नगरस्य समीपस्थायाः वास्तविकनियन्त्रणरेखायाः उल्लङ्घनं कृतम् ।

वाजपेयी इत्येन सह मित्रवार्ता नवाज़ शरीफ इत्यस्य युद्धसज्जतायाः भागः आसीत् । मित्रवार्तया भारतस्य पाकिस्थानं प्रति मृदुभावः भवेत्, भारतसीमावर्तिप्रदेशेषु सैन्यप्रक्रिया शिथिला भवेत् च इति पाकिस्थानस्य उद्देशः आसीत् । १९९८ तमस्य वर्षस्य 'अक्तूबर'-मासे एव कारगिलयुद्धस्य सम्पूर्णां योजनां परवेझ मुशर्रफ इत्ययं नवाज़ शरीफ इत्यनेन सह अचर्चत् ।

युद्धस्य कारणं[सम्पादयतु]

१९४७ तमे वर्षे यदा भारतस्य सम्प्रदायानुगुणं विभाजनं पाकिस्थानस्य जनकम् अभवत् । तस्मात् कालात् पाकिस्थानस्य काश्मीरराज्यं प्राप्तुम् ईप्सा आसीत् । १९४८ तमे वर्षे पाकिस्थानं भारतीयसीमाम् अतिक्रम्य काश्मीरराज्यस्य बृहद्भागे स्वाधिकारम् अस्थापयत् । तत् स्थानम् अधुना पाकिस्थानेन अतिक्रान्तः काश्मीरप्रदेशः (Pakistan occupied Kashmir-POK) इति प्रसिद्धः । अर्धं काश्मीरराज्यं सम्प्राप्य तेषाम् प्रयासाः पूर्णकाश्मीरराज्यस्य कृते अवर्धन्त । ततः १९६५ तमे वर्षे पाकिस्थानदेशेन पुनः काश्मीरप्रदेशं प्राप्तुं भारतीयसीमातिक्रणं कृतम् । परन्तु तस्मिन् वर्षे तस्य सैन्यस्य परमाधमपराजयः अभवत् । ततः पुनः १९९९ तमे वर्षे सम्पूर्णं काश्मीरराज्यं प्राप्तुं पाकिस्थानं पुनः भारतीयसीमातिक्रणम् अकरोत् ।

पाकिस्थानस्य पूर्वयोजना[सम्पादयतु]

१९९८ तमे वर्षे एव कारगिलयुद्धाय पाकिस्थानस्य योजना सज्जा आसीत् । तस्मात् वर्षादेव भारतगणराज्यस्य प्रधानमन्त्रिणः वायपेयी इत्येन सह नवाज़ शरीफ इत्यनेन चर्चा आरब्धा । समयान्तरे सा चर्चा बस्-यानस्य सम्पर्कत्वे पर्यणमत (परिणमित हुआ) । युद्धप्रक्रियायाः प्राक् भारतस्य ध्यानं बस्-यात्रायां भवेत् इति पाकिस्थानस्य उद्देशः आसीत् । जेहादी-आतङ्कवादिरूपेण पाकिस्थानस्य सैनिकाः भारतगणराज्यस्य सीमां प्रविष्टाः । कारगिल, द्रास, बटालिक इत्यादिभ्यः स्थानेभ्यः प्रविश्य ते भारतीयसेनावासस्योपरि अधिकारम् अस्थापयन् । यतो हि कारगिलसीमावर्तिप्रदेशे शीतकाले तापमानम् -४८ अंशः भवति । अतः शीतकाले सीमाप्रदेशस्य रिक्तीकरणप्रथा उभयोः देशयोः सेना अनुसरति स्म । उभयोः देशयोः परस्परस्य विश्वासस्य सा प्रथा बहुभ्यः वर्षेभ्यः चलन्ती आसीत् । परन्तु १९९९ तमे वर्षे पाकिस्थानेन भारतगणराज्यस्य सीमायाः अतिक्रणं कृत्वा विश्वासघातः कृतः ।

युद्धस्योद्देशः[सम्पादयतु]

भारतस्य सीमातिक्रमणस्य पृष्ठे काश्मीरराज्यस्य उपरि आधिपत्यस्थापनं पाकिस्थानदेशस्य उद्देशः आसीत् । अतः तैः भारतीयसैन्यस्य अनुपस्थितौ काश्मीरराज्यस्य सम्पर्करूपः प्रथमः राष्ट्रियमहामार्गः (high way number 1) उत्पाटयितुं योजना कृता । भारतगणराज्यस्य जम्मूकाश्मीरराज्यस्थयोः श्रीनगर-महानगरस्य, लेह-नगरस्य च मध्ये स्थितं राष्ट्रियमहामार्गं उत्पाटयितुं पाकिस्थानस्य प्रयासः आसीत् । भारतगणराज्यस्य सीमावर्ती सः महामार्गः यदि ध्वस्तः भवेत्, तर्हि श्रीनगरस्य उपरि पाकिस्थानदेशः स्वाधिपत्यं स्थापयितुं शक्नुयात् । परन्तु पाकिस्थानदेशस्य दिवास्वप्नं भारतगणराज्यस्य सैनिकाः नासफयन् ।

भारतीयसेनायाः विहङ्गावलोकनम्[सम्पादयतु]

युद्धस्य स्थितिः भारतगणराज्यस्य कृते अति विकटा आसीत् । पाकिस्थानस्य सीमातिक्रणस्य सूचनां प्राप्य भारतीयसैन्यद्वारा सौरभ कालिया इत्यस्य अध्यक्षतायाम् एकम् अन्वेषकदलं कारगिलसीमां प्रति प्रेषितम् आसीत् । परन्तु तस्य दलस्य सर्वेऽपि सदस्याः हुतात्मनः अभवन् । बहूनि दिनानि व्यतीतानि सौरभ कालिया इत्यस्य दलस्य न कापि सूचना मुख्यसैन्यकार्यालयस्य पार्श्वे नासीत् । अतः सुरिन्दर सिङ्ग आख्यः ब्रिगेडियर् अष्टजनानां दलं निर्माय सीमायाः सैन्यावासस्योपरि स्वाधिकारं प्राप्तुं निर्गतः । काकसर-विस्तारस्य ५७१९ क्रमाङ्कस्य प्रथमसैन्यावासः स्वच्छः आसीत् । यद्यपि शीतकालस्य चतुर्षु मासेषु सैन्यावासे न कोऽपि भवति स्म, तथापि सैन्यावासः एतावान् स्वच्छः कथं भवितुम् अर्हति ? सः सेनावासस्य समीपात् पिष्टकस्य (Biscuit) कर्गदानि, दुग्धचूर्णस्य (Milk Powder) रिक्तपेटिकाः, अन्यवस्तूनि च प्रापत् । ब्रिगडियर् तु सैन्यावासस्य दृश्यं दृष्ट्वा आश्चर्यचकितः आसीत् । यतो हि प्रतिवर्षं सर्वे सैन्यावासाः हिमेन आच्छादिताः भवन्ति स्म । अनुभवी ब्रिगडियर् अग्रे अन्वेषणं कर्तुम् अगत्वा मुख्यकार्यालयं प्रत्यगच्छत् । सः मुख्याधिकारिणम् असूचयत्, “मुख्यकार्यालयः बृहद्दलं तत्र अन्वेषणाय प्रेषयेत्, येन तस्य स्थानस्य वास्तविकस्थितेः ज्ञानं भवेत्” इति । परन्तु सः मुख्यकार्यालयात् न किमपि उत्तरं प्रापत् । उत्तरस्य प्रतीक्षायां मार्च्-मासः व्यतीतः । सुरिन्दर सिङ्ग इत्यस्य दायित्वं पूर्णम् अभवत् ।

युद्धे भारतस्य स्थितिः[सम्पादयतु]

प्रतिवेशिदेशस्योपरि विश्वासं कृत्वा भारतगणराज्यस्य निवासिनः पश्चातापस्य अग्नौ दहन्तः आसन् । तेषां विश्वासे क्रूरः आघातः जातः आसीत् । परन्तु युद्धस्य प्रारम्भः पाकिस्थानेन कृतः आसीत्, अतः भारतगणराज्यस्य कृते अधिकचिन्तनस्य किमपि कारणं नासीत् । भारतीयसैनिकाः भारतमातुः रक्षायै युद्धम् आरभन्त । युद्धस्य प्राथमिकान्वेषणे तु शत्रूणां स्थितेः विषये भारतीयसैनिकैः किमपि न प्राप्तम् । शत्रुवः पाकिस्थानस्य सैनिकाः सन्ति उत आतङ्कवादिनः इत्यस्य ज्ञानमपि भारतगणराज्यस्य सैनिकाः न जानन्ति स्म । यतो हि भारतीयसीमातिक्रमणानन्तरं पाकिस्थानदेशस्य नेतारः अवदन्, “एतादृशं निकृष्टं कार्यं पाकिस्थानदेशस्य सैनिकाः कर्तुं न प्रभवन्ति, ते सीमाक्रान्तारः आतङ्कवादिनः स्युः” इति । अतः प्रारम्भिके काले तु भारतीयसैनिकाः किङ्कर्तव्यमूढाः अभवन् । पाकिस्थानदेशस्य कथनानुसारं यदि सीमाक्रान्तारः आतङ्कवादिनः सन्ति, तर्हि यादृशानि शस्त्राणि कस्यचित् देशस्य सैनिकानां पार्श्वे भवेयुः, तादृशानां शस्त्राणाम् उपयोगं ते कथं कर्तुं प्रभवन्ति ? इति प्रश्नः आसीत् । परन्तु पाकिस्थानदेशस्योपरि पुनः विश्वासम् अकृत्वा भारतगणराज्यं पूर्णबलेन सैन्यक्रियां प्रारभत ।

पाकिस्थानदेशेन स्वसैनिकाः आतङ्कवादिरूपेण प्रेषिताः आसन् । अतः पाकिस्थानदेशस्य सेनया सहैव भारतीयसेनायाः युद्धम् अभवत् । आतङ्कवादिनां परिवेशे पाकिस्थानदेशस्य सेना भारतीयेषु अङ्गिगोलकानां, अग्निगोलिकानां च वर्षां करोति स्म । पाकिस्थानदेशस्य सेना पर्वतारोहणं कृत्वा पर्वतस्य उच्चस्थानेषु स्थिता आसीत् । तस्मात् स्थानात् पाकिस्थानदेशीयसैनिकाः भारतीयसैनिकानां गतिविधिषु ध्यानं दातुम्, अङ्कुशं कर्तुं समर्थाः आसन् । अपरत्र भारतीयसैनिकाः स्वशत्रूणां विषये किमपि ज्ञातुम् असमर्थाः आसन् । तेषां सम्मुखम् एकैव मार्गः आसीत्, युद्धम् । अतः ते स्वप्राणस्य विषये अचिन्तयित्वा युद्धं प्रारभन्त । मासत्रयानन्तरं भारतीयसैनिकाः आक्रान्तॄन् प्रतिप्रेष्य स्वमातृभूमेः रक्षाम् अकुर्वन् ।

योद्धारः[सम्पादयतु]

भारतीयसेनायाः एकैकः सैनिकः स्वपराक्रमेण, स्वशौर्यैण युद्धम् अकरोत् । अतः सहस्रेषु, लक्षेषु च कतिचनानां सैनिकानां विषये उल्लेखः अयोग्यः एव । यतो हि येषां विषये देशजनाः न जानन्ति, तेषाम् अपि युद्धे मुख्ययोगदानम् आसीत् एव । परन्तु अत्र तेषां सहस्राणां, लक्षानां प्रतिनिधित्वेन केषाञ्चन सेनिकानां विषये लिखितम् अस्ति । अनेन ज्ञायते यत् एतादृशाः लक्षशः सैनिकाः भारतीयसेनायां सन्ति, आसन्, भवन्ति च इति ।

मनोजकुमार पाण्डे[सम्पादयतु]

भारतीयसेनायां प्रवेष्टुं यदा मनोजेन प्रवेशपत्रं पूरितम् आसीत्, तस्मिन् पत्रे तेन लिखितम् आसीत् यत्, “अहं परमवीरचक्रं जेतुम् इच्छामि” इति । यतो हि सः जानाति स्म यत्, परमवीरचक्रं केवलं हुतात्मभ्यः सैनिकेभ्यः एव दीयते । कारगिलयुद्धकाले मनोजः गोरखा-दलस्य सदस्यः आसीत् । कुतरगाङ्ग-सैन्यावासे पाकिस्थानस्य सैनिकानाम् आधिपत्यम् आसीत् । तस्य सैन्यावासस्य स्वतन्त्रतायाः दायित्वं मनोजस्य आसीत् । सः स्वस्य चातुर्येण, शौर्येण च तस्मिन् सेनावासे आधिपत्यम् अस्थापयत् । ततः तस्य सम्मुखं खालुबार-गिरिकायाः लक्ष्यम् आसीत् । तां गिरिकां परितः पाकिस्थानदेशस्य सैनिकानां गृध्रदृष्टिः आसीत् । अतः लक्ष्यस्य प्राप्तिः अतिदुष्करा अभवत् । परन्तु यः सम्भवं लक्ष्यं प्राप्नुयात्, सः मनोजः तु निश्चयेन न भवेत् । मनोजः तु असम्भवं कार्यं कृत्वा भारतमातुः रक्षां कुर्तुं समर्थः आसीत् । खालुबार-गिरिकायाः किञ्चित् दूरम् एव मनोजं परितः पाकिस्थानस्य सैनिकाः तं मारयितुं सज्जाः आसन् । परन्तु मनोजः स्वशौर्येण सर्वान् शत्रून् अमारयत् । तेन अनेकाः पाकिस्थानस्य सैनिकाः मारिताः । परन्तु अन्ततो गत्वा सः अपि हुतात्मा अभवत् ।

विक्रम बत्रा[सम्पादयतु]

ये दिल माँगे मॉर्... - मेजर् विक्रम बत्रा

कारगिलयुद्धे ५१४० अंशस्योपरि आधिपत्यं स्थापयनस्य दायित्वं विक्रमस्य आसीत् । सेनाधिकारी यदा तस्मै दायित्वं यच्छन् आसीत्, तदा अधिकारी अवदत्, “विक्रम ! ध्यानेन कार्यं कुरु । सावधानो भव ।” इति । अधिकारिणः कथनस्य प्रत्युत्तरं यच्छन् विक्रमः अवदत्, “आर्य ! जानामि यत्, एतत् युद्धं यावत् अहं चिन्तयामि, तावत् सरलं नास्ति । परन्तु भवान् यावत् चिन्तयति, तावत् कठिनम् अपि नास्ति” इति । ततः सः, तस्य दलं च सप्तदशसहस्रोन्नतस्य पर्वतम् आरुह्य शत्रून् अमारयत् । ततः तैः ५१४० अंशे भारतीयत्रिरङ्गपताका आरोहिता । ततः “ये दिल माँगे मोर्..... पाकिस्थान इज़् नो मोर्” इत्यनेन जयघोषेण सः स्वदलेन सह ४८७५ अंशस्योपरि त्रिरङ्गम् आरोहयितुम् अगच्छत् । परन्तु ४८७५ अंशस्य स्थितिः अति विकटा आसीत् । ४८७५ अंशस्य सैन्यावासे शत्रूणाम् अतिकठोरम् आधिपत्यम् आसीत् । अतः विक्रमेण बुद्ध्या शत्रून् पराजेतुं योजना कृता । परन्तु तस्यां योजनायां प्राणस्य भयम् आसीत् । दलस्य योजना आसीत् यत्, “कोऽपि एकः सैनिकः शत्रूणां सम्मुखं गत्वा तैः सह युद्धं कुर्यात् । अन्ये सैनिकाः अपरमार्गेण शत्रुषु आक्रमणं कुर्युः” इति । विक्रमः शत्रुसेनायाः सम्मुखं युद्धं कर्तुम् उद्यतः । एतावता अन्ये सैनिकाः शत्रूणां नाशम् अकुर्वन् । परन्तु तावता विक्रमः हुतात्मा अभवत् ।

योगेन्द्र यादव[सम्पादयतु]

योगेन्द्रस्य पिता करणसिहं यादव १९६५, १९७१ तमयोः वर्षयोः युद्धे पाकिस्थानस्य सैनिकानां विरुद्धं शौर्येण युद्धम् अकरोत् । तस्य त्रयः पुत्राः भारतीयसेनायाम् आसन् । तेषु एकः योगेन्द्रः । कारगिलयुद्धस्य स्वल्पेभ्यः दिनेभ्यः प्रागेव योगेन्द्रस्य विवाहः जातः आसीत् । परन्तु भारतीयसीमायां पाकिस्थानस्य आक्रमणस्य सूचनां प्राप्य सः युद्धक्षेत्रं प्रति गन्तुम् उद्युक्तः । गृहत्यागकाले सः स्वपरिवारजनान् अवदत्, “यदि प्रत्यागमिष्ये, तर्हि विजयं प्राप्य उत हुतात्मत्वेन” इति । द्रास सेक्टर् पार्श्वस्था तोलोलिङ्ग-गिरिका योगेन्द्रस्य लक्ष्यम् आसीत् । तत् लक्ष्यं तु तेन सिद्धं कृतं, परन्तु तस्य दलस्य पञ्चविंशतिसैनिकाः हुतात्मनः अभवन् । ततः अधिकारिणः तस्मै 'टाइगर् हिल्स्' लक्ष्यत्वेन अयच्छन् । 'टाइगर् हिल्स्' इत्यस्याः गिरिकायाः एकस्मिन् भागे ३ कि.मी. लम्बमानं क्षेत्रम् आसीत् । यदि तेन मार्गेण सः स्वदलेन सह गच्छेत्, तर्हि मृत्युः निश्चितः आसीत् । अन्यस्मिन् भागे पाकिस्थानस्य सीमा आसीत्, अतः सः मार्गः अपि योग्यः नासीत् । अन्ततो गत्वा एकः विकल्पः तस्य सम्मुखम् आसीत् । टाइगर्-गिरिकायाः एकस्मिन् पार्श्वे १००० पादं यावत् गूढा (deep) खातिकां (ditch,खाई) आसीत्, तेन खातिकामार्गेणैव गन्तुं योगेन्द्रेण निश्चयः कृतः । परन्तु टाइगर्-गिरिकायाः शिखरपर्यन्तं त्रयः सैनिकाः एव प्राप्तवन्तः । भारतीयसैनिकानाम् आगमनं दृष्ट्वा पाकिस्थानदेशस्य सैनिकाः तेषु आक्रमणम् अकुर्वन् । ते विंशतिः उत पञ्चविंशतिः आसन् । परन्तु एते त्रयः एव । ते अग्निगुलिकायाः वर्षाम् अकुर्वन् । परन्तु योगेन्द्रः स्वलक्ष्यं साधयितुं तत्परः आसीत् । तस्य शरीरे सप्तदश अग्निगुलिकाः आसन् । तथापि सः शत्रूणां सम्मुखात् न पलायितः, तेषां हननं कृतवान् । तस्य सैनिकसखायः हुतात्मनः अभवन् । अन्ततो गत्वा सः अन्यभारतीयसैनिकानां साहाय्यं प्रापत् । एवं तस्य प्राणस्य रक्षणम् अपि अभवत् ।

युद्धानन्तरं देशयोः स्थितिः[सम्पादयतु]

भारतस्य सैनिकाः पूर्णबलेन पाकिस्थानस्य सैनिकैः सह युद्धम् अकुर्वन् । युद्धे प्रतिकूलस्थित्याम् अपि भारतीयसैनिकैः स्वस्य शारीरिक-मानसिकबल-प्रबन्धनबलैः शत्रूणां विनाशः कृतः । परन्तु भारतपक्षात् का त्रुटिः अभवत्, यया च युद्धस्य एतादृशी विकटा स्थितिः समुद्भूता ? इत्यस्य प्रश्नस्य उत्तरं प्राप्तुं भारतसर्वकारेण एकस्याः परिषदः रचना कृता । सर्वकाररचितायाः परिषदः अध्यक्षः सुब्रह्मण्यम् आसीत् । परिषदः दायित्वम् आसीत् यत्,

१. भारतपक्षात् के के दोषाः अभवन् ?

२. दोषस्य कृते उत्तरदायिनः के के सन्ति ?

३. भारतीयसैन्ये केनापि दोशद्रोहः कृतः उत न ? इति ।

युद्धस्य विषये संशोधनं कुर्वती परिषद् युद्धकारणानां मूलं प्रापत् । परिषदः कथनम् आसीत् यत्, “प्रप्रथमं तु ब्रिगेडियर् सुरिन्दर सिङ्ग इत्येषः त्यागपत्रं दद्यात् । यतो हि सः स्वदायित्वस्य योग्यरीत्या पालनं नाकरोत् । तस्मिन् काले सीमासुरक्षायाः दायित्वं तस्य आसीत्” इति । परिषद् युद्धस्य प्रारम्भिकस्थितेः ज्ञानं तु प्राप्नोत्, परन्तु दोषारोपणाय व्यक्तेः चयनं कर्तुं न शक्तवती सा सुरिन्दर सिङ्ग इत्यस्य उपरि दोषारोपणम् अकरोत् । परिषदः दोषारोपणस्य उत्तरं सुरिन्दर सिङ्ग इत्येषः अयच्छत् । सः अवदत्, “प्रप्रथमं तु परिषदः आरोपः निराधारः अस्ति । यतो हि यदा मह्यं सीमारक्षणस्य दायित्वं दत्तम् आसीत्, तदा मया सीमायाः स्थितिविषये श्रीनगरमुख्यकार्यालयस्य सम्पर्कः कृतः आसीत् । तस्मिन् काले सीमातिक्रणस्य शङ्का मम मनसि अपि आसीत् । अतः अधिकजनान् प्रेषयतु इति अहं न्यवेदयम् । परन्तु मम निवेदनस्य न किमपि प्रत्युत्तरम् अहं प्रापम् । समये व्यतीते मम दायित्वस्य कालः पूर्णः अभवत् । ततः श्रीनगरमुख्यालयः हिमाच्छादितेभ्यः मार्गेभ्यः हिम-अपाकरणस्य दायित्वं मह्यम् अयच्छत् । मम पार्श्वे श्रीनगरमुख्यालयस्य लिखितादेशः अस्ति । एतत् ज्ञात्वापि परिषद् मम उपरि लाञ्छनं कर्तुं कथं प्रभवति ?” इति । सुरिन्दर सिङ्ग इत्यस्य प्रश्नस्य न किमपि उत्तरं परिषदः पार्श्वे आसीत् । परन्तु सुरिन्दर सिङ्ग इत्यस्मै यः आदेशः श्रीनगरमुख्यकार्यालयेन दत्तः आसीत्, तस्य आदेशस्य प्रतिकृतिः अपि श्रीनगरमुख्यकार्यालयस्य, परिषदश्च पार्श्वे नासीत् । पत्रकाराणाम् कथनम् आसीत् यत्, “युद्धकाले देशद्रोहस्तु न जातः आसीत् ? इत्यस्य अन्वेषणं परिषद् कुर्यात्” इति । परन्तु ततः अग्रे परिषद् अन्वेषणं नाकरोत् ।

कारगिलयुद्धे भारतस्य विजयानन्तरं बहुवर्षाणि यावत् पाकिस्थानदेशस्य सर्वकारेण किमपि नोक्तम् । परन्तु २००६ तमे वर्षे पाकिस्थानसर्वकारेण एकं श्वेतपत्रं विश्वस्य सम्मुखम् उपस्थापितम् । १९९९ तमस्य वर्षस्य 'अगस्त'-मासे नवाज शरीफ युद्धसम्बद्धाानि तथ्यानि अन्वेष्टुम् परिषदः रचनाम् अकरोत् । तस्य परिणामस्वरूपम् तत् श्वेतपत्रं जनानां सम्मुखम् आसीत् । तस्मिन् श्वेतपत्रे उल्लिखितम् आसीत् यत्, “पाकिस्थानदेशस्य सेनाध्यक्षः परवेझ मुशर्रफ इत्येषः युद्धस्य मुख्यसूत्रधारः आसीत् । तस्य आदेशेनैव पाकिस्थानदेशस्य सैनिकाः भारतगणराज्यस्य सीमायाः अतिक्रमणम् अकुर्वन्” इति । तस्मिन् श्वेतपत्रे भारतस्य सैन्यविषये अपि आपत्तिजनकाः सूचनाः आसन् । तस्मिन् लिखितम् आसीत् यत्, “परवेझ मुशर्रफ भारतगणराज्यस्य सेनायाः उच्चाधिकारिभ्यः उत्कोचं दत्त्वा तैः स्वयोजनायै कार्यम् अकारयत्” इति । श्वेतपत्रस्य जनसामान्यानाम् उपस्थापनेन सह नवाज शरीफ इत्ययं परवेझ मुशर्रफ इत्यस्य पदभ्रष्टतायाः आदेशम् अकरोत् । परन्तु तस्य आदेशस्य पालनम् अकृत्वा सैनिकाः सर्वकारविरुद्धं विद्रोहम् अकुर्वन् । तेन विद्रोहेण परवेझ मुशर्रफ पाकिस्थानदेशस्य सर्वोच्चपदे आरूढः । नवाज शरीफ इत्यनेन देशत्यागं कृत्वा पाकिस्थानदेशात् पलायनं कर्तव्यम् अभवत् । सत्तायाः सर्वाणि सूत्राणि स्वहस्ते नीत्वा परवेझ मुशर्रफ प्रप्रथमं श्वेतपत्रस्य ६०० पृष्ठेषु ९० पृष्ठानि अपाकरोत् । परन्तु न कस्यापि तस्य विषये ज्ञानम् आसीत् । ततः यः जरदारी इत्याख्यः पाकिस्थानदेशस्य प्रधानमन्त्री अभवत्, तेन उद्घोषणा कृता यत्, “श्वेतपत्रात् नवतिपृष्ठानि अपाकृतानि सन्ति” इति ।

पत्रकाराणाम् अनुमानम् अस्ति यत्, “तेषु पत्रेषु मुशर्रफ विरुद्धम् अनेकानि प्रमाणानि आसन् । अतः सः तानि पृष्ठानि अपाकारयत्” इति । तेषु पृष्ठेषु भारतीयसैन्ये ये देशद्रोहिणः सन्ति, तेषां नामानि अपि भवेयुः इत्यपि मन्यते । युद्धस्य दोषिणः पाकिस्थानदेशेन तु उद्घोषिताः, परन्तु भारतस्य पक्षात् दोषी कः उत देशद्रोही कः ? इत्यस्य विषये अद्यापि न किमपि उत्तरम् अस्ति ।

चित्रवीथिका[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. "Pakistani opposition presses for Sharif's resignation". Wsws.org. 1999-08-07. Retrieved 2012-06-15. 
  2. Chakraborty, A. K. "Kargil War Brings Into Sharp Focus India's Commitment to Peace". Press Information Bureau, Government of India. Retrieved 23 May 2014. 
  3. "Breakdown of casualties into Officers, JCOs, and Other Ranks". Parliament of India Website. Retrieved 2009-05-20. 
  4. "Complete Roll of Honour of Indian Army's मृताः in Action during Op Vijay". Indian Army. Archived from the original on December 22, 2007. Retrieved 2009-05-20. 
  5. "Official statement giving breakdown of आहताः personnel". Parliament of India Website. Archived from the original on February 16, 2008. Retrieved 2009-05-20. 
  6. "Musharraf claims Kargil was a big success militarily for Pakistan", 1 February 2013. Retrieved on April 6, 2013. 
  7. ७.० ७.१ "Musharraf now has Pak’s Kargil toll: 357", 7 Oct 2006. Retrieved on February 2, 2013. 
  8. "Kargil probe body had sought Musharraf’s court martial". thenews.com. Retrieved February 2, 2013. 
  9. "Pak quietly names 453 men मृताः in Kargil war", November 18, 2010. Retrieved on April 6, 2013. 
  10. "Over 4,000 soldiers मृताः in Kargil: Sharif". Retrieved on 17 January 2013. 
  11. "Pervez Musharraf 'crossed LoC before Kargil war'; V. K. Singh praises ex-Pak army chief's 'courage'", February 1, 2013. 
  12. "Pakistan Army admits to Kargil martyrs". NDTV. Retrieved 2010-11-19. 
  13. Ashok Kalyan Verma, Major General. Kargil: Blood on the Snow. p. 126. 
  14. "The Kargil (Kashmir) War, May–July 1999". University of Texas, Austin. Retrieved February 2, 2013. 
  15. "Tortured Kargil martyr's parents want justice for war crime", Nov 28, 2012. Retrieved on February 2, 2013. 
  16. Rodrigo Tavares (2006). Understanding regional peace and security. Göteborg University (original from Northwestern University. ISBN 9187380676.  Page 297
"https://sa.wikipedia.org/w/index.php?title=कारगिलयुद्धम्&oldid=394129" इत्यस्माद् पुनः प्राप्तिः