सामग्री पर जाएँ

केङ्गल् हनुमन्तय्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(केङ्गल् हनूमन्तय्यः इत्यस्मात् पुनर्निर्दिष्टम्)
केङ्गल् हनुमन्तय्यः
ಕೆಂಗಲ್ ಹನುಮಂತಯ್ಯ
सञ्चिका:Kengal Hanumanthaiah.jpg
2nd Chief Minister of Mysore State
In office
30 March 1952  19 August 1956
Preceded by K. C. Reddy
Succeeded by Kadidal Manjappa
Member of the Indian Parliament
for Bangalore City
In office
2 April 1962  18 January 1977
Preceded by N. Keshavaiengar
Succeeded by C. K. Jaffer Sharief
व्यैय्यक्तिकसूचना
Born (१९०८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१४)१४ १९०८
Lakkappanapalli, Bangalore, Karnataka, India
Died स्क्रिप्ट त्रुटि: फंक्शन "death_date_and_age" मौजूद नहीं है।
Political party Indian National Congress

व्यक्तित्वम्

[सम्पादयतु]

राज्यसर्वकारस्य शक्तिकेन्द्रम् इव प्रशासनस्य गर्भगृहम् इव विद्यमानस्य विधानसौधस्य निर्मापकः इत्येव प्रसिद्धः केङ्गल् हनूमन्तय्यः मैसूरुराज्यस्य द्वितीयः मुख्यमन्त्री आसीत् । प्रजातन्त्ररीत्या चितः प्रथमः मुख्यमन्त्री इत्यपि ख्यातिः अस्य अस्ति । तस्य अकर्षकं शरीरम् आसीत् ।शुभ्रं वसनं धरति स्म । नैषः स्थूलः न कृषः न कुब्जः नोन्नतः गोधूमवर्णी सुन्द्ररवदनः आसीत् । जीवने श्रद्धा उत्साहः विश्वासः कार्यसाधने स्थैर्यं च तस्य सद्गुणाः आसन् ।

जन्म बाल्यं च

[सम्पादयतु]

केङ्गल् हनूमन्तय्यस्य ग्रामः रामनगरमण्डलस्य लक्कप्पनहळ्ळी । पिता वेङ्कटगौडः माता नञ्जम्मा कुलदैवतं केङ्गल् हनूमन्तस्वामी(हनुमान्) । कृषकानां सम्प्रदायानुगुणं प्रथमपुत्रस्य कृते कुलदेवस्य नाम एव अङ्कितम् । अस्य बाल्ये कुटुम्बे अतिदारिद्र्यम् आसीत् । गृहं गोष्टं च एकम् एव आसीत् । हनूमन्तय्यस्य प्राथमिकी शिक्षा केङ्गेरीग्रामे एव समाप्ता । क्रि.श. १९२०तमे वर्षे कन्नडएल्.एस्.परीक्षाम् उत्तीर्णवान् । धनाभावात् मध्ये एकं वर्षं यावत् शालां न गतवान् । तस्य श्रद्धां सामर्थ्यं च दृष्ट्वा तद्ग्रामीणाः सहाय्यम् आचरितवन्तः । तेन बालकः हनूमन्तय्यः बेङ्गळूरु गत्वा एल्.एस्.परीक्षां समापितवान् । वेस्लिप्रौडशालायां मेट्रिक्, मैसूरुसर्वकारीयमहविद्यालये च प्रैढशिक्षणस्य अध्ययनम् अभवत् । क्रि.श. १९३०तमे वर्षे महाराजमहाविद्यालयतः पदवीं प्राप्तवान् । क्रि.श.१९३२तमे वर्षे पुणेशासनविद्यालयतः एल्.एल्.बि.पदवीम् अवाप्नोत् । अस्य प्रतिदिनं दिनचर्यालेखनस्य सदभ्यासः आसीत् । बाल्ये राजाजी-इत्याख्यस्य चक्रवर्ती राजगोपालाचार्यस्य भाषणम् अशृणोत् । अतः तस्य प्रभावः जीवने अतीवः आसीत् । राजाजिमहोदयस्य आङ्ग्लभाषाभाषणेन बहुधा अकृष्टः । स्वयं भाषणकलायां परिणतिं साधयितुम् इष्टवान् । सर्वदा प्रयत्नशीलः अल्पकालेनैव अङ्गभाषया कन्नडाभाषया च भाषणस्य नैपुण्यं सम्पादितवान् । अध्ययनावसरे विद्यार्थिसङ्घं रचयित्वा तस्य नायकः अपि अभवत् । सर्वदा सर्वत्र नायकत्वम् इच्छति स्म । अन्यायम् असहमानः विरोधं प्रकटयति स्म । क्रि.श.१९२७तमे वर्षे सञ्चालिते भारतकाङ्ग्रेस् छात्रसम्मेलने प्रतिनिधिरासीत् । तत्र एव काङ्ग्रेस् नायकानां परिचयः अभवत् । गान्धिमहात्मनः दर्शनस्य प्रेरणादयकान् अंशानां प्रापणस्य सदवकाशः तेन प्राप्तः ।

जीवनम्

[सम्पादयतु]

क्रि.श.१९२१तमे वर्षे तस्य विद्यार्थिजीवने एव हनूमन्तरायः खादिवस्त्रं धर्तुम् आरब्धवान् । केङ्गल् हनूमन्तय्यस्य सकाले बेङ्गळूरुनगरस्य पुट्टम्मया सह विवाहः अपि सम्पन्नः । सः सुदाम्पत्यफलरूपेण विजयलक्ष्मी वसन्तलक्ष्मी चेति द्वे पुत्र्यौ प्रप्तवान् । बाल्ये दारिद्र्यम् अनुभूतम् इति कारणेन धनसम्पादनार्थं मनः कृतवान् । अतः न्यायवादिनः वृत्तिम् आरब्धवान् । किन्तु धनलोभात् असत्यमार्गेण गन्तुम् नेच्छति स्म । अल्पेनैव कालेन सः प्रसिद्धः न्यायवादी अभवत् । अतः कालेन धनिकः अपि संवृत्तः । यदा सः स्ववृत्तिं निर्वहन् आसीत् तदा एव राजद्रोहस्य अपवादः आगतः । सर्वकारः आक्षेपानुगुणं चिन्तयितुं न्यायालयम् असूचयत् । न्यायाधीशः तं दण्डशुल्कं पूरयितुम् आदिशत् । किन्तु शुल्कं दातुं धनम् एव नासीत् । सः कालान्तरे बेङ्गळूरुमण्डलस्य हरिजनसेवासङ्गस्य कार्यदर्शी अभवत् । हिन्दीप्रचारसभायाः अध्यक्षः अभवत् ।

मैसूरुसंस्थानस्य प्रसिद्धः नेता के.सि.चेङ्गलरायरेड्डी न्यायवादिवृत्तिं परित्यज्य राजनीतिमागत्य स्वातन्त्र्यप्राप्तये अन्दोलनम् प्रवेष्टुम् आहूतवान् । देशे सर्वत्र गान्धिमहात्मनः नेतृत्वे स्वातन्त्रसङ्ग्रामः आरब्धः आसीत् । सङ्ग्रामे भागं वोडुं महात्मागान्धिनः अह्वानं पुरस्कृत्य सङ्ग्रामे सम्मिलितवान् । कालक्रमेण राजकीयक्षेत्रम् अपि प्रविष्टवान् । क्रि.श १९३६तमे वर्षे बेङ्गळूरुमण्डलस्य काङ्ग्रेस् अध्यक्षः भूत्वा दशवार्षाणि कार्यं निरवहत् । क्रि.श. १९३७तमे काले मण्ड्यमण्डलस्य शिवपुरे स्वातन्त्र्यप्राप्तये ध्वजसत्याग्रहः अभवत् । हनूमन्तय्यमहोदयेन निषेधाज्ञा उल्लङ्घ्य राष्ट्रध्वजं धृत्वा यात्रा कृता इति कारणेन सर्वकारेण बद्धः अभवत् । मासत्रयं कारावारवासं दत्त्वा पञ्चशतरूप्यकाणां दण्डशुल्कः अपि स्वीकृतः । एषः केङ्गलमहोदयस्य प्रथमः कारागारवासः । कारगृहतः बहिरागतः सर्वविधत्यागार्थं सिद्धः अभवत् । अस्य लक्ष्यं तु एकम् एव आङ्ग्लेयानां कूटतन्त्रस्य विरुद्धं प्रतिप्रहारः दातव्यः भारतस्य स्वातन्त्र्यप्राप्तिः च इति। यत्र यत्र अवकाशः प्राप्तः तत्र तत्र सर्वत्र आङ्ग्लानां विरुद्धं कठोरं भाषणं कृत्वा जनेषु स्वातन्त्र्यप्राप्तिविषये उत्साहं जनयति स्म ।

राजकीयप्रवेशः

[सम्पादयतु]

क्रि.श.१९४०तमे वर्षे बेङ्गळूरुनगरसभायाः निर्वाचने स्पर्धयित्वा चितः अभवत् । इतः एव तस्य राजकीयजीवनस्य आरम्भः अभवत् । क्रि.श.१९४२तमे वर्षे नगरसभाध्यक्षः आभवत् । अधिकारावधौ बहूनि जनोपकारीणि कार्याणि कृत्वा लोकविश्वासं सम्पादितवान् । तस्मिन् एव काले गान्धिमहात्मना अरब्धे क्विट् इण्डिया आन्दोलने प्राविशत् । अतः पुनः कारागारवासम् अनुभूतवान् । क्रि.श.१९४७तमवर्षस्य आगष्ट् पञ्चदशे यदा भारतं स्वतन्त्रम् अभवत् तदा समग्रः देशः सन्तोषे निमग्नः अभवत् । किन्तु मैसूरुसर्वकारः सन्तोषं नान्वभवत् । यतः मैसूरुराजाः प्रजाप्रभुत्वं नाङ्गीकृतवन्तः । एतेन कुपितः केङ्गल् हनूमन्तय्यः ‘मैसूरु चलन्तु’ इति आन्दोलनम् आरब्धवान् । प्रासादस्य पुरतः सत्याग्रहः कृतः चेत् गोलिकाघातेन मारयामि इति मैसूरुसंस्थानेन उक्तम् अपि अपरिगणय्य आन्दोलनं समुन्नीतवान् । किन्तु तदापि तस्य बन्धनम् अभवत् । सः वर्षं यावत् कारागारे स्थापितः । देशस्य स्वतन्त्रतयाः प्राप्तये केङ्गल् महोदयः सप्तवारं कारागारं प्रविश्य सार्धचत्वारि वर्षाणि यावत् बन्धनस्य कष्टम् अनुभूतवान् । क्रि.श. १९४७ तः १९५२ पर्यन्तं भारतस्य राज्याङ्गरचनासभायाः सदस्यः आसीत् । भारतसंसत्कार्यसमितेः काङ्ग्रेस् पक्षस्य कार्यकारिसमितेः च सदस्यः अपि अभवत् । भारतस्य प्रतिनिधित्वेन स्टक् होम्, डब्लिन् इत्यादीनां देशानां प्रवासं कृतवान् । क्रि.श.१९५०तमे वर्षे मैसूरु काङ्ग्रेस् पक्षस्य अध्यक्षः अपि अभवत् ।

केङ्गल् हनूमन्तय्यनिर्मितः विधानसौधः

केङ्गल् हनूमन्तय्यमहोदयः प्रजाप्रभुत्वरीया निर्वाचितः मैसूरुराज्यस्य प्रथमः मुख्यमन्त्री इति ख्यातः । क्रि.श.१९५२तमवर्षस्य मार्चमासतः क्रि.श. १९५६पर्यन्तं मुख्यमन्त्रिपदं निरूढवान् । तस्य सचिवमण्डले केवल् षट् मन्त्रिणः आसन् । तदा तस्य जीवनस्य उत्तमा स्थितिः आसीत् । हनूमन्तय्यमहोदयः सार्वजनिकशिक्षाक्षेत्रे नूतनान् उपक्रमान् आनीतवान् । प्राथमिकशिक्षातः विश्वविद्यालयपर्यन्तं सर्वविधानि परिवर्तनानि आनीतवान् । शिक्षणेन युवानः स्वावलम्बिनः भवेयुः इति अस्य आशयः आसीत् । साहित्यसंस्कृत्योः विषये अस्य महान् आदरः आसीत् । अतः क्रि.श. १९५४तमे वर्षे नूतनां काञ्चित् योजनां सञ्चालितवान् । कन्नडभाषायाः कोशनिर्माणार्थं बहून् कन्नडलेखकान् नियोजितवान् । कन्नडपरिषदः आर्थिकानुदानं वर्धितवान् । कन्नडभाषाविश्वकोशस्य निर्माणे अपि अस्य योजना एव कारणीभूता इति स्मर्तव्यम् । बहुकालं शासनं कृतवन्तः आङ्ग्लजनाः नगराणां पत्तनानां च नामानि आङ्ग्लभाषया परिवर्तितवन्तः । हनूमन्तय्यमहोदयः तानि पुनः परिवर्त्य कन्नडभाषायाः नामानि दत्तवान् । सिरङ्गपाठारितः- श्रीरङ्गपत्तनं, चिटल्ड्रुग्तः- चित्रदुर्गं, फ्रेञ्चराक्स् तः -पाण्डवपुरं, क्लोस्पेट्तः- रामनगरं च अभवन् । केङ्गल् हनूमन्तय्यः कन्नडभाषाभिमानी आसीत् इति वक्तुम् एषः दृष्टन्तः पर्याप्तः । जातिभेदं सः न सहते स्म । सः स्वयं जात्यतीतव्यक्तिः आसीत् । दीनानां सदा सहायहस्तः आसीत् । तस्य समयप्रज्ञा महती आसीत् । कस्मिन् अपि कार्ये दीर्घसूत्रः न भवति स्म । वचस्येकं मनस्येकं इतिवत् न। यथा वदति तथा आचरति स्म । सर्वदा वचनपरिपालनं करोति स्म । देशे सर्वत्र प्रचलितस्य आहारनियन्त्रणस्य पद्धतिं निषिध्य आहारसौलभ्यं कल्पितवान् । शरावतीविद्युदागारः अनेन एव आरब्धः । शुद्धजलाभावस्य प्रदेशेषु पानजलस्य व्यवस्थाः कल्पिताः । कोलारमण्डलस्य स्वर्णखनिः राष्ट्रीकृता अभवत् । केङ्गल् हनूमन्तय्यस्य काले एव बेङ्गळूरुनगरं सार्वभौमीयं नगरम् इति उद्घुष्टम् । अस्य मन्त्रिपदस्य काले कृतानि महत्कार्याणि नाम विधानसौधस्य निर्माणम् । एषः सौधः न केवलं शिलाभिः वज्रचूर्णैः निर्मितम् भवनम् ।अपि तु एतत् किञ्चित् अमरकाव्यम् । सर्वकारं सञ्चालयितुं याः व्यवस्थाः अवश्यकाः सर्वाः अत्र सन्ति । विधानसौधस्य निर्माणकार्ये निमग्नः आसीत् किन्तु तत्र उपवेष्टुम् अशक्तवान्। कर्णाटकस्य एकीकरणार्थं केङ्गल् महोदयेन निष्कपटः प्रयत्नः कृतः । स्वतन्त्रे भारते भाषानुगुणं प्रान्तानां चयनं भवेत् इति अस्य वादः आसीत् । क्रि.श. १९५६तमे वर्षे एप्रिल् मासे मैसूरु विधनसभायां विधानपरिषदि च पुनः राज्यस्य विभागः व्यवस्थापयितव्यः इति निर्णायः अङ्गीकृतः । सचिवसम्पुटे एव विरोधेषु सत्सु अपि अचञ्चलः हनूमन्तय्यः राज्यस्य कर्णाटकम् इत्येव नाम निर्देशितवान् । विक्षिप्तानां कन्नडभाषिकभागानां पुनः संयोजनम् अभवत् । अस्य आन्दोलनस्य फलरूपेण कर्णाटकम् एकीकृतम् । क्रि.श.१९५६तमे वर्षे तस्य अवधेः समप्तेः पूर्वम् एव मन्त्रिपदं त्यक्तवान् । अनन्तरकालीनानि दिनानि तस्य अज्ञातवासस्य दिनानि एव । सर्वदा विश्रान्तजीवने एकान्तम् इच्छति स्म । नन्दिपर्वतप्रान्ते एकाकी बहुकलं यापयति स्म । रजकीयरङ्गात् दूरे स्थित्वा बहून् ग्रन्थान् पठितवान् । धर्मः देवः आदर्शः निष्कपटता इत्यादिषु विषयेषु विचारमथनम् अकरोत् । युवानः केङ्गल् महोदयस्य मार्गदर्शनम् इच्छन्ति स्म । जनानाम् अनुरोधेन पुनः राजकीयं प्रविष्टवान् । तस्य गृहे प्रतिदिनं राजकीयगण्याः आगत्य चर्चां चिन्तनं मथनं च कुर्वन्ति स्म । क्रि.श.१९५७तमे वर्षे केङ्गल् महोदयः मैसूरुशासनसभायाः निर्वाचने चितः । क्रि.श. १९५८तमे वर्षे रषियादेशं सन्दर्शितवान्। अग्रे केनडा, इङ्ग्लण्ड्, फ्रान्स्, हालेण्ड्, जर्मनी, स्वीडन्, अमेरिका इत्यादिदेशेषु प्रवासं कृतवान् । क्रि.श.१९६२तम् वर्षे केङ्गल् महोदयः लोकसभानिर्वचने चितः लोकसभासदस्यः अभवत् । अस्य जवाहरलालनेहरुः।नेहरुमहोदयस्य विषये अतीव गौरवम् आसीत् । किन्तु अभिप्रायभेदः आसीत् एव । क्रि.श. १९६७तमे वर्षे पुनः लोकसाभासदस्यः अभवत् । प्रासासनसमुद्धरण-आयोगस्य अध्यक्षः अपि भूत्वा क्रि.श.१९६७तमवर्षस्य मार्चतः १९७०पर्यन्तं दायित्वं निरवहत् । केङ्गल् महोदयस्य नायकत्वेन प्रशासनोत्कर्षस्य विषये २५सहस्रपुटात्मकः ग्रन्थः रचितः । भारतीयसंविधानस्य गौरवम् एषः ग्रन्थः प्राप्नोत् । क्रि.श.१९६७-६८तमे काले संसदि काङ्ग्रेस् पक्षस्य उपनायकः अभवत् । कि.श.१९६९तमे वर्षे बार्सिलोनादेशे प्रचालिते प्रशासनविज्ञानसम्मेलने भारतगणस्य नायकः अभवत् । क्रि.श.१९७०तमे वर्षे केन्द्रसर्वकारे समाजकल्याणविभागस्य सचिवः अभवत् । देशविदेशेषु सम्मेलनेषु भागम् ऊढ्वा स्वानुभवं संवर्धितवान् । क्रि.श.१९७१तमे वर्षे सम्भूते मध्यकालीने निर्वाचने बेङ्गळूरुनगरे विजितः पुनः केन्द्रे रेल्वेमन्त्री अभवत् । रेल्वेविभागे आमूलाग्रं परिवर्तनम् अनीतवान् । अस्य कार्यशैलीं राष्ट्रनायकः जयप्रकाशनारायणः प्राशंसत् । क्रि.श १९७२तमे वर्षे विनाकारणं त्यागपत्रं दातव्यम् अभवत् । अनन्तरं देशे अनिरीक्षितानि परिवर्तनानि अभवन् । काङ्ग्रेस् पक्षः पुनः विदलितः । आपत्परिस्थितिः (तुर्तुपरिस्थितिः) उद्घुष्टा । देशे विषमा परिस्थितिः सञ्जाता। तथापि केङ्गल् महोदयः मौनी अभवत् इति जनाः एतं निन्दन्ति स्म । क्रि.श. १९७७तमे वर्षे पुनः निर्वाचने काङ्ग्रेस् पक्षस्य अभ्यर्थी भूत्वा बेङ्गलूरुनगरे पराजितः अभवत् । पक्षस्य आन्तरिकनियमैः असम्मतः पक्षात् बहिरागतवान् । जनतापक्षं प्रोत्साहयितुं यतमानस्य तस्य आशाभङ्गः अभवत् । क्रि.श.१९७७तमे वर्षे सेप्टम्बर् मासे अष्टतत्त्वयुकत्तं सुराज्यं इति नूतनं पक्षं रचितवान् । किन्तु कानिचन दिनानि प्रवर्त्य सः पक्षः काङ्ग्रेस् पक्षे विलीनः अभवत् ।

प्रभुत्वेन विहीनः अपि तेन अलसेन न स्थितम् । मण्ड्यमण्डले केङ्गल् महोदयः स्वात्रन्त्रवीराणां स्मारकत्वेन सत्याग्रहसौधं निर्मितवान् । स्वग्रामे केङ्गल् मध्ये हनूमतः मन्दिरं निर्मितवान् । बेङ्गळूरुनगरे हनूमन्नगरे श्रीरामहनूमतोः समालिङ्गनप्रतिमासहितं देवालयं निर्माय तस्य गिरिस्थानस्य आनन्दमिलनाद्रिः इति नाम दत्तवान् । केङ्गल् इति ग्रामतः देहलीति महानगरपर्यन्तं संवृद्धः अभवत् एषः केङ्गल् हनुमन्तय्य महोदयः । दारिद्र्याग्नौ जातः देशस्य महानायकः भूत्वा दुस्साध्यं साधितवान् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=केङ्गल्_हनुमन्तय्य&oldid=363914" इत्यस्माद् प्रतिप्राप्तम्