कोलेबसवजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोलेबसवजनाङ्गः

कोलेबसवजनाङ्गस्य नाम्नः व्युत्पत्तिः[सम्पादयतु]

एतान् कोलेबसवण्ण, कवलेबसव, कवलेत्तिनवरु, गङ्गेत्तु, गङ्गायाः बालाः इत्यादिनाम्ना आह्वयन्ति । देवस्य नाम्ना त्यक्तां धेनुं ‘कपलि’ (कपिले) इति आह्वयन्ति । तर्णका अस्ति चेत् तां ‘कपलि’ इति, तर्णकः अस्ति चेत् तं गूळि (बसव) इति आह्वयन्ति । अत्र कपिले इत्युक्ते गोमाता । तया सह बसवं योजयित्वा ‘कोलेबसव’ इति अभवत् । ग्रामेषु त्यक्तं कपिलेबसवम् आनीय प्रशिक्षणं दत्त्वा क्रीडयन्तः उदरपोषणं कुर्वतां जनपदवर्गं ‘कोलेबसवाः’ इति आह्वयन्ति ।

कोलेबसवजनाङ्गस्य स्थानानि[सम्पादयतु]

कर्णाटके बेळगावीमण्डलस्य चिक्कोडि, घटप्रभा, हत्तरगि, मण्डले, बिजापुरमण्डले बीदरमण्डले, रायचुरुमण्डले, शिवमोग्गामण्डले, तुमकुरुमण्डले, कोलारमण्डले च एते दृश्यन्ते । एते मूलतः आन्ध्रप्रदेशस्य ‘गङ्गेद्लु’ वर्गस्य जनाः । कोलेबसवजनानां मातृभाषा ‘तेलुगु’ । वृत्तेः कारणेन अन्यान्यप्रदेशेभ्यः यदा गच्छन्ति तदा तत्रत्यप्रादेशिकभाषां वदन्ति ।

"https://sa.wikipedia.org/w/index.php?title=कोलेबसवजनाङ्गः&oldid=406350" इत्यस्माद् प्रतिप्राप्तम्