गुजरातराज्यस्य उत्सवाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

समग्रे भारते भारतीयाः उत्सवान् अत्युत्साहेन, आनन्देन, वैभवेन च आचरन्ति । अस्माकं देशे आचर्यमाणानाम् उत्सवानाम् आचरणे सामाजिकं, सांस्कृतिकं, पौराणिकं, वैज्ञानिकम् अथवा ऐतिहासिकं महत्वं वर्तते एव । सुप्रसिद्धाः गुजरातराज्यस्य उत्सवाः (गुजराती: ગુજરાતના ઉત્સવો, आङ्ग्ल: Festivals of Gujarat) परिचयात्मकरूपेण अत्रोल्लिख्यन्ते ।

१) नवरात्रिः[सम्पादयतु]

गुजरातराज्यस्य विशिष्टं गरबानृत्यम्

गुजरातराज्ये नवरात्र्युत्सवः महता वैभवेन आचर्यते । आश्विनमासस्य शुक्लपक्षस्य प्रतिपदा-तः दशमीपर्यन्तम् अस्य उत्सवस्य समायोजनं भवति । अर्थात् 'सेप्टेम्बर्' अथवा 'अक्टोबर्' मासे अस्य उत्सवस्य आचरणं भवति । यद्यपि अन्येष्वपि राज्येषु नवरात्रिसमये देवी आराध्यते, उपास्यते, पूज्यते तथापि राज्येऽस्मिन् किञ्चन वैशिष्ट्यमस्ति यत् गुजराती-जनाः पञ्चदशदिनानि यावत् सायम् आरभ्य प्रातः पर्यन्तं 'दाण्डिया-रास'नृत्यं, 'गरबा'नृत्यं च क्रीडन्ति इति । 'रास'नृत्यस्य बहवः प्रकाराः सन्ति । तेषु 'दाण्डिया-रास' इत्येकः प्रकारः मन्यते । श्रीकृष्णेन सह गोपीनां यः रासः अभवत् स एव गुजरातराज्ये प्रचलितः दृश्यते । हस्तद्वये लघुदण्डिकां गृहीत्वा तयोः दण्डिकयोः परस्परं ताडनं कुर्वन्तः जनाः नृत्यन्ति । 'गरबा'नृत्यं तु गुजरातराज्यस्य विशिष्टं नृत्यम् अस्ति । 'दाण्डियारासगरबा'नृत्ययोः पुरुषाः, महिलाश्च विशिष्टानि, सुन्दराणि, नयनमनोहराणि विभूषणानि, वस्त्राणि च धृत्वा, मिलित्वा नृत्यन्ति ।

२) उत्तरायणम्/मकरसङ्क्रान्तिः[सम्पादयतु]

उत्तरायणपर्वदिने अन्ताराष्ट्रिय-वाताट-उड्डयनस्पर्धा

यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते । सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते । अतः मकरसङ्क्रान्तिः इति नाम । मकरसङ्क्रान्तिदिनादारभ्य षण्मासाः उत्तरायणपुण्यकालः भवति । अतः गुजरातराज्ये उत्सवस्यास्य उत्तरायणम् इति व्यवहारः । प्रतिवर्षं 'जनवरी'मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्तिः भवति । अस्मिन् उत्सवदिने तदङ्गत्वेन गुजरातराज्यस्य सर्वकारस्य प्रवासोद्यमनिगमेन काचन विशिष्टा अन्ताराष्ट्रिय-वाताट-उड्डयनस्पर्धा आयोज्यते इतीदं वैशिष्ट्यम् । अस्यां च स्पर्धायां न केवलं भारतस्य विभिन्नेभ्यः राज्येभ्यः, अपि तु नानादेशेभ्यः स्पर्धालवः समागत्य भागं गृह्णन्ति । स्पर्धां द्रष्टुम् अपि अत्यधिकसङ्ख्यायां द्रष्टारः भवन्ति । उत्सवदिने गगने सर्वत्र वाताटाः एव दृश्यन्ते । तस्मिन् दिने आबालवृद्धाः, महिलाः, युवतयश्च आदिनं स्वस्वप्रासादोपरि वाताटान् उड्डाययन्ति ।

३) मोढेरा-नृत्योत्सवः[सम्पादयतु]

मोढेरा-नृत्योत्सवः

गुजरातराज्यस्य मेहसाणामण्डले स्थिते मोढेरा सूर्यमन्दिरे प्रतिवर्षं 'जनवरी'मासे गुजरातराज्यस्य सर्वकारेण मोढेरा-नृत्योत्सवः आयोज्यते । उत्सवदिनेषु विद्युद्दीपैः अलङ्कृतं सत् मन्दिरम् अत्यन्तं रमणीयं, नयनमनोहरं च दृश्यते । देशस्य सर्वेऽपि प्रसिद्धाः नृत्यगणाः अस्मिन् उत्सवे लोकनृत्यप्रदर्शनं ('फोक् ड्यान्स्') कुर्वन्ति ।

४) कच्छ-उत्सवः[सम्पादयतु]

कच्छ-उत्सवः कच्छमण्डलस्य जनानाम् एकः सांस्कृतिकः उत्सवः अस्ति ।

५) भवनाथ-'मेला'[सम्पादयतु]

गुजरातराज्यस्य जुनागढमण्डलस्य दामोदरकुण्डस्य समीपे विद्यमाने भवनाथमन्दिरे शिवरात्रिदिने भवनाथ-'मेला' भवति । स्थानीयजनाः, नग्नसाधुसन्ताश्च उत्सवेऽस्मिन् भागं गृह्णन्ति । भवनाथ-'मेला' धार्मिकः उत्सवः अस्ति ।

६) कवाण्ट-'मेला'[सम्पादयतु]

कवाण्ट-मेला

गुजरातराज्यस्य जनजातिजनैः, आदिवासिभिश्च 'मार्च्-एप्रिल्' मासयोः आचर्यमाणेषु उत्सवेषु छोटा-उदयपुरस्य समीपे आचर्यमाणः कवाण्ट-'मेला' इत्ययम् उत्सवः अन्यतमः, सुप्रसिद्धः च अस्ति । कवाण्ट-'मेला' जनजातिजनानाम्, आदिवासिनां च सांस्कृतिकः उत्सवः अस्ति । न केवलं गुजरातराज्यात्, किन्तु मध्यप्रदेशराज्यात् अपि 'राठवा' इति जनजातिजनाः उत्सवेऽस्मिन् भागं गृह्णन्ति ।

७) चित्र-विचित्र-'मेला'[सम्पादयतु]

चित्र-विचित्र-मेला

चित्र-विचित्र-'मेला' जनजातिजनैः आचर्यते । 'होली'पर्वणः पञ्चदशदिनानन्तरम् अमावास्यायां पोशिनानामकस्य ग्रामस्य समीपे विद्यमाने त्रिवेणीसङ्गमे सहस्रशः जनजातिजनाः एकत्र मिलित्वा उत्सवस्यास्य आचरणं कुर्वन्ति । अस्य स्थलस्य किञ्चित् ऐतिहासिकं वैशिष्ट्यमस्ति यत् महाभारतकाले चित्रवीरविचित्रवीरौ अस्मिन्नेव स्थले स्वकृतपापानां प्रायश्चित्तम् अनुभूतवन्तौ इति । त्रिवेणीसङ्गमस्य समीपे एकं शिवमन्दिरम् अस्ति यत् परितः चित्र-विचित्र-'मेला' भवति ।

८) सापुतारा-उत्सवः[सम्पादयतु]

डाङ्गमण्डलस्य आहवा इत्यस्मिन् पत्तने, सापुतारा इत्यस्मिन् पत्तने च 'मार्च्-एप्रिल्' मासयोः अयम् उत्सवः आचर्यते । अस्मिन् उत्सवे 'भील', 'कुनबी', 'वारली', 'गामित' इत्यादयः जनजातिजनाः परम्परागतानि वस्त्राणि धृत्वा नृत्यन्ति । जनजातिजनानां वेषाभूषणानि नयनमनोहराणि भवन्ति । गुजरातराज्यस्य सर्वेभ्यः भागेभ्यः उत्सवदर्शनार्थं अत्यधिकसङ्ख्यासु वीक्षकाः गच्छन्ति ।

९) तरणेतर-'मेला'[सम्पादयतु]

तरणेतर-मेला

तरणेतर-'मेला' 'अगस्ट्-सेप्टेम्बर्' मासयोः तरणेतर (त्रिनेत्रेश्वर) इत्यस्मिन् ऐतिहासिके तीर्थे आचर्यते । स्थानीयैः इदं तीर्थं गङ्गायाः मूल-उद्गमस्थानत्वेन मन्यते । अत एव अस्मिन् तीर्थे स्नानं गङ्गास्नानसमानम् इति स्थानीयानां मतम् अस्ति । द्रौपद्याः स्वयंवरे अर्जुनस्य विजयस्मरणरूपेणापि तरणेतर-'मेला' आचर्यते । अतः अत्र स्वयंवरोऽपि भवति ।

१०) रवेची-'मेला'[सम्पादयतु]

रवेची-'मेला' कच्छमण्डलस्य 'रापर' इति उपमण्डले आचर्यते । 'आहिर', 'रबारी' इत्यादयः जनजातिजनाः उत्सवेऽस्मिन् भागं गृह्णन्ति । रवेची-माता-मन्दिरम् उत्सवस्यास्य केन्द्रस्थानम् अस्ति ।

११) वौठा-'मेला'[सम्पादयतु]

गुजरातराज्यस्य वौठा इत्यस्मिन् ग्रामे वौठा-'मेला' आचर्यते । 'नवम्बर्' मासे कार्तिकपूर्णिमायाम् वौठा-'मेला' भवति । प्रमुखतया वौठा-'मेला' व्यापार'मेला' अस्ति । अत्र गवां, वृषभाणां, गर्दभाणाम्, उष्ट्राणां च क्रयविक्रयणं भवति ।

१२) शामलाजी-'मेला'[सम्पादयतु]

शामलाजी-'मेला' 'अक्टोबर्-नवम्बर्' मासयोः आयोज्यते । कार्तिकपूर्णिमारात्रिः अतीव विशिष्टा वर्तते । राज्यस्य विविधेभ्यः भागेभ्यः यात्रिकाः शामलाजी-मन्दिरं गत्वा भगवतः कृष्णस्य दर्शनं कुर्वन्ति ।

१३) रण-उत्सवः[सम्पादयतु]

अयम् उत्सवः कच्छमण्डलस्य रणप्रदेशे आचर्यते । अस्य प्रदेशस्य इतिहासवर्णनं, सङ्गीतं, नृत्यं, हस्तकलाप्रदर्शनं च अस्य उत्सवस्य प्रमुखम् आकर्षणम् अस्ति ।

१४) अन्ये उत्सवाः[सम्पादयतु]

अहमदाबाद-महानगरे जगन्नाथरथयात्रा

द्वारकायाम् आचर्यमाणा जन्माष्टमी, अम्बाजी इत्यस्मिन् भाद्रपदपूर्णिमायाम् आचर्यमाणः महान् उत्सवः, खेडब्रह्मा-उत्सवः, पावागढनामके ग्रामे आचर्यमाणः 'पार्सी-मेला' उत्सवः, पोरबन्दर इत्यस्य नगरस्य समीपे आचर्यमाणः माधवपुर-'मेला' उत्सवः, अहमदाबाद इत्यस्मिन् महानगरे आचर्यमाणा जगन्नाथरथयात्रा, उनावानामके ग्रामे आचर्यमाणः मीरा-दातर-'मेला' उत्सवः, वडनगरे आचर्यमाणः ताना-रीरी-सङ्गीतोत्सवः इत्यादयः उत्सवाः अपि अस्मिन् राज्ये सानन्देन, वैभवेन च आचर्यन्ते ।