जग्गी वासुदेव
सद्गुरु | |
---|---|
जन्मतिथिः | ३ १९५७ |
जन्मस्थानम् | मैसूरु, कर्णाटकराज्यम्, भारतम् |
गुरुः/गुरवः | पळनिस्वामी, मल्लाडिहल्लि राघवेन्द्र |
तत्त्वचिन्तनम् | योगः |
उक्तिः | भवता विश्वस्यते इत्यनेन भवता ज्ञातमस्ति इति न । |
जग्गी वासुदेवः सद्गुरु नामाख्यः। सद्गुरुः योगी दिव्यदर्शी च अस्ति। सः ईशा फाउन्डेशनस्य (प्रतिष्ठानस्य) संस्थापकः। इदम् ईशा प्रतिष्ठानम् नि:स्वार्भावनया मानवसेवां करोति। इयं संस्था भारतवर्ष-समेतं समस्त विश्वेऽपि—यथा संयुक्तराज्यअमेरिका, इंग्लैण्डः,लेबनानः, सिंगापुर:,आस्ट्रेलिया आदि देशेषु— योगविद्यां शिक्षयति, अन्य सामाजिक-सामुदायिकविकासकार्याणि अपि सम्पादयति। सद्गुरुः संयुक्तराष्ट्रसंघस्य आर्थिक-सामाजिक परिषदि विशेषपरामर्शकपदवीम् अलंकरोति। अध्यात्मक्षेत्रे अस्य महत्तमं योगदानं पुरस्कृत्य २०१७ तमस्य वर्षस्य २५ तमे दिनाङ्के भारतसर्वकारेण अस्मै पद्मविभूषणप्रशस्तिः धोषिता । [१]
प्रारम्भिकं जीवनम्
[सम्पादयतु]सद्गुरु जग्गी वासुदेवः ख्रिस्ताब्दे १९५७ सितम्बर मासस्य तृतीयायां तिथौ कर्नाटक प्रान्ते मैसूर नगरे जात:। अस्य पिता चक्षुवैद्यः आसीत्। बालक: जग्गी वासुदेवः स्वभावेन प्रकृतिप्रियः। प्रायः अयं कतिपयदिनपर्यन्तं वनेषु तिरोहितो भूत्वा पर्यटनं करोति स्म। तत्रैव स: वृक्षस्य उत्तुङ्गशाखायाम् उपविश्य रमणीयवायोः सुखम् आस्वादयन् गहनध्यानावस्थायां लीनः भवति स्म । यदा अयं गृहं प्रत्यागच्छति अस्य झौलिका बहुभिः सर्पै: पूरिता भवति स्म। स: एभिः सर्पै: सह क्रीडति स्म। स: सर्पाणां ग्रहणे बन्धने च निपुणः आसीत्। स: एकादशवर्षावस्थायाः प्रभृति योगाभ्यासं करोति स्म। तस्य योग-गुरुः मल्लाडिहल्लि स्वामिनः इति विख्यातः श्री राघवेन्द्र रावः। जग्गी वासुदेवः मैसूरुविश्वविद्यालयात् आंग्लभाषायाम् स्नातकोपाधिं प्राप्नोत्।
आध्यात्मिकानुभवः
[सम्पादयतु]पंचविंशतिवर्षावस्थायाम् अयं एकस्मिन् दिने अनायासेन एव गहनम् आध्यात्मिकानुभवं प्राप्तवान् यत् अस्य जीवनस्य दिशां पर्यवर्तत। एकदा मध्याह्नकाले जग्गी वासुदेवः मैसूर नगरे चामुंडी-पर्वतम् आरुह्य एकस्यां शिलायाम् उपाविशत्। तदा अस्य नेत्रे पूर्णतः उन्मीलिते आस्ताम्। तस्मिन् समये अयम् अकस्मात् इव आत्मानं स्वशरीरात् असम्पृक्तम् अन्वाभवति । यत् अयं शरीरात् परः सर्वस्मिन् स्थाने यथा शिलासु वृक्षेषु पृथिव्यां च प्रसरति इति तेन अनुभूतम् । ततः प्रभृति कतिचनदिनपर्यन्तम् अयमेव अनुभवः वारं वारं तेन प्राप्तः। सदैव परमानन्दस्थितिं प्रत्यनुभूतवान्। अनया घटनया अस्य जीवन-शैली परिवर्त्तिता। जग्गी वासुदेवः स्वानुभवं सहमानवै: सह बंटनार्थम् आत्मनः जीवितं समर्पयितुं संकल्पितवान् । इदमेव लक्ष्यं पुरस्कृत्य अयं ईशा फाउन्डेशनं स्थापयित्वा योगसम्बद्धान् विविधानि कार्याणि आरब्धवान्।
ईशा प्रतिष्ठानम्
[सम्पादयतु]सद्गुरुणा स्थापितं ईशा प्रतिष्ठानम् लाभेच्छारहितं निःस्वार्थसेवासंस्थानम्। सर्वेषां जनानां शारीरिक-मानसिक-आन्तरिकुशलतायै समर्पिता इयं संस्था प्रायः द्विलक्षपंचसहस्रादपि अधिक-स्वयंसेवकेभ्यः संचाल्यते। प्रतिष्ठानस्य मुख्यालयः ईशा योग केन्द्रम् कोयंबत्तूर नगरे विद्यते। अत्र ग्रीन हैंड्स परियोजना विशुद्ध्पर्यावरणम् उद्दिश्य प्रवर्त्तयति। तमिलनाडुप्रान्ते प्रायः षोडशकोटि संख्यानां वृक्षाणां रोपणं परियोजनायाः उद्देश्यः। अधुना तमिलनाडु प्रान्ते पुदुचेरी प्रदेशे च अष्टादशशताधिकेषु समुदायेषु विंशतिलक्ष-संख्यया वृक्षारोपणं सम्पन्नम्। २००६ ख्रिस्ताब्दे अक्टूबर मासे सप्ततदश तिथौ तमिलनाडु प्रान्ते सप्तविंशति जनपदेषु अष्टलक्ष-द्विपंचाशत् सहस्रान् पादपान् रोपयित्वा गिनिज् विश्वरिकार्ड स्थापयति स्म। २००८ ख्रिस्ताब्दे इयं संस्था इंदिरा गांधी पर्यावरण-पुरस्कारमपि प्राप्नोत् ।
ईशा योगकेन्द्रम्
[सम्पादयतु]ईशा योगकेन्द्रम् ईशा प्रतिष्ठानस्य संरक्षणे स्थापितम्। इदं वेलंगिरि पर्वतेषु १५० एकरमितायां भूम्यां स्थितमस्ति। सघन-वनैरावृतम् ईशा योगकेन्द्रम् नीलगिरि जीवमंडलस्य सम्भागे स्थितम्। अत्र प्रभूतं वन्यजीविनः अपि विद्यन्ते । आन्तरिकविकासार्थं स्थापितम् एतत् शक्तिसम्पन्नं स्थानं ज्ञान-कर्म-| क्रिया-भक्ति नामाख्यान् योगस्य चतुरः मुख्यमार्गान् जनान्तिके प्रापयितुं बद्धलक्ष्यमस्ति। अस्मिन् स्थाने ध्यानलिङ्गयोगमन्दिरस्य प्राणप्रतिष्ठा कृता।
ध्यानलिङ्गम्
[सम्पादयतु]१९९९ ख्रिस्ताब्दे सद्गुरुणा प्रतिष्ठापितं ध्यानलिङ्गं अखिले विश्वे अतिविशिष्टं वर्तते । योगविज्ञानस्य सारभूतं ध्यानलिङ्गम् ऊर्जायाः शाश्वतम् आकारमस्ति। त्रयोदश फ़ुट-नव इंच-पर्यन्तं लम्बितम् इदं ध्यानलिङ्गं पारद-आधारितम् । इदं केनाऽपि संप्रदायेन मतेन वा सम्बंधितं नास्ति, न च अत्र कस्यापि विधि-विधानस्य पूजायाः वा आवश्यकता अस्ति। ये जनाः ध्यानानुभवेन वञ्चिताः, तेऽपि ध्यानालिङ्गमन्दिरे कतिपयक्षणपर्यन्तं मौनेन उपविश्य ध्यानस्य गहनम् अनुभवं प्राप्तुं शक्नुवन्ति। अस्य प्रवेशद्वारे सर्वधर्म स्तम्भोऽस्ति यस्मिन् हिन्दू-मुस्लिम-ईसाई-जैन-बौद्ध-सिक्ख- पारसी-यहूदी-शिन्तो धर्मसम्बद्धानि प्रतीकानि अङ्कितानि। अयं स्तम्भः धार्मिकमतभेदान् उल्लंघ्य सम्पूर्णमानवताम् आमन्त्रयति।
प्रकाशिताः ग्रन्थाः
[सम्पादयतु]आङ्ग्लभाषा
[सम्पादयतु]- Three Truths of Well Being, ISBN 978-01-4342-138-2
- Encounter the Enlightened, ISBN 81-86685-60-X
- Mystic's Musings, ISBN 81-86685-59-6
- Joy 24x7, ISBN 978-81-7992-914-8
- Pebbles of Wisdom, ISBN 978-81-7992-952-0
- The Mystic Eye, ISBN 81-7992-883-7
- Essential Wisdom from a Spiritual Master, ISBN 81-7992-882-9
- Flowers on the Path, ISBN 81-87910-05-4
- Himalayan Lust, ISBN 978-81-8495-076-2
- Eternal Echoes: The Sacred Sounds Through the Mystic, ISBN 81-87910-02-X
- Dhyanalinga: The Silent Revolution, ISBN 81-87910-00-3
- Dhyanalinga: The Eternal Form
- Circus of The Mind, ISBN 81-87910-10-0
- Unleashing The Mind, ISBN 81-87910-08-9
- Good And Bad Divides The World, ISBN 81-87910-07-0
- Enlightenment: What It Is, ISBN 81-87910-06-2
- Sacred Space For Self-transformation, ISBN 81-87910-09-7
- Ancient Technology For The Modern Mind, ISBN 81-87910-11-9
- Three Truths of Well Being, ISBN 978-0-67008-706-8
- Midnights with the Mystic, ISBN 978-1-57174-561-3
- A Guru Always takes you for a Ride, ISBN 978-8-18791-053-4
- Ancient Technology For The Modern Mind, ISBN 978-8-18791-011-4
- Don't Polish Your Ignorance....it may shine, ISBN 978-8-18495-200-1
- Of Mystics & Mistakes, ISBN 978-8-18495-308-4
- Body - The Greatest Gadget/Mind Is Your Business, ISBN 978-9-35083-360-5
- Emotion The Juice Of Life : Compulsiveness To Consciousness, ISBN 978-93-5083-362-9
- Encounter the Enlightened, ISBN 978-8-18668-560-0
- Sadhguru Biography-More Than A Life, ISBN 978-0-67008-512-5
- Why Suffering
- Inner Management: In the Presence of the Master
- Isha Living
- Sexuality And Divine
- You
- SG Convex View book
- The sacred India Book
- Shiva Ultimate Outlaw
तमिळुभाषा
[सम्पादयतु]- Sei... Seiyathe! ISBN 978-81-8476-288-4
- Athanaikum Asaipadu ISBN 81-89780-05-0
- Moondravathu Konam ISBN 978-81-8476-155-9
- Unakkagave Oru Ragasiyam ISBN 978-81-89936-24-2
- Konjam Amudham Konjam Visham ISBN 978-81-8476-134-4
- Aayiram Jannal ISBN 978-81-8476-226-6
- Anandha Alai
- Gnanathin Bramandam
- Guru Thantha Guru
- Moondravath Konam
हिन्दीभाषा
[सम्पादयतु]- Ek Aadhyatmik Guru Ka Alaukik Gyaan ISBN 978-81-8495-142-4
- Mrutyu Ek Kalpana Hai ISBN 978-81-288-2969-7
- Srushti se srushta tak ISBN 978-81-288-2970-3
- Aatm-Gyan : Aakhir Hai Kya ISBN 978-81-288-3495-0, {First Edition in August-2011}
कन्नडभाषा
[सम्पादयतु]- Gnyanodaya ISBN 978-81-7286-606-8
- Karunege Bhedavilla ISBN 81-7286-591-0
तेलुगुभाषा
[सम्पादयतु]- Gnani Sannidhilo
- Sadhguru Subhaashitaalu ISBN 978-93-80409-77-1
- Maunamto Rahasyam ISBN 978-93-80409-48-1
पुरस्काराः
[सम्पादयतु]पद्मविभूषणप्रशस्तिः (२०१७) [२]
टिप्पणी
[सम्पादयतु]- ↑ "PadmaAwards-2017".
- ↑ "Padma Awards 2017". NewsBytes (in English). Archived from the original on 2017-02-02. आह्रियत 2017-01-26. Unknown parameter
|access-date=
ignored (help)
अग्रिमाध्ययनाय
[सम्पादयतु]- Subramaniam, Arundhathi (2010). Sadhguru, More than a life. New Delhi: Penguin Ananda. ISBN 978-0-670-08512-5.