डा डि एन् वाडिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


(कालः - २५. १०. १८८३ तः १५. ६ .१९६९)

अयं डा. डि. एन्. वाडिया (Dr. D. N. Vadiya) भारतस्य प्रख्यातः भूगर्भशास्त्रज्ञः । सः "भारतस्य भूगर्भशास्त्रस्य पितामहः" इत्येव प्रसिद्धः । गुजरातराज्यस्य सूरतनगरे १८८३तम संवत्सरस्य अक्टोबर् मासस्य २५ तमे दिनाङ्के अजायत। एतस्य कुटुम्बस्य जनाः नौकायाः निर्माणकार्यं कुर्वन्तिस्म। प्राथमिकशिक्षणं सूरतनगरे प्राप्तवान्। स्नातकोत्तरपदवीं जीवशास्त्रभूगर्भशास्त्रयोः वडोदरा कलाशालायां प्राप्तवान्। विशिष्य भूगर्भशास्त्रे नैरन्तर्यम् अध्ययनम् आसीत्। १९०६तमे संवत्सरे, अस्य परिश्रमस्य फलं २० तमे वयसि सः जम्मू नगरस्य महात्मा गान्धिः कलाशालायाम् आचार्यपदं प्राप्तवान्। अयं कलाशालायाः विरामेषु समयेषु हिमालयगर्भे विद्यमानं खनिजं, गर्भे विद्यमानवस्तूनि, शिलाञ्च आनीय संशोधनं करोतिस्म। छात्राणाम् अध्ययनार्थं 'भूगर्भशास्त्रविज्ञानम्’ इति ग्रन्थम् लिखितवान्। १९२१ तमे संवत्सरे स्वपदत्यागाय त्यागपत्रं दत्तवान्। समनन्तरं भूगर्भशास्त्रविभागे उद्योगं प्राप्य संशोधनकार्ये सदा निरतः जातः। ५५ तमे वयसि भूगर्भशास्त्रविभागीय पदम्प्रत्यपि त्यागपत्रं दत्तवान्। अस्मिन् समये भारते तथा श्रीलङ्कायाञ्च आङ्ग्लेयानां शासनमासीत्। अस्मै, आङ्ग्लसार्वकारेण श्रीलङ्कादेशस्य भूविज्ञानशास्त्रं तथा भूमापनविभागस्य मुख्यं स्थानं दत्तम्। तत्र इतोपि यशं प्राप्तवान्। तत्रत्य सहकर्मिणेभ्यः प्रशिक्षणं तथा स्वानुभवञ्च सर्वदा बोधयतिस्म। अनन्तरं भारतसार्वकारस्य भूमापकविभागस्य निदेशकः जातः। किञ्चित्कालानन्तरं खनिजं तथा लोहविभागस्य निदेशकोपि जातः। भारतस्य स्वातन्त्र्यानन्तरम् "डा.होमिबाबास्य" आध्यक्षे अणुशक्त्यायाः अध्ययनार्थं अस्मै अवकाशं कल्पितवन्तः। वाडिया खनिजविभागस्य मुख्यस्थः जातः। अयं २२ तम अन्ताराष्ट्रीय भूगर्भशास्त्रस्य उपकरणानां सम्मेलनम् भारते प्रप्रथमवारम् आयोजितवान्। एतस्य सम्मेलनस्य अध्यक्षः आसीत्। एष्याखण्डे विद्यमानेषु विभागेषु गत्वा महत्वपूर्णं संशोधनं कृतवान्। खनिजानाम् विस्तृतम् अध्ययनं कृत्वा वृत्तान्तं निवेदितवन्तः। विशिष्य मरुत्स्थलानां रचनाप्रकारविषये मण्डित विचारधाराः विश्वप्रख्याताः जाताः। "नङ्गाप्रभारतस्य भूगर्भः” एवं ”हिमालयस्य रचना” इत्यादि ग्रन्थान् रचयित्वा जनप्रियः सञ्जातः। ५० वयसि अपि अस्य ज्ञानशक्तिम् अवलोकयामश्चेत् युवानोऽपि लज्जामनुभवन्ति। काश्मीरतः कान्याकुमारीपर्यन्तम्, अस्सां तः कराची, बलुचिस्तान् तथा सरोवरसमुद्रादयः अस्य अध्ययनस्य केन्द्राणि भवन्ति। अनेन रचितेषु पुस्तकेषु भारतस्य तथा बर्मादेशस्य भूगर्भशास्त्रसंबन्धितशोधाः आश्चर्यकराः भवन्ति। अनेन लिखितः ग्रन्थः विश्वस्मिन् विश्वे सर्वेषु भूगर्भशास्त्रं तथा भूमापनविभागीयग्रन्थालयेषु लभ्यते। तं ग्रन्थम् आदरेण पश्यन्ति जनाः। १९५७ तमे संवत्सरे लण्डन्देशस्य 'रायल्’ संस्थायाः संशोधकत्वेन परिगणितम्। प्रथमः भारतीयः भवति अस्मिन् क्षेत्रे इत्यतः महद्गौरवमस्य। भारतीय विज्ञानकाङ्ग्रेस् विभागस्य वारद्वयम् अध्यक्षस्थानम् अलङ्कृतवान्। राष्ट्रीय विज्ञानाकाडमि संस्थातः "मेगांद साहा” पुरस्कारभाजः जातः। कोलकता "असेटिक्” संस्थातः "भोस्” पुरस्कारभाजः जातः। १९५८ तमे संवत्सरे भारतदेशस्य श्रष्ठं पद्मभूषणपुरस्कारम् अलभत्। स्व ८५ तमे वयसि १९६९ तमे संवत्सरे जून् मासे १५ दिनाङ्के पञ्चभूतेषु लीनः जातः।

""

"https://sa.wikipedia.org/w/index.php?title=डा_डि_एन्_वाडिया&oldid=368901" इत्यस्माद् पुनः प्राप्तिः