नित्यानन्दः (नाट्यकारः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
नित्यानन्दः (नाट्यकारः)
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः मेघदूतम् , तपोवैभवम् , प्रह्लादविनोदनम् , सीतारामाविर्भावम्

नित्यानन्दः कोलकाता-नगरे शासकीय-संस्कृत-महाविद्यालयस्य भारती-भवने अध्यापयति स्म। तस्य पिता पितामहश्च भारतीय-संस्कृतिपरायणौ लोकभाविनौ च बभूवतुः । नित्यानन्देन बहूनि नाटकानि विरचितानि । तद्यथा - मेघदूतम् , तपोवैभवम् , प्रह्लादविनोदनम् , सीतारामाविर्भावम् ।

मेघदूतम्[सम्पादयतु]

मेघदूतमिति पञ्चाङ्के नाटके कालिदासीयं मेघदूतम् अभिनवसंविधानैः संवलितम्। नाटकेऽस्मिन् मेघदूतस्य भाववाक्यछन्दांसि यथेष्टमुद्धृतानि । अत्र यक्षपत्नी वनं वनं यक्षम् अन्विष्यन्ती भ्रमति । सा तत्र वृक्षादीन् पतिविषयकं प्रश्नं पृच्छति । शरदि यक्षो मेघरूपं कृष्णं साहाय्यार्थं समागतं पश्यति । मेघो यक्षिणी-विषयक-वार्तां यक्षाय श्रावयति । यक्षस्तं दौत्याय प्रणोदयति, अलकापुरीमार्गं च निवेदयति । मेघोऽलकापुर्यां पतिसन्देशं यक्षिण्यै श्रावयति तस्याश्च सन्देशं यक्षाय गृह्णाति । तद्यथा -

तवैवार्थं प्रियप्राणा ध्रियन्ते तव कान्तया

तव मार्गं प्रपश्यन्त्या दास्या तेऽपेक्ष्यते सदा।।

मेघदूतं गीतात्मकं नाटकं वर्तते । चतुर्थाङ्के देवदासीनां गीतं सनृत्यं विनिविष्टम् । मेघकृष्णस्य चरितं छायातत्त्वानुसारि प्रपञ्चितम् । अत्र अङ्कास्तु दृश्येषु विभक्ताः ।

प्रह्लादविनोदनम्[सम्पादयतु]

पञ्चाङ्के प्रह्लादविनोदनमिति नाटके प्रह्लादस्य पौराणिकं चरितं विनिविष्टम् । तदनुसारं विष्णोः द्वारपालकौ जय-विजयौ बालखिल्यमुनीनां शापाद् हिरण्यकशिपु-र्हिरण्याक्षौ बभूवतुः । तयोः हिरण्यकशिपुः हरिनामसंकीर्तनावरोधकः प्रह्लादस्य स्वपुत्रस्यैव शत्रुर्बभूव, यतो हि नाम प्रह्लादो महान् हरिभक्तोऽनिशं हरिनाम जपति स्म । विविधोपायैः प्रह्लादं हन्तुम् असमर्थो हिरण्यकशिपुः सर्वत्र नारायण इति तस्य मतिं मिथ्या प्रदर्शयितुं स्फटिकस्तम्भात् भगवतः प्रकटीकरणाय आदिदेश । स्तम्भादाविर्भूतो नृसिंहो हिरण्यकशिपुं निजघान । हिरण्यकशिपुः मरणानन्तरं दिव्यदेहधरो बभूव । अत्र किरतनिया-नाट्यानुसारं कतिपयस्तोत्राणां विनिवेशो रमणीय एव ।

सीतारामाविर्भावम्[सम्पादयतु]

नाटकस्य सीतारामाविभवं नाम तु भारतीयसंस्कृतेः उन्नायकस्य प्रणवपारिजात-पत्रिकायाः प्रवर्तकस्य सीतारामदासस्य पुण्याविर्भावमुपलक्ष्य संश्लिष्टम् । अंशतः प्रतीकपरमिदं नाटकं महाराजकलेः लोभमोहादिसहायैः सह कलियुगीनदुष्प्रवृत्तीनां विवरणं प्रस्तौति । निर्वहणे नारायणोऽवतारधारणाय उद्युक्तो भवति ।

नाटकेऽस्मिन् त्रयो नातिदीर्घा अङ्काः सन्ति प्रायेण लघुतरदृश्येषु विभक्ताः । अङ्कानां कथावस्तु परस्परम् अननुबद्धमेव प्रपञ्चितम् ।

तपोवैभवम्[सम्पादयतु]

तपोवैभवमिति नाटके कविना स्वपितुः तपस्विनो रामगोपालस्य चारुचरितं रूपकायितम् । ज्ञानादपि महत्तरमन्नदानमस्तीति रामगोपालस्य पितुर्मतम् । स्वगुरोर्वीरेश्वरतकालङ्कारस्य इच्छानुसारं तकलङ्कारस्य विद्यालये रामगोपालोऽध्यापकोऽभवत्।

देवी-साधकं सच्चिदानन्दं गुरुं कृत्वा रामगोपालः साधकोऽभवत् । निर्वहणे रामगोपालः सच्चिदानन्दस्वामिनः अनुग्रहेण परमेश्वरीं मातरं साक्षात् पश्यति । कथावस्तुप्रपञ्च दृष्ट्या विरलकोटिकमिदं नाटकम्।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

कालिदासः

संस्कृतम्

उद्धरणम्[सम्पादयतु]