पूर्वाभाद्रा नक्षत्रम्
रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते पूर्वाभाद्रानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् पूर्वाभाद्रानक्षत्रं भवति पञ्चविंशतितमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।
आकृतिः
[सम्पादयतु]पूर्वाभाद्र-उत्तराभाद्र द्वे द्वे खट्वम् - तुहिनाकृतौ विद्यमाने द्वे नक्षत्रे ।
सम्बद्धानि अक्षराणि
[सम्पादयतु]से सो दा दी - पूर्वाभाद्रानक्षत्रसम्बद्धानि अक्षराणि ।
अधिदैवम्, वैदिकविवेचनम्
[सम्पादयतु]- प्रोष्ठेशया बह्येशया नारीर्यास्तल्पशीवरीः ।
- स्त्रियोः या पुष्यगन्धास्ताः सर्वाः स्वापयामसि ।।
वैदिककाले भाद्रपदनक्षत्रं प्रोष्ठपदानाम्ना निर्दिश्यते स्म । तैत्तिरीयसंहितायाम् अस्य नक्षत्रस्य स्वामिनः विषये कथयति - 'प्रोष्ठपदा नक्षत्रमज एकपाद देवता प्रोष्ठपदा नक्षत्रमहिर्बुध्नियो देवता' इति । तन्नाम पूर्वप्रोष्ठपदायाः स्वामी अज एकपाददेवता उत्तरप्रोष्ठपदायाः स्वामी अहिर्बुध्न्यदेवता इति । अस्मिन् नक्षत्रे देवताः अस्त्रनिर्माणम् अकुर्वन् इति उल्लेखः अस्ति । 'प्रोष्ठपदेषूदयच्छन्त' । प्रोष्ठपदस्य अर्थः अस्ति यस्य चरणं विशेषतया पुष्टियुक्तम् इति । ऋग्वेदे प्रोष्ठशब्दस्य अर्थः शुभः इति उक्तम् ।
- अज एक पादुदगात् पुरस्तात् विश्वाभूतानि प्रतिमोदमानः ।
- तस्य देवाः प्रसवं यन्ति सर्वे प्रोष्ठपदासो अमृतस्य गोपाः ॥
- विभ्राजमान अन्तरिक्षमरुहद् अगं द्याम् ।
- तं सूर्य देवमजमेकपादं प्रोष्ठपदासो अनुयन्ति ॥
उभयोः भाद्रपदनक्षत्रयोः चतसृभिः ताराभिः युक्तं चतुष्कोणं निर्मितं भवति । पूर्वाभाद्रनक्षत्रस्य स्वामी अजः एकपादयुक्तः अस्ति । इदं नाम सूर्यस्य अपि विद्यते । तैत्तिरीयब्राह्मणे उक्तमस्ति यत् सर्वेषां प्राणिनाम् आनन्ददायकः सूर्यः प्रोष्ठपदया सह उदितः भवति । इयं देवी अमृतस्य संरक्षिका अस्ति । सूर्यः एव विष्णुः । जन्मरहितः सः एकपादः सन् देवानां प्राणिनाञ्च रक्षणं करोति । अतः एव सः अजैकपादः इति कथ्यते । सायणाचार्यः अभिप्रैति यत् अजैकपादः इत्येषः शब्दः अग्निविषये अपि प्रयुज्यते इति । सूर्यः अपि अग्निः एव । अयं तेजस्वी सुन्दरः सूर्यः द्यौ-पर्वतरूपिणः अन्तरिक्षस्य आरोहणं कुर्वन् अस्ति । प्रोष्ठपदा एतम् अनुसरति ।
आश्रिताः पदार्थाः
[सम्पादयतु]- आजे तस्करपशुपालहिंस्रकीनाशनीचशठचेष्टाः ।
- धर्मव्रतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥
तस्कराश्चौराः । पशुपालाः छागादिषु रक्षकाः । हिंस्राः क्रूराः । कीनाशाः कदर्याः । नीचा अधमकर्मकराः । शठचेष्टाः शठः परकार्यविमुखस्तस्येव चेष्टा येषां ते शठचेष्टाः । धर्मव्रतैर्वरहिता धर्मविवर्जिताः । व्रतैः कृच्छ्रपराकैश्चान्द्रायणादिभिश्च वर्जिताः । ये च मनुजा मनुष्या नियुद्धकुशला बाहुयुद्धज्ञाः । एते सर्व एवाऽऽजे पूर्वभद्रपदायाम् ।
स्वरूपम्
[सम्पादयतु]- अजचरणर्क्षे कुर्यात्साहसजलयन्त्रशिल्पकर्माद्यम् ।
- मृद्धातुर्वादच्छेदनकृषिमहिषोष्ट्राजेभविक्रयणम् ॥
पूर्वाभाद्रानक्षत्रे साहसकर्म, जलयन्त्रम्, शिल्पकर्म, मृत्तिका-धातुवाद्यकार्यम्, छेदनम्, कृषिकर्म, वृषभ-उष्ट्र्-मेष-गजानां विक्रयणम् इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।
उग्रसंज्ञकनक्षत्राणि
[सम्पादयतु]- उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु ।
- योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥
अथोग्राणि नक्षत्राणि तैश्च यत् कर्म कर्तव्यं तच्चाह -
पूर्वत्रयं पूर्वफाल्गुनी पूर्वाषाढा पूर्वभाद्रपदा इति । प्रित्र्यं मघा । एतानि पञ्च नक्षत्राण्युग्राणि भवन्ति । तानि चोत्सादे उत्सादने । परस्यार्थादीनां नाशे । शाठ्ये
शठभावे च । एतेषु कार्येषु योज्यानि । तथा बन्धे बन्धने । विषे शत्रूणां विषप्रयोगे । दहनेऽग्निदाहे । शस्त्रे शस्त्रप्रहरणे । घाते मारणे । आदिग्रहणादन्येषूपद्रवकरणेषु ज्वरातीसारोत्पादनेषु सर्वकर्मसु सिद्ध्यै सिद्ध्यर्थं योज्यानि प्रयोक्तव्यानि ।