सामग्री पर जाएँ

प्रवेशद्वारम्:संस्कृतम्/मुख्यलेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कठोपनिषदः (Kathopanishat) काठकोपनिषदित्यपि नाम वर्तते । कृष्णयजुर्वेदीया इयम् उपनिषत् । अस्याम् उपनिषदि अध्यायद्वयं वर्तते । प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते । यम-नचिकेतसोः संवादरूपेण इयम् उपनिषद् वर्तते । इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति । प्रत्येकस्मिन् उपनिषदि अपि ब्रह्मज्ञानविषयः एव विवृतः अस्ति चेदपि सर्वस्मिन् अपि नावीन्यं सौन्दर्यञ्च परिदृश्यते । कठोपनिषदः वैशिष्ट्यं नाम अत्र विद्यमाना लघुकथा ।

(अधिकवाचनाय »)