प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपं बहुभिः विद्वद्भिः प्रतिपादितम् अस्ति। तत्र वैदिककाले ज्योतिषस्य स्थितिः वेदमन्त्रैः अवगन्तुं प्रयासः जातः अस्ति।

परिचयः[सम्पादयतु]

प्राग्वैदिककालो हि वेदमन्त्रसङ्ग्रहादपि प्राचीनतरः कालः । न स ह्यस्माकं ज्ञानविषयः । तदा ज्योतिषशास्त्रस्य तु का वातऽपितु तद्योनेर्वेदस्यैव कि स्वरूपमासीदित्यपि अनुमातुं वयं नैव प्रभवामः । एतावदेव तद्विषये वक्तुं पार्यते यत्तदाऽपि ज्योतिषविषये स्वल्पमपि ज्ञानमवश्यमेवाऽऽसीद्यस्य यथायथं वा विकसितं रूपं वेदमन्त्रेषु दृश्यते । 'अग्निः पूर्वेभिः ऋषिभिरीड्यो नूतनैरिह’ ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवञ्च पृथिवीञ्चान्तरिक्षमथो स्वः' इति शुश्रूम धीराणां ये नस्तद्वयाचचक्षिरे' इत्यादिकथनैरेतत्सिध्यति । सम्प्रत्यपि ग्रामीणजना दिगवबोधाय ध्रुवादिनक्षत्राणां समयज्ञानाय रात्री कृत्तिकानां साहाय्यं गृह्णन्ति । दिवा तु ते सूर्यगतिमधीत्य समयज्ञानं कुर्वन्ति सुदिने । सम्भवत्येतदज्ञातयुगस्यैवावशिष्टम् । ऋग्वेदे 'देवानां पूर्वे युगेऽसतः सदजायत । देवानां युगे प्रथमेऽसतः सदजायत' इति यत्कथितं यच्च यः पश्यादुत्तरे युगे इत्यप्युक्तं तस्यायमेवाशयो भवितुमर्हति यद्वैदिकसंहितापूर्ववतझालेऽपि काचन विशिष्टां सभ्यताऽऽसीदिति ।

वेदा हि नैव निश्चयेन ज्योतिषशास्त्रमात्रमुद्दिश्य प्रवृत्ताः । तेन तत्र नैतादृशः प्रसङ्गो येन ज्योतिषशास्त्रं व्याख्यातं स्यात् । तथापि इतरविषयप्रसङ्गवशाज्ज्योतिषविषयेऽपि यत्किञ्चिदुक्तं तेनैतज्ज्ञायते यत्तदाऽपि शास्त्रेऽस्मिन् मानवीयं ज्ञानं समृद्ध मासीत् । तत्र तत्र गगनमण्डलं सूर्याचन्द्रमसौ नक्षत्राणि ताराः ऋतून मासान् दिवसाँश्चादाय मनोहारि चमत्कारि वर्णनं समुपलभ्यते । प्रकरणेऽस्मिन् वेदशब्देन कात्यायनप्रतिज्ञासूत्रमनुसृत्य तस्य संहिता-ब्राह्मणभाग गृहीतौ, मन्त्रब्राह्मणयोर्वेदनामधेयमित्युक्तेः ।

आकाशमधिकृत्य तत्रोक्तं यद्यः स आकाशः स आदित्य एव । एतस्मिन्नुदिते सर्वमिदमाकाशते । इन्द्र एंव स इति । तेन हि आकाशते द्योतते इत्याकाशः । तत्र पृथिव्या उपरिष्टादन्तरिक्षस्य तदुपरिष्टाद् दिवः प्रतिष्ठा वणता । दिवि मेघस्यान्तरिक्षे वायोश्च स्थितिरपि वणितो दृश्यते । यथा -

'नमोस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः ।[१]

‘नमोस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वात इषवः ।[२]

एवमेव द्यावापृथिवीविषये तत्रोक्तम् -

'यदा वै द्यावापृथिवी संज्ञानाथेऽथ वर्षति ।'[३]

‘प्राणोदानी वै द्यावापृथिवी ।[४]

‘इमौ वै लोकौ रेतः सिञ्चाविमौ ह्येव लोकौ रेतः सिञ्चत इतो वा अमृध्वं रेतः सिञ्चति धूमं साऽमुत्र वृष्टिर्भवति तामसावभुती वृष्टि तदिमा अन्तरेण प्रजायन्ते ।'[५]

ऋग्वेदेऽप्युक्तम् -

‘तिम्रो द्यावः सवितुर्दा उपस्था एका यमस्य भुवने विराषट् । आणि न रथ्यममृताभितस्थुः ।'[६]

विराजमधिकृत्य तत्रोक्तम् -

‘नाभ्या आसीदन्तरिक्ष शीष्र्णो द्यौः समवर्तत ।

पद्भ्यां भूमिदशः श्रोत्रात्तथा लोकानकल्पयन् ॥'[७]

‘चन्द्रमा मनसो जातश्चक्षोः सूर्योऽअजायत ।

श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।'[८]

ऐतरेयब्राह्मणे उक्तम् -

'द्यौरन्तरिक्षे प्रतिष्ठिताऽन्तरिक्षं पृथिव्याम् ।'[९]

एवमेव तत्र तत्र संवत्सरमासर्तुपक्षाहोरात्रसूर्यचन्द्रादिविषयेऽपि सुनिपुणं । वणतं दृश्यते । तत्र तत्र युगादिविषये च चर्चा लभ्यते । यथा हि -

‘देवानां पूर्वे युगे सतः सदजायत ।[१०]

'तदूचुषे मानुषेमा युगानि ।'[११]

‘विश्वे ये मानुषा युगा यान्ति मर्त्य रिषः।'[१२]

‘पर्जन्या नाहुषा युगा।'[१३]

'दीर्घतमा मामतेयो जुजुवनि दशमे युगे ।'[१४]

‘युगे युगे विदध्यम् ।'[१५]

‘या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।'[१६]

‘मानुषा युगाः ।[१७]

मन्त्रभागेष्वेतेषु युगशब्दः कालविशेषवाचकत्वेन प्रयुक्तो दृश्यते । देवयुगमानुषयुगयोरन्तरमपि तत्र निर्दिष्टं लभ्यते । ‘पूर्वे युगे' 'उत्तरे युगे' इत्यादिकथने युगशब्देन निश्चितकालमान एव निर्दिष्टोऽस्ति । यत्र कुत्र युगशब्दः कल्पार्थेऽपि प्रयुक्त इव प्रतिभाति । 'त्रियुगं पुरा' इत्यत्र युगशब्दः सत्यत्रेताद्वापरावबोधक एव । वैदिकमन्त्रेषु यत्र तत्र युगभेदत्वेन कृतादिशब्दानामपि प्रयोगो दृश्यते । यथा वाजसनेयीयसंहितायाम् -

‘अक्षराजाय कितवं कृतायादिनवदर्श त्रेतायै कल्पिनं द्वापरायाधिकल्पिनं'•••।'[१८]

एवमेव तैत्तिरीयसंहितायां युगमानत्वेन कृतत्रेताद्वापरशब्दानां प्रयोगो दृश्यते ।[१९] तैत्तिरीयब्राह्मणेऽप्युक्तम् -

‘कृताय सभाविनं त्रेताया आदिनवदर्श द्वापराय बहः सदं फलये सभास्थाणुम् ।'[२०]

तथैव ऐतरेयब्राह्मणेऽपि यथा-

‘कलिः शयानो भवति सज्जिहानस्तु द्वापरः ।

उत्तिष्ठंस्त्रेता भवति कृतं सम्पद्यते चरन् ।।

चरैवेति चरैवेति ।।[२१]

पुनश्च तैत्तिरीयब्राह्मणे--

'ये वै चत्वारः स्तोमाः कृतं तत् । अथ ये पञ्च कलिः सः । तस्माच्चतुष्टोमः ।।[२२]

ऋग्वेदादौ युगावयवत्वेन संवत्सरादयोऽप्युल्लिखिताः । यथोक्तं वेदाङ्गज्योतिषे पञ्चसंवत्सरं युगमिति तस्य बीजं वेदेषु दृश्यते । यथा हि -

‘संवत्सरस्य तदहः परि ४ यन्मण्डूकाः प्रावृषीणं बभूव ।

ब्राह्मणासः सोमिनो वाचमक़त ब्रह्म कृण्वन्तः परिवत्सरीणम् ।।[२३]

तथैव वाजसनेयसंहितायाम् -

••••संवत्सराय पर्यायिणीं परिवत्सरायाविजातामिदावत्सरायातीत्वरीमिद्वत्सरायोतिष्कद्वरीं वत्सराय विजर्जरी संवत्सराय पलिक्नीम्।'[२४]

एवमेव तैत्तिरीयब्राह्मणेऽप्युक्तम्-

‘अग्निव संवत्सरः आदित्यः परिवत्सरः चन्द्रमा इदावत्सरः वायुरनुवत्सरः ।।[२५]

‘संवत्सराय पर्यायिणीं परिवत्सरायाविजातामिदावत्सरायोपस्कद्वरीं इद्वत्सरायातीत्वरीं वत्सराय विजर्जरां संवत्सराय पलिक्नीम् ।[२६]

'संवत्सरोऽसि परिवत्सरोऽसि इदावत्सरोऽसि इवत्सरोऽसि इद्वत्सरोऽसि वत्सरोऽसि ।'[२७]

इत्थं हि माध्यन्दिनीये पञ्चानां तैत्तिरीये षण्णामन्यत्र चतुर्णामेव नामो- - ल्लेखो दृश्यते । | कालवाचकत्वेन वर्षशब्दः शतपथब्राह्मणादौ प्रयुक्तो दृश्यते (१-९३-१० ) । ऋग्वेदे हि ऋतुवाचकशरत्प्रभृतिशब्दा अपि वर्षवाचकत्वेन प्रयुक्ता दृश्यन्ते । गोपथब्राह्मणे ( ६।१७ ) वषार्थे हायनशब्दः शुक्लयजुर्वेदै समशब्दः प्रयुक्तो दृश्यते । यथा -

'तेषां श्रीमयि कल्पतामस्मिन् लोके शतं समाः ।'[२८]

'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।[२९]

एवम् ऋग्वेदेऽपि[३०] समशब्दः संवत्सरार्थं प्रयुक्तः । एवमेवैतरेयब्राह्मणेऽपि ।[३१] एवमेव ऋतुविषयेऽपि वैदिकसाहित्ये बहूक्तमस्ति। तैत्तिरीयसंहितायामुक्तं यत्संवत्सरे षड़तवो भवन्ति द्वादश मासाश्च । यदा कदा त्रयोदशोऽपि । यथा -

‘षड्रात्रिर्दीक्षितः स्यात् षड् वा ऋतवः संवत्सरः।

द्वादशरात्रीर्दीक्षितस्याद् द्वादश मासाः संवत्सरः••••।

त्रयोदशरात्रीर्दीक्षितः स्यात् त्रयोदश मासाः संवत्सरः•••।

चतुर्विंशतिरर्धमासाः संवत्सरः•••मास दीक्षितः स्याद्यो मासः स संवत्सरः ।[३२]

एवञ्च तत्रैव षड़तवो द्वादश मासाश्च नाम्नाऽपि परिगणिता दृश्यन्ते । यथा तैत्तिरीये -

‘मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च‘संसर्पोऽस्य॑हस्पत्याय त्वा ।।[३३]

तत्र संसर्पो मलमासः अंहस्पतिः क्षयमास इति माधवः । एवमेवमधुश्च माधवचे वासन्तिकावत शुभ शुचिभ जैमातू नभश्च नभस्यश्च वार्षिकावृतू इषश्चोर्जश्च शरदावृतू सहश्च सहस्यश्च हैमन्तिकावृतू तपश्च तपस्यश्च शैशिरावृतु ।'[३४]

तथैव ऋग्वेदेऽपि उक्तम्---

'वेदमासो धृतव्रतो द्वादश प्रजावतः । वेदा य उपजायते ।'[३५]

'द्वादशारं न हि तज्जराय वर्षति चक्र परिद्यामृतस्य ।

आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विशतिश्च तस्थुः ।'[३६]

'द्वादश प्रधयश्चक्रमेक त्रीणि नम्यानि क उ तच्चिकेत तस्मिन् साकं त्रिशता न शङ्कवोऽपिता षष्टिर्न चलाचलासः ।'[३७]

संवत्सरं ह्येकं चक्रं तस्य हि द्वादश प्रधयश्चैत्रादयः त्रीणि नम्यानि चैत्रादारभ्य मासचतुष्करूपाणि चातुर्मास्यत्रिकमिति । तस्य हि त्रिशतं.षष्टिश्च शङ्कवः दिवसाः चला अचलाश्च रात्रयस्तावत्य एवेति सप्तशतं विशतिश्च ता इति । तैत्तिरीयसंहितायां स्पष्टमेवोक्तम् -

'तस्य त्रीणि च शतानि षष्टिश्च स्तोत्रीयास्तावतीः संवत्सरस्य रात्रयः ।'[३८]

वाजसनेयसंहितायामपि त्रयोदशमासा नाम्ना गणिताः । यथा -

‘उपयामगृहीतोऽसि मधवे त्वोपयामगृहीतोऽसि माधवाय त्वोपयामगृहीतोऽसि शुक्राय त्वोपयामगृहीतोऽसि शुचये त्वोपयामगृहीतोऽसि नभसे त्वोपयामगृहीतोऽपि नमस्याय त्वोपयामगृहीतोऽसीषे त्वोपयामगृहीतोऽस्मू त्वोपयामगृहीतोऽसि सहसे त्वोपयामगृहीतोऽसि सहस्याय त्वोपयामगृहीतोऽसि तपसे त्वोपयामगृहीतोऽसि तपस्याय त्वोपयामगृहीतोऽस्य॑हसस्पतये त्वा ।'[३९]

एवमेव -

‘संसर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवापतये स्वाहा ।'

‘मधवे स्वाहा माधवाय स्वाहा शुक्राय स्वाहा शुचये स्वाहा नभसे स्वाहा नभस्याय स्वाहेषाय स्वाहोर्जाय स्वाहा सहसे स्वाहा सहस्याय स्वाहा तपसे स्वाहा तपस्याय स्वाहांऽहसस्पतये स्वाहा।'[४०]

अनेनैतत्सिध्यति यद्वैदिकसंहिताकाले द्वादशमासात्मकं सौरवर्ष प्रचलितमासीत् यत्र षष्टयधिकत्रिशतदिनानि परिगणितान्यासन् । सूर्योदयादारभ्य सूर्योदयान्तरपर्यन्तकाल एव तत्र दिवसपदेन । गृहीतोऽनुमीयते । मासस्तु तदा चान्द्र एवाऽऽसीत् । तदगणनाक्रमश्च चन्द्रमसः पूर्णत्वाधारेण । तस्य द्विःपूर्णवाभ्यन्तरवर्ती काल एव मासः । तथैव ऋतूनामेकः परिक्रमावधिरेव वर्षम् । ऋतूनां हि सर्यो योनिः । (चन्द्रमा हि किञ्चिदूनसार्धदिनदयमेकराशौ तिष्ठति । तेन हि सार्द्धकोनत्रिशद्दिनमितो हि चान्द्रो मासः चतुःपञ्चाशदधिकत्रिशतदिनमितो हि चान्द्रवर्षः । ऋतूनां हि एकादशदिनाधिकचान्द्र वर्षसमकालावधौ एका परिक्रमा पूर्णा भवति । तेन हि चान्द्रवर्षे ३५४ दिनानि सौरवर्षे तु ३६५ दिनानि भवन्ति ।) चान्द्रसौरवर्षसमीकरणायैव त्रयोदशतमो मासोऽपि तत्र परिकल्पितः । तेनैवोक्तम्-‘रविणा लङ्तिो मासश्चान्द्रो ख्यातो मलिम्लुचः इति ।

‘मासद्वये यदाऽप्येकराशि सङ्क्रमेतादित्यस्तत्राद्यो मलिम्लुचः शुद्धोऽन्यः इति च । वेदे हि अधिमासस्य कृते संसर्पः अंहस्पतिश्च शब्द पर्यायवाचकत्वेन प्रयुक्तौ । यदा कस्यचिन्मासस्य क्षयस्तदा हि द्वावधिकमासौ भवतः । तयोराद्यः संसर्पोऽपरोऽहस्पतिरिति परम्परा । तेनैवोक्तं स्याद्-‘असङ्क्रान्तिद्विसङ्क्रान्ती संसपहस्पती समाविति । शङ्करबालकृष्णो निदिशति यत्तदा चान्द्रसौरवर्षातिरिक्तं सावनवर्षोऽपि प्रचलित आसीत् । सावनशब्दो. हि सवनसम्बद्धः । सूर्योदयादारभ्य सूर्योदयान्तराभ्यन्तरवर्ती काल एव सावनदिनसंज्ञितः । अत एव सावनशब्दोऽहोरात्रोपलक्षकः । अहोरात्रसाध्य एकः सोमयागोऽहःशब्देनाभिधीयते । तादृशानामहविशेषाणां गणः षडहः षडहेन पञ्चकेनैको मासः । तादर्शद्वदिशभिर्मासैः साध्यं संवत्सरसत्रमिति माधवाचार्यः स्पष्टयति । तदित्थं सावनवर्षे ३६० दिनानि भवन्ति, यदुक्तम्-‘तस्य त्रीणि च शतानि षष्टिश्च स्तोत्रीयस्तावती संवत्सरस्य रात्रयः' इति ।[४१] किञ्च चान्द्रमाने हि मासे २९३ दिनान्येव भवन्ति ५९ दिनैर्मासद्वयम् । सावनमासद्वये ६० दिनानि भवन्ति । अतस्तयोंः समीकरणाय ‘षडहैर्मासात्सम्पाद्याहरुत्सृजन्ति'[४२] इति ।

विषयः[सम्पादयतु]

उत्सगंणामयनसत्रे एकदिवसोत्सर्गविधिरुक्तः स्यात् । अन्यथा तत्र वर्षे एकः षडहोऽधिको भवेत् । अनेनैतत्पर्यवस्यति यद्वैदिकसंहिताकाले सावनचान्द्रसौरवर्षाणां प्रचलनमासीत्। तत्र यज्ञादिकृत्ये सावनो वर्षों नित्यनैमित्तिककृत्यसम्पादने चान्द्रो वर्ष इतरव्यवहारे सौरो वर्षः प्रयुक्त आसीत् । सावनवर्षे एकषडहत्यागेन चान्द्रो वर्षस्तत्र एकोनषडहइययोगेन सौरो वाऽऽर्तवो वर्षः सम्पद्यते । वेदेषु नाक्षत्रबार्हस्पत्यघर्षविषये नैव किञ्चिदुक्तं लभ्यत इति शङ्करबालकृष्णमहोदयमतम् । किन्तु 'नक्षत्राणि संवत्सरस्य प्रतिष्ठा'[४३] इति वचनात्तदा नाक्षत्रवर्षोऽपि प्रचलित आसीदिति ज्ञायते । नक्षत्राणि सप्तविंशतिस्तेन द्वादशगुणितेन नाक्षत्रे वर्षे ३२४ दिनान्येव भवन्ति । तेषामष्टाविंशतिसङ्ख्ययाऽपि तत्र ३३६ दिनान्येव भवन्ति ।

वैदिकसाहित्ये अयनविषयेऽपि बहूक्तं दृश्यते । शतपथब्राह्मणे हि वसन्तग्रीष्मवर्षासु सूर्यस्योदगावर्तनं देवेषु स्थितिः शरद्धेमन्त शिशिरेषु तस्य दक्षिणावर्तनं पितृष्ववस्थितिश्चोक्ता:[४४]। तथैव तैत्तिरीयसंहितायामपि-तस्यादित्यः षण्मासो दक्षिणेनेति षडुतरेण[४५] इति उक्तम् । यदा हि सूर्यो विषुववृत्तस्योत्तरतस्तदोत्तरायणं यदा तु दक्षिणतस्तदा दक्षिणायनमित्यस्य सारम् । उत्तरायणमेव देवानां दिनं यदा दक्षिणायनं तेषां रात्रिरिति । उभयमादाय देवानामेकं दिनम् । अयनशब्दो हि वेदे गृहपर्यायत्वेन प्रयुक्तो दृश्यते । यथा-‘अपामिदं न्ययनं समुद्रस्य निवेशनम्'[४६] 'आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः'[४७] किन्तु वाजसनेयीये स्थित्यर्थेऽपि दृश्यते; यथा-नान्यः पन्था विद्यतेऽयनाय'[४८], एवमेव गत्यर्थे कौषीतकिब्राह्मणेऽपि।[४९] एतावताऽपि एतत् स्पष्टमेव यद्वैदिकसाहित्येऽयनगणना तु साधु विदिताऽऽसीत् किन्तु तदुपक्रमणमादाय नैव किञ्चित्स्पष्टम् । शतपथब्राह्मणानुसारेण उत्तरायणे वसन्तग्रीष्मवर्षा ऋतवो भवन्ति दक्षिणायने तु शरद्धेमन्तशिशिराः । सम्प्रति तुत्तरायणे शिशिरवसन्तग्रीष्मा एव गृह्यन्ते वर्षाशरद्धेमन्ता दक्षिणायने । शतपथब्राह्मणस्य-‘एषा ह वा संवत्सरस्य प्रथमा रात्रिर्यत् फाल्गुनी पौर्णमासी'।[५०] ‘आत्मा वै संवत्सरस्य विषुवानङ्गानि मासा:'।[५१] “अथ ह वा एष महासुपर्ण एव यत्संवत्सरः । तस्य यान पुरस्ताद्विषुवतः षण्मासानुपयन्ति सोऽन्यतरः पक्षोऽथ यान् यद्युपरिष्टात् सोऽन्यतर आत्मा विषुवान्'।[५२] 'संवत्सरो वाव विवर्ताऽष्टाचत्वारिंशः षड्विंशतिरर्धमासाः स त्रयोदश मासाः सप्तर्तवो है अहोरात्रे' ( ८।४।१।२५ )। 'चतुर्विशत्यर्धमासो वै संवत्सरः । संवत्सरो“तस्य चतुर्विंशतिरर्धमासाः षड़तवो द्वेऽहोरात्रे ।' ( ८।४।१।२२ )। तस्य वसन्त एव द्वार:::' (१।६।१।१९ ) ।' संवत्सर एवाग्निस्तस्य वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो वर्षा उत्तरः शरदृतुर्मध्यमात्मा हेमन्तशिशिरावृतु पुच्छम्' ( १०।४।५।२ ) इत्याद्युक्तं, यच्च-‘एषा वै प्रथमा रात्रिः संवत्सत्स्य यदुत्तरे फल्गुनी' (१।१२।९ )। 'एषा वै जघन्या रात्रिः संवत्सरस्य यत्पूर्वे फल्गुनी' (१॥१॥२५९ ) इति तैत्तरीयब्राह्मणेऽप्युक्तं तेन सिध्यति यत्संवत्सरस्य विषुवढ्यं तस्य च वसन्तोदये प्रारम्भः फाल्गुनी ( उत्तरा ) तस्य मुखं पूर्वाफाल्गुनी तु पुच्छमिति । तस्य तदेव द्वारं यदमावास्या चन्द्रमा एव द्वारपिधानः' ( श० ब्रा० ११।१।१।१ ) इति च ।

वैदिकसाहित्ये न हि कुत्रापि स्पष्टतयोल्लिखितं यदयनपरिवर्तनं कदारभ्य भवतीति । कदाऽऽरभ्य संवत्सरः प्रवर्तते इत्यपि नैव तत्र स्पष्टं प्रमाणम् । शतपथब्राह्मणे एतावदेव निर्दिष्टं यदुतरायणे वसन्तग्रीष्मवर्षर्तवो दक्षिणायने शरद्धेमन्तशिशिरति॑व इति । किन्तु वसन्तर्तुः कदाऽऽरभ्य प्रवर्तत इति तत्र नैव स्पष्टतयोक्तम् । तैत्तिरीयब्राह्मणानुसारेण उत्तराफाल्गुनी हि संवत्सरस्य मुख पूर्वा च पुच्छमिति । एतदनुसारेण फाल्गुनपौर्णमासीमभितः संवत्सरारम्भोऽनुमितः । वराहमिहिराचार्यः स्मरति--

‘आश्लेषाद्धददक्षिणमुत्तरमयनं रवेर्धनिष्ठायाम् ।

नूनं कदाचिदासीयेनोक्तं पूर्वशास्त्रेषु ।

साम्प्रतमयनं सवितुः कर्कटाचं मृगादितश्चान्यत् ।

उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैयक्तिः ॥

दूरस्थचिह्नभेदादुदयेऽस्तमयेऽपि सहस्रांशोः ।

छायाप्रवेशनिर्गमचिह्नव मण्डले महति ॥' इति ।[५३]

पराशरतन्त्र उक्तम् -

‘श्रविष्ठाद्यात्पौष्णान्तं चरतः शिशिरः वसन्तः पौष्णान्ताद्रोहिण्यन्तम् । सौम्याद्यात् सार्पाद्ध ग्रीष्मः । प्रावृट् सार्पाद्धद्धस्तान्तम् । चित्राद्यादिन्द्रान्तं शरद हेमन्तो ज्येष्ठाद वैष्णवान्तमिति । बालगङ्गाधरादिभिर्वैदिके युगे मृगशिरोनक्षत्रे वासन्तं विषुवद्दिनं तत्पृष्ठवतन्यष्टमे नक्षत्रे पूर्वभाद्रपदायां मार्गशीर्षे मासि उत्तरायणारम्भश्चानुमितः ।

पश्चाद्वतिनि साहित्ये तु कृत्तिकायां वासन्तं समरात्रमनुराधायां शारदं समरात्रं धनिष्ठादावुत्तरायणारम्भो वर्षारम्भश्च आश्लेषाद दक्षिणायनारम्भश्च निदिष्टः । सामान्यतः एतदनुसारेण उत्तरायणारम्भस्य समयः फाल्गुने पतति । फाल्गुनपौर्णमासीमारभ्य नववर्षः प्रवर्तते इति पक्ष एवास्याशयः । उत्तरायणे वसन्तग्रीष्मवर्षाणां या स्थितिरुक्ता शतपथे तेन तदैव वसन्तारम्भोऽपि । वराहमिहिरकाले तु अश्विन्यादौ वासन्तविषुवद्दिनं चित्रायां शारदं विषुवद्दिनमुत्तराषाढानक्षत्रे उत्तरायणारम्भः पुनर्वसौ दक्षिणायनारम्भश्च ।साम्प्रतिककाले तु पूर्वभाद्रपदायां वासन्तं विषुवद्दिनं हस्त शारदं समरात्र पूर्वाषाढायोमुत्तरायणमायां दक्षिणायनञ्चेति अयनपरिवर्तनस्थितयो हि चतस्रो दृश्यन्ते । तथाभवने हि तस्य पश्चिमाभिमुख शनेर्गमनमेव हेतुः ।। तदिदं वयमेकत्र स्थापयित्वा पश्यामोऽध्ययनसौकर्याय ।

स्थितिः समरात्रम् अयनारम्भः
वासन्तं शारदम् औत्तरं दाक्षिणम्
प्रथमा मृगशिरसि मूले पूर्वभाद्रपदायाम् उत्तरफाल्गुन्याम्
द्वितीया कृत्तिकायाम् अनुराधायाम् धनिष्ठादौ आश्लेषार्द्धे
तृतीया अश्विन्यादौ चित्रायाम् उत्तराषाढायाम् पुनर्वसौ
चतुर्थी पूर्वभाद्रपदायाम् हस्ते पूर्वाषाढायाम् आर्द्रायाम्

( सर्वत्र सूर्ये प्राप्ते इति योज्यम् )

ऋतुमधिकृत्य वैदिकसाहित्ये यत्र कुत्र पञ्चैवर्तवः प्रोक्ता अन्यत्र षडपि क्वचित्तु सप्ताऽपि। तेषां पञ्चविधत्वं हेमन्तशिशिरयोरेकीकरणेनेति माधवाचार्यः सप्तविधत्वञ्च संसर्पमादायेति । ऋग्वेदे प्रायः त्रय एवर्तवः प्रोक्ताः वसन्तो ग्रीष्मः शरच्च । यथा-'वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः'।[५४] अन्यत्र प्रावृषो हेमन्तस्याऽप्युल्लेखो दृश्यते तत्र । अन्यत्र वेदेषु प्रायः षडेवर्तवः प्रोक्ताः । ऋतूनां हि ऋग्वेदे त्रयाणामेवोल्लेखस्यानन्तरवतवैदिकसाहित्ये षण्णामेवोल्लेखस्य चार्याणा पश्चिमतः पूर्वम्प्रति प्रस्थानं हेतुरिति केचिद्वदन्ति यथा त्सेमरः । वयं तु तत्कार्यापेक्षयेति बूमः । यथा हि होमकर्मणि आज्यत्वेन वसन्त इध्मत्वेन ग्रीष्मो हविष्ट्वेन शरत् स्मृतः । तत्र तावतामेव प्रयोजनमासीत् । अन्यत्र स्पष्टमेवर्तुंनां षाविध्यं प्रतिपादितं दृश्यते । यत्रापि तत्रर्तवो वणितास्तत्र तेषां वसन्तस्य प्राथम्येनोल्लेखो दृश्यते शिशिरस्यान्तिमत्वेन यत्र कुत्र हेमन्तोऽपि चरमत्वेन । वसन्तस्य मुख्यत्वे पृथग्विधानमपि लभ्यते । यथा तैत्तिरीयब्राह्मणे -

‘मुखं वा एतदृतूनां यद्वसन्तः'।[५५] तत्रैव संवत्सरो हि पक्षिखेनोपवणतो यस्य 'वसन्तो हि शिरो ग्रीष्मो दक्षिणपक्षः शरदुत्तरपक्षः वर्षापुच्छं हेमन्तो मध्यमिति ।[५६]

वसन्तः > शरद् > हेमन्तः > ग्रीष्मः > वर्षा

ऋतुस्थितेः सूर्यावलम्बनत्वेन सौरमासतिथीनामनिश्चयेन च कस्यतः कदाऽऽरम्भो भवतीति दुःष्करमेव निश्चयेन वक्तुम् । अत एव तैत्तिरीयसंहितायामुक्तम् -

'उभयतों मुखमृतुपात्रं भवति को हि तद्वेद यदृतूनां मुखम्'।[५७] शङ्करबालकृष्णो निर्दशति यद्यद्यकस्मिन् वर्षे सौरमासस्यारम्भः पौर्णमास्यां भवति तदागामिवर्षे तस्य शुक्लद्वादश्यामेवोपक्रमस्तदग्निमवर्षे तु कृष्णाष्टमी मभित एव । नैतावन्मात्रमपितु तेषां सौरमासैः सह सम्बन्धोऽपि यत्किञ्चिदनियत एव । स्थलभेदेनाऽपि अवारम्भे पञ्चषदिनानामन्तरं भवति । तेनैव शतपथब्राह्मणे चातुर्मास्येन यज्ञेन ऋतुसन्धीनां व्यवस्थापनमुक्तम् ।

एवमेव संवत्सरस्यावयवत्वेन मासानां द्वादशविधत्वं त्रयोदशविधत्वञ्चोक्तं वैदिकसाहित्ये । मासानां हि तत्र मधु-माधव-शुक्र-शुचि-नभो-नभस्य-इष-ऊर्जसह-सहस्य-तपः-तपस्येति द्वादशमासाः संसर्पो वांहस्पतिश्च त्रयोदशतमो मास इति सासानां संज्ञा । शतपथब्राह्मणेऽग्न्याधानप्रसङ्गे वैशाखनाम्नाऽपि माधवमासो हि कथितो दृश्यते । तैत्तिरीयब्राह्मणे[५८] चतुर्विंशत्यर्द्धमासानां नामान्यपि इत्थं स्मृतानि -

'पवित्रन् पवयिष्यन् पूतो मेध्यः । यशो यशस्वानायुरमृतः । जीवो जीविण्यन्त्स्वर्गों लोकः । सहस्वान् सहीयानोजस्वान् सहमानः । जयन्नभिजयन्त्सुद्रविणो द्रविणोदः । आईपवित्रो हरिकेशो मोदः प्रमोदः ।' तत्र द्वादशमासानां त्रयोदशतमस्य च नामान्तराण्यप्युक्तानि । यथा -

‘अरुणोऽरुणरजाः पुण्डरीको विश्वजिदभिजित् ।

आर्दैः पिन्वमानोन्नवान् रसवानिरावान् ।

सर्वोषधः सम्भरो महस्वान् ॥'[५९]

अरुणः अरुणरजाः पुण्डरीकः विश्वजित् अभिजित् आर्द्रः पिन्वमानः • उन्नवान् रसवान् इरावान् सर्वोषधः सम्भरः महस्वान् इति । सम्भवति महस्वानिति अधिमाससंज्ञेति । तत्र ऋतुजैविध्यमप्युक्तं दृश्यते । यथा--

‘अग्निः ऋतुः सूर्यः ऋतुश्चन्द्रमा ऋतुः ।[६०] यद्यप्यस्य कोऽभिप्राय इति न सम्यग्ज्ञातं तथाप्यनुमानतः वसन्तग्रीष्मी आग्नेयौ वर्षाशरदौ सौरौ हेमन्तशिशिरी चान्द्रावित्यस्याशयेन भाव्यमिति । शतपथब्राह्मणेऽपि हेमन्तस्य चान्द्रत्वमुक्तं दृश्यते । स्पष्टमेव यन्मध्वादिसंज्ञाऽरुणादिसंज्ञा वा ऋतुसम्बद्धा न तु नाक्षत्रा। चैत्रादिसंज्ञा तु नक्षत्रसम्बद्धत्वेन, यथा—चित्रायुक्ता पौर्णमासी चैत्री तन्मासश्च चैत्रः साऽस्मिन् पौर्णमासीति । चन्द्रमा हि प्रायो नियमिते एव नक्षत्रे पूर्णो भवतीति तथा नामकरणे हेतुरत्र । अयमपि प्रायोवाद एव, वस्तुतस्तु दृश्यन्ते तत्राऽप्यपवादाः । यथा २०४६ वैक्रमाब्देषु

मासाः - चै. वै. ज्ये. आ. श्री. भा. आ. का. मा. पौ. मी. फा.

पौर्णमास्यां नक्षत्राणि - स्वा. अ. मू. उ. ध. पू. रे. कृ. मृ. पु. आ. उ.

तथास्थितीवयमेव हेतुर्यत्क्रान्तिवृत्ततो नक्षत्राणां दूरत्वं तु सदासमानमेव किन्तु चन्द्रमा हि नैव क्रान्तिवृत्तमेवाश्रित्य चलति अपितु ततः कदाचिदुत्तरतः कदाचित्तु दक्षिणतोऽपि किञ्चिद् दूरमेव चलति । तस्य हि कक्ष क्रान्तिवृत्तं द्विः पारं करोति । उभे छेदनबिन्दु चन्द्रपात इति ज्ञायते । यदि चन्द्रपातस्य स्थैर्य स्यात्तदा तु चन्द्रस्य पूर्णत्वं सदैव समाने एव नक्षत्रे स्यात्, किन्तु पातस्यापि गतिर्भवति यस्य हि १८३ वर्षेषु भगणः पूर्णो भवति । तेन चन्द्रः कदाचितु रोहिणीं पूर्णत आच्छादयति, कदाचित्तु तयोरेफादशांशेनान्तरमपि भवति । तेन हि चन्द्रमा यदि एकस्मिन् मासे एकस्मिन् नक्षत्रे पूर्णो भवति द्वितीयस्मिन् मासे तु ततो द्वितीयस्मिन् वा तृतीये नक्षत्रे एव पूर्णो भवति । प्रत्यब्दञ्च तस्य तदेव पूर्णत्वमपि तथैव भिद्यते । यथा - वर्षाणि २०३१ २०३२ २०३३ २०३४ २०३५ २०३६ २०३७ २०३८ २०३९ चैत्रपौण- चि. स्वा. चि. है. स्वा. चि. ह. चि. चि. मास्यां नक्षत्राणि।

तेन हि नक्षत्रसम्बन्धेन माससंज्ञाऽपि प्रायोवृत्त्यैव । मधुमाधवादिसंज्ञाऽपि चन्द्रसम्बन्धेनैव मासानां पूणिमान्तत्वादमान्तत्वाद्वा । एतेन नैतदवधेयं यद्वेदसंहिताकाले सौरमासस्य ज्ञानमेव नासीदिति । यदा हि सौरो वर्षों गण्यते स्म तदा सौरमासानामपि गणनाऽवश्यमेव स्यात् । सम्भवति मधुमाधवादिनामानि सूर्यचन्द्रोभयसम्बन्धेनैव प्रवततानि स्युः ।। | शङ्करबालकृष्णो निदिशति यन्न हि वेदे मेषादिराशिचक्रस्योल्लेखो लभ्यते । मासानां पूणिमान्तत्वेनोल्लेखात्तत्सम्भवत्यपि । पूर्णो मासो यस्यमिति पौर्णमासी। तैत्तिरीयसंहितायाम्

‘अमावास्यया मासान् सम्पाद्याहरुत्सृजन्ति अमावास्यया हि मासान् । सम्पश्यन्ति । पौर्णमास्यां मासान् समपाद्याहरुत्सृजन्ति पौर्णमास्या हि मासान् सम्पश्यन्ति ।[६१]

तैत्तिरीयब्राह्मणे ‘पूर्वपक्षे देवान् व्यसृज्यन्त अपरपक्षमन्वसुराः ततो देवा अभवन् परासुराः ।[६२] ‘पूर्वपक्षाश्चितयः । अपरपक्षां पुरीषम्[६३] इत्यादिकथनेन पूर्वाऽपर इति पक्षभेदस्तु दृश्यते किन्तु पक्षावबोधकत्वेन शुक्लकृष्णशब्दौ हि वेदेषु नैव प्रयुक्तांविति शङ्करबालकृष्णः । पूर्वपक्षे देवसृष्टिरपरपक्षे आसुरसृष्टिरिति कथन शुक्लस्य पूर्वपक्षत्वमनुमातुं शक्यते तच्च अंमान्तमासमाने एव सम्भवति । पूणिमान्तमासमाने तु कृष्णपक्ष स्यैव पूर्वत्वम् । नवो नवो भवति जायमान इति पूर्वपक्षादिमभिप्रेत्याह्वामू' (निरुक्तम्[६४]) इति कथनेन कृष्णपक्षस्य पूर्वपक्षत्वं सिध्यति । अमान्तमाने पूर्णिमा मध्ये पतति ततो न सिध्यति तस्य पौर्णमासीत्वमिति पूणिमान्तमान एव बहुभिर्गुह्यते । शतपथब्राह्मणेऽप्युक्तम् -

'एष एव पूणिमा यच्चन्द्रमा एतस्य ह्यनुपूरणं पौर्णमासीत्याचक्षतेऽथैष एव दर्शो य एष तपति ददृशे इव ह्येषः ।[६५]

सौरमासस्येव सौरदिनस्याऽपि वैदिकसाहित्ये समुल्लेखो न लभ्यते, किन्तु तत्र सावनदिनस्योल्लेखस्तु यत्र तत्र दृश्यते । तैत्तिरीयब्राह्मणे तेषां नामान्यप्युक्तानि दिनानां रात्रीणाञ्च । पूर्वपक्षस्याह्वां नामानि यथा -

‘संज्ञान विज्ञानं प्रज्ञानं जानदभिजानत् । सङ्घल्पमानं प्रकल्पमानमुपकल्पमानमुपक्लुप्तं क्लसम् । श्रेयोवसीय आयत्सम्भूतं भूतम् ।[६६]

पूर्वपक्षस्य रात्रीणां नामानि यथा -

‘दर्शा दृष्टा दर्शना विश्वरूपा सुदर्शना। अप्यायमाना प्यायमाना सुनतेतरा । आपूर्यमाणा पूर्यमाणा पूरयन्ती पूर्णा पौर्णमासी ।[६७]

‘संज्ञानं विज्ञानं दर्शा दृष्टेति पूर्वपक्षस्याहोरात्राणां नामधेयानि इति कथनेन दर्शादिपौर्णमास्यन्तसंज्ञया शुक्लपक्षस्य पूर्वपक्षत्वं सिध्यति । अपरपक्षस्याहोरात्राणां नामानि यथा -

‘प्रष्टुतं विष्टुतं संस्तुतं कल्याणं विश्वरूपम् । शुक्रममृतं तेजस्वि तेजः समृद्धम् । अरुणं भानुमन्मरीचियदनभितपत्तपस्वत् ।'[६८]

‘सुता सुन्वन्ती प्रसुता सूयनामाऽभिषयमाणा। पीतिः प्रपा सम्पा तृप्तिस्तर्पयन्ती । कान्ता काम्या कामजाताऽऽयुष्मती कामदुघा' । इति ।[६९]

अत्रेदमवधेयं यदत्र अमावास्या पौर्णमासी च रात्रिविशेषस्यैव संज्ञा न तु तिथिविशेषस्यैव । शङ्करबालकृष्णो निदिशति यच्चान्द्रमासस्य त्रिंशत्तमभागरूपेण सूर्याचन्द्रमसोद्वदिशांशान्तरभवने यावान्कोलोऽपेक्ष्यते तदर्थे वा तिथिशब्दो न हि वेदेषु प्रयुक्तो दृश्यते । बचब्राह्मणे उक्तम् -

‘या पर्यस्तमियादभ्युदयादिति सा तिथिः । इति ।

अर्थाद्यस्यां चन्द्रमा उदेत्यस्तमेति च सा तिथिरिति । चन्द्रमसो हि उदयादुदयान्तरपर्यन्तमेकसावनदिनात्प्राय एकमुहूर्त मितः कालोऽधिक आवश्यकः । एकस्मिश्चान्द्रमासे एकोनत्रिशन्मितास्त्रिशन्मिता वा सूर्योदया भवन्ति किन्तु चन्द्रोदयास्तु अष्टाविंशतिमिता एकोनत्रिशन्मिता वा । तेन हि चान्द्रमासे उपर्युक्तलक्षणानुसारेण न कदापि त्रिशत्तिथयः सम्भवन्ति । सम्भवत्यनेनैव हेतुना नाऽस्य प्रचारोऽन्यत्र वैदिकसाहित्ये वाऽस्याभिप्राय एव तदितरः । तैत्तिरीयब्राह्मणे‘चन्द्रमा वै पञ्चदशः । एष हि पञ्चदश्यामपक्षीयते । पञ्चदश्यामापूर्यते ।[७०] इति कथने प्रयुक्तेन पञ्चदशीशब्देन प्रतिपदादीनामन्यासामपि तिथीनां गणनायाः सम्भावना दृश्यते तत्र । सामविधानब्राह्मणे कृष्णचतुर्दश्याः ( २५६ ), कृष्णपञ्चम्याः (२५८) शुक्लचतुर्दश्याश्च ( ३।३ ) समुल्लेखो लभ्यते । एतदप्यनुमीयते यत्प्रतिपदादिशब्दा आदौ रात्रिवाचको एवासन पश्चाच्च तिथिनिमित्तं प्रयुक्ता इति । एवमेव वेदेषु अष्टकोशब्दस्य प्रयोगोऽपि दृश्यते । यथा• 'द्वादश पौर्णमास्यः । द्वादशीष्टकाः । द्वादशीमावास्याः ।[७१] ‘पौर्णमास्यष्टकामावास्याः ।'[७२] ‘प्राजापत्यमेतदहर्यदष्टका । पर्वतत्संवत्सरस्य यदष्टका।'[७३]

अत्र हि अष्टकानां द्वादशसङ्ख्यया तस्याश्च पौर्णमास्यनन्तरोल्लेखाच्च कृष्णपक्षाष्टम्य एव सूचिता इत्यनुमीयते । पौर्णमास्यनन्तरमष्टमे दिनेऽष्टका भवतीत्यस्याशय इति । तत्र एकाष्टकानिर्देशोऽपि दुश्यते, या हि सम्भवतः फाल्गुनकृष्णाष्टमी सम्भवति । सा हि नववर्षस्य प्रथमाऽष्टकेति । एवमेव तत्र व्यष्टकाया अपि उल्लेखो दृश्यते । यथा -

‘पौर्णमास्यां पूर्वमहर्भवति व्यष्टकायामुत्तरम् ।

अमावास्यायां पूर्वमहर्भवति उदृष्ट उत्तरम् ॥'[७४]

एवमेव ताण्डयब्राह्मणेऽपि।[७५] फलतः कृष्णप्रतिपदैव व्यष्टको शुक्ला तु उदृष्ट इति । वस्तुतस्तु एकचन्द्रकलावृद्धिक्षयान्यतरावच्छिन्नकालस्तिथिः । तस्याश्चैककलावृद्ध्यवच्छिनत्वे शुक्लत्वं क्षयावच्छिनत्वे कृष्णत्वम् । क्षयश्च तस्या देवपानेन । यथोक्तम् -

'यत्वा देव प्रपिबन्ति तत आप्यायते पुनः ।

वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥'[७६]

‘यमादित्या अंशुमाप्यायन्ति यमक्षितमक्षितयः पिबन्ति ।'[७७] स्पष्टमेतदत्र यदादित्यो हि द्वादशात्मकश्चन्द्रकलां बिभर्ति पूर्णायाञ्च तस्यां पुनराददाति चेति । उक्तमेव तैत्तिरीयसंहितायाम् -

‘सूर्यरश्मिश्चन्द्रमा गन्धर्वः ।[७८] तथैव ऐतरेयब्राह्मणेऽपि -

'चन्द्रमा, अमावास्यायामादित्यमनुप्रविशति:::::::::आदित्याद्वै चन्द्रमा जायते ।'[७९]

शतपथब्राह्मणेऽप्युक्तम्-

‘सोऽमावास्यायां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते ।।[८०]

‘एष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स एवैष एतां रात्रि पुरस्तान पश्चाद्ददृशे तदिमं लोकमागच्छति स इहैवापश्चौषधीय प्रविशति स वै देवानां वस्वन्नं ह्येषा तद्यदेष एता राश्रिमिहामावसति तस्मादमावास्या नान ।'[८१]

अमावास्या हि दर्शः पौर्णमासी तु पर्वः । तत्रापि अनुमतिराकाभेदेन पौर्णमास्या वैविध्यं सिनीवालीकुहुभेदेनामावास्यायाः। यथोक्तं गोपथब्राह्मणे -

‘या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूरिति ।।[८२]

अस्यायमाशयो यत्कलैकहीना अनुमतिः पूर्णे चन्द्रे तु राका दृष्टेन्दुः सिनीवाली नष्टेन्दुः कुहूरिति । ऋग्वेदेऽपि--‘राकामहं सुहवां सुष्टुती हवे शृणोतु नः• ••••'[८३] ‘सरस्वती वृहद्दिवोत राका'[८४] 'तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन'[८५] ‘सिनीवालि पृथुष्टुके या देवानामसि स्वसा'[८६] इति । यो हि राकासिनीवालीशब्दप्रयोगः स च देवपत्नीपरक इति नैरुक्ताः, तिथिविशेषपरक इति याज्ञिकाः।[८७] यद्यपि सूर्याचन्द्रमसोर्गतिविषये वेदेषु नैव किञ्चित्स्पष्टमुक्तं लभ्यते किन्तु दर्शपौर्णमास्योः सन्धौ यजेत सन्धिमभितो यजेत इत्यादिवचनाच्च तद्विषयक ज्ञानं प्रतिभाति । गतिज्ञानं विना पर्वप्रतिपदोः सन्धिज्ञानमपि नैव सम्भवति ।

यद्यपि वासराणां सप्त नामानि वेदेषु नैव दृश्यन्ते तथापि तत्र वासरशब्दः प्रयुक्तो लभ्यते । यथा ऋग्वेदे -

‘आदिप्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् ।। परों यदिध्यते दिवा ।'[८८]

दिनमानमधिकृत्य ऋग्वेदे उक्तं यत्सूर्यो हि दिनस्य दैयँ सम्पादयति । यथोक्तम्‘सोम राजन् प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि'।[८९]

वेदेषु हि विषुवत उल्लेखो यत्र तत्र लभ्यते । विषुवान् हि संवत्सरस्य मध्ये पतति । यथैतरेयब्राह्मणे -

“एकविंशमेतदहरुपयन्ति विषुवन्तं मध्ये संवत्सरस्य' ।[९०]

'यथा वै पुरुष एष विषुवांस्तस्य यथा दक्षिणार्ध एव पूर्वाद्ध विषुवतो यथोत्तरार्द्ध एवमुत्तराद्घ विषुवतस्तस्मादुत्तर इत्याचक्षते प्रबाहुः:::::"शिर एव विषुवान् ।'[९१] यथा वा तैत्तिरीयब्राह्मणे -

'सन्ततिर्वा एते ग्रहाः। यत्परः सामानः । विषुवान् दिवा कीर्त्यः । यथा शालायै पक्षसी । एवं संवत्सरस्य पक्षसी ।'[९२]

यदा हि दिनरात्रिमानस्य साम्यं तदैव विषुवद्दिनभिति तु वेदेषु स्पष्टतया नैवोक्तम् । वस्तुतस्तु संवत्सरस्य हि वासन्तशारदभेदेन द्वौ विषुवन्तौ किन्तु वासन्तविषुवति संवत्सरसारम्भे द्वितीयो हि मध्ये पतति इति विषुवान् मध्ये संवत्सरस्य पततीत्युक्तम् । वैदिकसाहित्ये सूर्योदयादारभ्य सूर्यास्तपर्यन्तमहः पञ्चसु भागेषु विभक्तं दृश्यते । यथा -

उतायातं सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।

दिवानक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ।'[९३]

पूर्वाह्नो वै देवानां मध्यन्दिनो मनुष्याणामपराह्णः पितृणाम् ।'[९४]

ऋग्भिः पूर्वाह्ने दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनाऽस्तमये महीयते । वेदैरशून्यस्त्रिभिरिति सूर्यः ।[९५]

'देवस्य सवितुः प्रातः प्रसवः प्राणः । वरुणस्य सायमासवोपानः । यत्प्रतीचीनं प्रातस्तनात् । प्राचीनं सङ्गवात् । ततो देवा अग्निष्टोमं निरमिमत'"""""" प्राचीनं मध्यन्दिनात्:::••••"यत्प्रतीचीनं मध्यन्दिनात्प्राचीनमपराहात । भगस्यापराह्नः ।••••। तस्मादपराह्ण कुमार्यों भगमिच्छमानाश्चरन्ति ।'••••• प्राचीनं सायात् ।[९६]

इत्थं हि दिवसस्य प्रातः-सङ्गव-मध्याह्न-अपराह्म-सायंभेदात् पञ्च भागास्तत्र तत्र निर्दिष्टाः । प्रयोजनानुसारं यत्र तत्र दिवसस्य त्रयो विभागाश्चत्वारो वाऽपि कृता अपि दृश्यन्ते । पश्चावतधार्मिकसाहित्येषु तु यथा दक्षस्मृत्यादौ दिवसो ह्यष्टधा विभाजितो दृश्यते । मूलतस्तु दिवसस्य चत्वार एव भागाः पूर्वाह्नमध्याह्नापराह्न-सायाह्नभेदात् । प्रकरणेऽस्मिन् सूर्यस्योदयास्तमयाववच्छिन्नः काल एव दिवसः । तदुदयात्प्राक्प्रातःकालः । यथाकालं कृत्यान्यपि विभक्तानि सन्ति; यथा प्रातहमादिकर्म पूर्वाह्न देवपूजनादिकं मध्याह्न, पितृकर्म अपराह्ने, भोजनादि सायाह्न सायन्तनकृत्यानीति । दिनमानस्य त्रिंशत्तमो भागो मुहूर्तः । मुहूर्तविषयेऽपि वैदिकसाहित्ये तत्र तत्र चिन्तितं दृश्यते । यथा हि -

'रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।

प्र सिन्धुमच्छा बृहती मनीषावस्युरले कुशिकस्य सूनुः ।'[९७]

‘त्रिर्यद्दिवः परि मुहूर्तमागात् ।[९८]

“अथ यच्चतुर्विंशतिमात्मनोऽकुरुते । तस्माच्चतुर्विशत्यर्द्धमासः । संवत्सरः स एतैश्चतुर्विशत्या त्रिशदिष्टकरात्मभिन्नं व्यभवत् स पञ्चदशाहन्नो रूपाण्यपश्यदात्मनस्तन्वो मुहूतल्लोकम्पृणाः पञ्चदशैव रात्रेस्तचन्मुहुः जायन्ते तस्मान्मुहुर्ताः । अथ यत् क्षुद्राः सन्त इमल्लोकानापूरयन्ति तस्माल्लोकम्पृणाः । [९९]

‘स मुहूर्तेन मुहूर्तेनैवाशीतिमाप्नोन्मुहूर्तेन मुहूर्तेनाशीतिः समयद्यत ।'[१००]

••••••••तदनु पञ्चदश मुहूर्तान्मुहूर्ताननु पञ्चदशाशीतिः ।[१०१]

‘अथ या लोकम्पृणा मुहूर्तलोकास्ता मुहूर्तानामेव साप्तिः क्रियते मुहूर्तानां प्रतिमा ता दश च सहस्राण्यष्टौ च शतानि भवन्त्येतावन्तो हि संवत्सरस्य मुहूर्ताः' ।[१०२]

(अहोरात्रस्य त्रिशन्मुहूर्तास्तेषां ३६० सङ्ख्यया गुणने १०८०० मिता सङ्ख्यया भवति)।

तैत्तितीयब्राह्मणे मुहूर्तानां नामान्यप्युक्तानि । यथा -

'चित्तं केतुर्दाता प्रदाता सविता प्रसविताऽमिशास्तानुमन्तेति । एष एव तेह्रो मुहूर्ताः । एष रात्रेः ।[१०३]

चित्रः केतुः प्रभानाभान्त्सम्मान् । ज्योतिष्मांस्तेजस्वानातपस्तपन्निमित्तयन् । रोचनो रोचमानः शोभनः शोभमानः कल्याणः ।'[१०४]

एवमेव तत्र प्रतिमुहूर्तानामप्युल्लेखो लभ्यते वेदेषु । यथा - 'अथ यदाह इदानीं तदानीमिति एष एव तत् । एष एव ते मुहूर्तानां मुहूर्ताः।[१०५]

‘इदानीं तंदानीमेतह क्षिप्रमजिरम् । आशुनिमेषः क्षणो द्रवन्नतिद्रवन् । त्वरंस्त्वरमाण आशुरशीयान् जवः ।[१०६]

इत्थं हि वेदेषु युगसंवत्सरमासार्द्धमासाहोरात्रमुहूर्तप्रतिमुहूर्तादिभेदेन समयो विभक्तो दृश्यते ।

नक्षत्रविषये[सम्पादयतु]

ऋग्वेदे तदनन्तरवतवैदिकसाहित्ये च तारार्थे नक्षत्रविशेषार्थे च नक्षत्रशब्दो बहुधा प्रयुक्तो दृश्यते । तत्र ऋग्वेदे यथा -

'अपत्ये तायवो यथा नक्षत्र यन्त्यकुमिः''••••"सूराय विश्वचक्षसे ।'[१०७]

"धीरात्वस्य महिना जनूंषि विपस्तस्तम्भ रोदसी चिदुर्वी । प्र नाकमुष्वं नुनुदे बृतं द्विता नक्षत्रं पप्रथञ्च भूम।[१०८]

'अभियावं न कृशनेमिरश्वं नक्षत्रेभिः पितरो द्यामपिशन् ।

राश्यां तमो अदभुतिरहनु बृहस्पतिननदद्रि विददगाः ।'[१०९]

'सोनेनादित्या बलिनः सोमेन पृथिवी मही।

अयो बक्षत्राणामेषामुपस्थे सोम आहितः।।[११०]

काममनन्तरवर्तिमन्त्रेषु नक्षत्रशब्दस्तारासामान्यमेव अनपेकिन्तु प्रकृते तु स्पष्टमेव चान्द्रनक्षत्रमभिसूचितमेव । एवमेव तिव्यस्थौल्लेखों यथा-

‘युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः ।

न यो युच्छति तिष्यो यथा दिवो स्मेरारन्त मरुतः सहस्रिणम् ।।'[१११]

••••••"कृशानुमस्तून् तिष्यं सधस्य'''''''''[११२]

चित्राया उल्लेखो यथा--

‘अस्थुरु चित्रा उषसः पुरस्तात् ।'[११३] एवमेव हि -

‘सूर्याया वहतुः प्रागात् सविता यमवासृजत् ।'

अघासु हुन्यन्ते गावोऽर्जुन्योः पर्युह्यते ।'[११४]

स्पष्टमेव मघानक्षत्रे हि गावो नीयन्ते फाल्गुन्योः परिणीयते कन्येति । सैव यथाऽथर्ववेदे -

‘मघासु हन्यन्ते गावः फल्गुनीषु व्यूह्यते।[११५] वाजसनेयीये यथा -

‘द्यौस्ते पृथिव्यन्तरिक्षं वायुश्छिद्रं पृणातु ते ।

सूर्यस्ते नक्षत्रैः सह लोक कृणोतु साधु या ॥'[११६]

'सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्राय स्वाहा''।'[११७] 'नक्षत्रेभ्य किमिरं चन्द्रमसे किलालं"।[११८]

लुडविगत्सिमरप्रभृतयो विपश्चितः 'चतुस्त्रिशद्वाजिनो देवबन्धोः'[११९] इत्यत्र चतुस्त्रिशदिति सप्तग्रहैः सप्तविंशतिनक्षत्रैश्चेति व्याख्यान्ति । तस्य च चतुस्त्रिशता पुरुधा विचष्टे सरूपेण ज्योतिषा विव्रतेन[१२०] इति कथनेन भवति पुष्टिश्च । माध्यन्दिनीये स्पष्टमेव चन्द्रमसो नक्षत्रैः सहु सम्बन्धोऽभिहितः । यथोक्तम् -

‘सुषुम्णः सूर्यरश्मिश्चन्द्रमागन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम ।'[१२१] तत्रैव - ••••वातो वा मनो वा गन्धर्वाः सप्तविंशतिः•••'[१२२] इति नक्षत्राणां सङ्ख्याऽपि निर्दिष्टाऽस्ति । शतपथब्राह्मणे नक्षत्रचन्द्रमसोः सम्बन्धमधिकृत्योक्तम् -

‘अब्धं पुरीषम् । चन्द्रमा आहुतयो नक्षत्राणि समिधो यच्चन्द्रमा नक्षत्रे वसत्याहुतिस्तत्समिधि वसत्येतदु वा आहुतेरन्नमेषा प्रतिष्ठा तस्मादाहुतिर्न क्षीयत एतद्धयस्या अन्नमेषां प्रतिष्ठा::'।[१२३]

एवमेव तत्र नक्षत्राणां सङ्ख्या सप्तविंशतिरुक्तोपनक्षत्राणाञ्च यथा -

'नक्षत्राणि ह त्वेवैषोऽग्निश्चितः । तानिः वा. एतानि सप्तविंशतिनक्षत्राणि सप्तविंशतिः सप्तविंशतिपनक्षत्राणि एकैकं नक्षत्रमनूपतिष्ठन्ते तानि च सप्त च। शतानि विंशतिश्चाधिषत्रिंशत्ततो यानि सप्त च शतानि च विंशतिश्चेष्टका एव ताः षष्टिश्च त्रीणि च शतानि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्योऽथ यान्यधिषत्रिशत्स त्रयोदशो मासः स आत्मा त्रिशदात्मा प्रतिष्ठा द्वे प्राणाः द्वे शिर एव षत्रिंश्यौ...।[१२४]

एवमेव तैत्तिरीयसंहितायामपि नक्षत्राणि सप्तविंशतिरेवोक्तानि।[१२५] किन्तु अन्यत्राष्टाविंशतिरपि।[१२६] तैत्तिरीये ब्राह्मणे अष्टाविंशतितमत्वेनाभिजित उल्लेखोऽपि दृश्यते । तैत्तिरीयसंहितायां नक्षत्रतारकाणां भेदः स्पष्टतयोल्लिखितः । यथा -

अश्वस्य मेध्यस्य शिरः सूर्यः चक्षुर्वतिः प्राणश्चन्द्रमाः श्रोत्रं दिशः प्राणा अवान्तरदिशः पशवोऽहोरात्रे निमेषोऽर्धमासाः पर्वाणि मासाः सन्धानान्पृतवोऽङ्गानि संवत्सर आत्मा रश्मयः केशा नक्षत्राणि रूपं तारका अस्थीनि नमो मासानि::::।।

इत्थं हि वेदेषु नक्षत्रविषये बहूक्तमस्ति । तत्रैकत्रनक्षत्राणि सूर्यसम्बन्धतश्चन्द्रसम्बन्धतः स्वतन्त्रतया, च वणतानि दृश्यन्ते । सूर्यसम्बद्धत्वेन नक्षत्रशब्दः कामं तारासामान्यमर्थ बोधयतु नाम किन्तु चन्द्रसम्बद्धनक्षत्रं तु निश्वयमेव साम्प्रतिकमेवार्थ बोधयतीति ‘मेध्यस्याश्वस्य:"नक्षत्राणि रूपं तारका अस्थीनि"।' इति ( तै० सं० ) वचनादेव सिध्यति । तेषां तत्र सङ्ख्याक्वचित्सप्तविंशतिरन्यत्राष्टाविंशतिरप्युक्ताः क्वचित्तु त्रयस्त्रिंशदपि । तेषामष्टाविंशतिविधत्वं तु अभिजितमादायैव । अभिजिद्धि नक्षत्रान्तरापेक्षयाऽनुज्ज्वलमत एवं स्वल्पप्रभावमिति तत्र तत्रोपेक्षितमपिं सम्भवति । सूर्यो हि एकस्मिन्नक्षत्रे १३३ दिनानि यावत्तिष्ठतीति नक्षत्रापेक्षया सौरवर्षे ( १३ १/३ * २७ = ३६० ) षष्टिश्च त्रिशतं दिनानि भवन्ति । यद्धि सावनवर्षेण सह संवादि । शतपथब्राह्मणे अग्निचयनप्रक्रियाय नक्षत्रसङ्ख्यया इष्टकायोजनमुक्तम्।[१२७] तत्र ७५६ सङ्ख्याऽभीष्टा । सा च सप्तविंशतिनक्षत्राणि सप्तविंशति उपनक्षत्राणि सप्तविंशत्याः सप्तविंशत्या गुणने (२७X२७ ) ७२९ सङ्ख्या भवति तत्र नवोने ( सम्भवति नवानां हि नक्षत्राणामुपनक्षत्राणामत्थाप्रभावित्वं तेनेयमूनीकरणव्यवस्था ) ७२० सङ्ख्या भवति तत्र अधिमासस्य षत्रिशद्दिनयोजने पूरिता भवति।

न केवलं नक्षत्रविषये एवापिनु उपनक्षत्रविषयेऽपि तत्र प्रतिपादितं दृश्यते । शतपथब्राह्मणे उक्तं यत्प्रतिनक्षत्रमेकैकमुपनक्षत्रमनूषतिष्ठते।[१२८] कृत्तिका-मधा-आश्लेषानुराधा-ऽषाढ़ा-विष्ठा-प्रोष्ठपद-अपभरणीनां - - बहुवचने ' पुनर्वसु-फल्गुनी-विशाखाऽश्वयु-शब्दानां -दिवले प्रयोगश्च तत्तभक्षत्राणामुपनक्षत्रस्यावस्थित सूचयन्ति । तैत्तिरीयसंहितायां[१२९] कृत्तिकासु यानि सस उपनक्षत्राणि तेषां नामान्यपि निर्दिष्टानि अम्बा दुला नितत्नी अभयन्ती मेघयन्ती वर्धयन्ती चुपुणीका चेति । तैत्तिरीयब्राह्मणे[१३०] नक्षत्राणि द्विधा विभक्तानि देवनक्षत्राणि यमनक्षत्राणि । कृत्तिकातों विशाखापर्यन्तानि देवनक्षत्राणि अनुराधातोऽपभरणीपर्यन्तानि यमनक्षत्राणि ।

विषयेऽपि तत्र निदिष्टं लभ्यते । शतपथब्राह्मणे उक्तं यत्कृत्तिकाः प्राच्या दिशो ने च्यवन्ते नक्षत्रान्तराणि तु च्यवन्ते एवेति । यथोक्तम् -

कृतिकास्वग्नीऽआदधीत । एता वाऽअग्निनक्षत्रं यत्कृत्तिकाः••• ॥ १ ॥ एता ह वै प्राच्यै दिशो न च्यवन्ते । सर्वाणि ह वाऽन्यानि नक्षत्राणि प्रा दिशश्च्यवन्ते" ।'[१३१]

वैदिकसाहित्ये नक्षत्राणां देवताः अपि निर्दिष्टाः सन्ति । यथोक्तं तैत्तिरीयसंहितायाम् -

कृत्तिकानक्षत्रमग्निदेवताग्नेरुचस्थ प्रजायतेधीतुः सोमस्यचें त्वा रूचे त्वा से खा ज्योतिषे त्वा रोहिणीनक्षत्रं प्रजापतिर्देवता मृगशीर्ष नक्षत्रं सोमो देवतादनिक्षत्र रुद्रो देवता पुनर्वसनक्षत्रमदितिर्देवता तिष्यो नक्षत्रं वृहस्पतिदेवताश्लेषा नक्षत्रं सर्प देवता. मघा नक्षत्रं पितरो देवता फल्गुनी नक्षत्रमर्यमा देवतां फल्गुनी नक्षत्रं भगो देवता हस्त नक्षत्रं सवितादेवता चित्रानक्षत्रमिन्द्रो देवता स्वाती नक्षत्रं वायुर्देवता विशाखे नक्षत्रमिन्द्राग्नीदेवतानुराधा नक्षत्र मित्रो देवता रोहिणी नक्षत्रमिन्द्रो देवता विवृत्तौ नक्षत्रं पितरो देवताषाढानक्षत्रमापो देवताषाढा नक्षत्रं विश्वेदेवा देवता श्रीणी नक्षत्रं विष्णुर्देवता श्रविष्ठा नक्षत्रं वसवो देवता शतभिषनक्षत्रमिन्द्रो देवता प्रोष्ठपदानक्षत्रमज एकपाद्देवता प्रोष्ठपदा नक्षत्रमहिर्बुध्नियो देवता रेवती नक्षत्र पूषा देवताऽश्वयुजौ नक्षत्रमश्विनौ देवतापभरणीनक्षत्रं यमो देवता पूर्णापश्चाद्यन्ते देवा अदधुः ।[१३२]

एवमेव तैत्तिरीयब्राह्मणे - 'अग्ने कृत्तिकाः । शुक्र परस्ताज्ज्योतिरवस्तात् । प्रजायते रोहिणी । आपः • परंस्तादोषधयोधस्तात् । सोमस्येन्वका विततानि । परस्तात् वयन्तोवस्तात् । रुद्रस्थ बाहू । मृगयवः परस्ताद्विसारोऽवस्तात् । आदित्यै पुनर्वसू । वातः परदाद्वैमवस्तात् । वृहस्पतेस्तिण्यः । जुह्वतः परस्ताद्यजमाना अवस्तात् । सपणामश्रेषाः । अभ्यागच्छन्तः परस्ताभ्यानृत्यन्तोवस्तात् । पितृणां मघाः । रुदन्तः परस्तादपभ्रंशोवस्तात् ।। अर्यम्णः पूर्वं फल्गुनी । जाया परस्तादृषभोवस्तात् । भगस्योत्तरे। वहतवः परस्ताद्वह्माना अवस्तात् । देवस्य सवितुर्हस्तः । प्रसवः परस्तात्सनिरवस्तात् । ईन्द्रस्य चित्रा । ऋतं परस्तीत्सत्सर्यमवस्तात् । वायोनिष्ट्या व्रततिः । परस्तादसिद्धिरवस्तात् । इन्द्राग्नि योविशाखे । युगानि परस्तात् कृषमाणा अवस्तात् । मित्रस्यानुराधाः । अभ्यारोहपरस्तादम्यारूढमवस्तात् । इन्द्रस्य रोहिणी । शृणत्परस्तात्प्रतिशृणदवस्तात् । निऋत्यै मूलबर्हणी । प्रतिमज्जन्तः परस्तात्प्रतिशृणन्तोवस्तात् । अपां पूर्वा अषाढाः । वचः परस्तात्समितिरवस्तात् । विश्वेषां देवीनामुत्तराः । अभिजयत्परस्तादभिजितमवस्तात् । विष्णोः श्रोणी । पृच्छमानाः परस्तात्पन्थी अवस्तात् । वसूनां श्रविष्ठाः । भूतं परस्ताभूतिरवस्तात् । इन्द्रस्य शतभिषक् । विश्वव्यचाः परस्ताद्विश्वक्षितिरवस्तात् । अजस्यैकपदः पूर्वे प्रोष्ठपदाः । वैश्वानरं परस्ताद्वैश्वावसवमवस्तात् । अहेर्बुध्नियस्योत्तरे । अभिषिञ्चन्तः परस्तादभिशृण्वन्तोवस्तात् । पूष्णो रेवती गावः परस्तात् वत्सा अवस्तात् । अश्विनोश्वयुजौ। ग्रामः परस्तात्सेनावस्तात् । यमस्यापभरणीः । अपकर्षन्तः परस्तादपवहन्तोवस्तात् । पूर्णा पश्चाद्यत्ते देका अदधुः ।[१३३]

यद्यपि नक्षत्रमादाय माससंज्ञाऽपि वैदिकसाहित्ये प्रवर्तताऽऽसीदेव यथा वैशाखः ( शत० ११॥१॥७ ), फाल्गुनः ( पञ्च० ५।९।८ ), चैत्रः ( कौषी० १९५३ ), तैष्यः ( कौषी० १९५३ ), माघः ( शत० १३१८,१५४ ) इत्यादि तथाऽपि नास्य सार्वत्रिकः प्रयोगो लभ्यते तत्र तत्र ।

वैदिकसाहित्ये रार्धत्र नक्षत्रगणना कृत्तिकात एव कृता दृश्यते । एतेनानुमीयते यत्तदा ( विशेषतो ब्राह्मणग्रन्थसम्पादनकाले ) वसन्तसङ्क्रान्तिस्तदैव सम्पद्यते स्म यदा हि सूर्योऽपभरणीतः कृत्तिकाः प्रविशति स्म । वराहमिहिरयुगे सा सूर्यस्य रेवतीतोऽश्विनीप्रवेशे एव । सम्प्रति तु सा सूर्ये पूर्वभाद्रपदायां प्रविष्टे सति भवति । ब्राह्मणयुगतः पूर्वं सा सूर्ये मृगशिरसि प्रविष्टे भवति स्म । तेन हि वैदिकसंहिताकालस्य नक्षत्रसूची मृगशिरस्तः ब्राह्मणयुगीननक्षत्रसूची कृत्तिकातः वराहमिहिरयुगीननक्षत्रसूची अश्विनीतः प्रारब्धा दृश्यते । साम्प्रतिकनक्षत्रसूची तु पूर्वाभाद्रपदातः प्रारभते यद्धि गणकैरवधेयम् । सम्प्रत्यपि याऽश्विन्यादिसूची प्रस्तूयते नक्षत्राणां सा गतानुगतिकत्वेनैव गणकानाम् । तत्राप्ययनांशसमावेशे तु धनिष्ठात एव सा सिध्यति । वेबरमहोदयो निदिशति यत्कृत्तिकायां वसन्तसङ्क्रान्त्या घटनं विक्रमतस्तृतीयसहस्राब्दीपूर्वमभितः सम्भवतीति । तिलकमहोदयानुसारं तु विक्रमतः ६०००-४००० वर्षपूर्वं शीतसङ्क्रान्तिश्चैत्रपूणिमायामासीत् ४०००-२५०० वर्षपूर्वं फाल्गुनपौर्णमास्यामेव । तैत्तिरीयसंहिताकाले २३२५ वर्षपूर्वं तु माघपूणिमायाम् । ( सम्प्रति तु सा मौषपूणिमामभितः पतति यथा २०४६ वैक्रमाब्दे सा माघकृष्णचतुर्थां घटिताऽस्ति ।) कौषीतकीब्राह्मणे ( १९।२।३ ): शीतसङ्क्रान्त्या माघस्यामावास्यां घटनमुक्तम् । शतपथब्राह्मणे तु स्पष्टमेवोक्तम् -

तद्वै वसन्त एवाभ्यारभेत । वसन्तो वै ब्राह्मणस्यर्तुर्य उ वैकश्च यजते ब्राह्मणाभूयेवैव यजते तस्माद्वसन्त एवाभ्यारभेत । सा याऽसौ फाल्गुनी पौर्णमासी भवति ।[१३४]

तैत्तिरीयसंहितायां तु ( ७॥४॥८।१ ) पञ्चविंशब्राह्मणे ( ५।९ ) च वर्षारम्भत्वेन चैत्रपूर्णिमा स्मृता । गृह्यसूत्रादौ महाभारते च नक्षत्राणां गणना श्रवणादितः कृताऽस्ति वर्षारम्भश्च वृश्चिकसङ्क्रान्तितो यतो हि मार्ग आग्रहायणः । नक्षत्रशब्दस्य व्युत्पत्तिमादाय शतपथब्राह्मणे उक्तं यद् न क्षीयत इति तन्नक्षत्रमिति । तैत्तिरीयब्राह्मणे तु नक्षत्राणि अभूवन्निति तदेव नक्षत्रत्वम् इति ( २।७।१८।३ )। एवमेव शतपथब्राह्मणेऽपि–यानि वैतानि क्षत्त्राण्यभूवन्न वैतानि क्षत्त्राण्यभूवन्निति । तद्वै नक्षत्राणां नक्षत्रत्वम् । (१।२।२।१९) । पुनश्च तैत्तिरीये ब्राह्मणे-'यो ह वा इह यजते अमुं स लोकं नक्षते । तन्नक्षत्राणां नक्षत्रत्वम् । ( १।५।२।५ ) । गोपथब्राह्मणे यथा-'तन्नक्षत्राणां नक्षत्रत्वं यन्नक्षियन्ति' ( ३।१।८ )। एवमेव-‘नक्षत्राणि वै जनयो ये हि जनाः पुण्यकृतः स्वर्ग लोकं यन्ति तेषामेतानि ज्योतींषि ।'[१३५]

'देवगृहा वै नक्षत्राणि ।'[१३६] ‘यानि वा पृथिव्याश्चित्राणि तानि नक्षत्राणि ।'[१३७] 'यथैवासौ सूर्य एव तेषामेवोद्यन्नेव वीर्यं क्षत्रमादत्त ।[१३८] 'सप्तविंशतिर्नक्षत्राणि ।'[१३९]

तानि वा एतानि सप्तविंशतिर्नक्षत्राणि सप्तविंशतिः सप्तविंशतिपनक्षत्राणि एकैकं नक्षत्रमनुपतिष्ठन्ते ।

ब्राह्मणे वा अष्टाविंशो नक्षत्राणाम् ।'[१४०] ' 'यावन्त्येतानि नक्षत्राणि तावन्तो लोमगर्ता यावन्तो लोमगर्ता तावन्तः । सहस्रसंवत्सरस्य मुहूर्ताः ।'[१४१] ‘कृत्तिकाः प्रथमम् । विशाखे उत्तमम् । तानि देवनक्षत्राणि ।[१४२] 'यानि देवनक्षत्राणि तानि दक्षिणेन परि यन्ति ।'[१४३] ‘एक द्वे त्रीणि चत्वारीति वा अन्यानि नक्षत्राणि अर्थता एव भूयिष्ठा यत्कृत्तिकाः ।[१४४] ‘अनुराधाः प्रथमम् । अपभरणीरुत्तमम् । तानि यमनक्षत्राणि ।'[१४५] ‘तस्मात् सोमो राजा सर्वाणि नक्षत्राण्युपैति ।(शत०) ‘नक्षत्राणि संवत्सरस्य प्रतिष्ठाः ।'[१४६] ‘नक्षत्राणि वा एषा दिग् यदुदीची ।'(शत०)

वेदेषु या नक्षत्रसूची प्रदत्ता साऽत्र यथावदुध्रियते -

सङ्ख्या तैत्तिरीयसंहितायाम् मैत्रायणीसंहितायाम् काठकसंहितायाम् अथर्वसंहितायाम् तैत्तिरीयब्राह्मणे
1 कृत्तिकाः कृत्तिकाः कृत्तिकाः कृत्तिकाः कृत्तिकाः
2 रोहिणी रोहिणी रोहिणी रोहिणी रोहिणी
3 मृगशीर्षम् इन्वगा इन्वका मृगशिरस् इन्वका
4 आर्द्रा बाहुः बाहुः आर्द्रा बाहू
5 पुनर्वसू पुनर्वसुः पुनर्वसुः पुनर्वसुः पुनर्वसुः
6 तिष्यः तिष्यः तिष्यः पुष्यः तिष्यः
7 आश्लेषाः आश्लेषाः आश्लेषाः आश्लेषाः आश्लेषाः
8 मघाः मघाः मघाः मघाः मघाः
9 फल्गुन्यौ फल्गुन्यः फल्गुन्यः पूर्वे फल्गुन्यौ पूर्वे फाल्गुन्यौ
10 फल्गुन्यो फल्गुन्यः उत्तराः फ० - उत्तरे .,,
11 हस्तः हस्तः हस्तौ चित्राहस्तः हस्तः
12 चित्रा चित्रा चित्रा चित्रा चित्रा
13 स्वातिः निष्टयम् निष्टया स्वातिः निष्ट्या
14 विशाखे विशाखम् विशाखा विशाखा विशाखे
15 अनुराधाः अनुराधाः अनुराधाः अनुराधाः अनुराधाः
16 रोहिणी ज्येष्ठा ज्योष्ठा ज्येष्ठा रोहिणी
17 विवृतौ मूलम् मूलः मूलः मूलबहिणी
18 अषाढाः अषाढाः अषाढाः पूर्वाषाढे पूर्वाषाढा
19 अषाढाः अषाढाः अषाढाः उत्तराषाढे उत्तराषाढा
20 --- अभिजित् अभिजित् अभिजित् ---
21 श्रोणा श्रोणः अश्वत्थः श्रवणम् श्रोणा
22 श्रविष्ठाः श्रविष्ठाः श्रविष्ठाः श्रविष्ठाः श्रविष्ठाः
23 शतभिषज् शतभिषज् शतभिषज् शतभिषज शतभिषज्
24 प्रोष्ठपदाः प्रोष्ठपदाः प्रोष्ठपदाः पूर्वाप्रोष्ठपदा पूर्वप्रौष्ठपदे
25 प्रोष्ठपदाः प्रोष्ठपदाः प्रोष्ठपदाः उत्तराप्रोष्ठपदाः उत्तरप्रौष्ठपदे
26 रेवती रेवती रेवती रेवती रेवती
27 अश्वयुजौ अश्वयुजौ अश्वयुजौ अश्वयुजौ अश्वयुजौ
28 अपभरण्यः भरण्यः अपभरण्यः भरण्यः अपभरण्यः

वेदेषु नक्षत्राणि शुभाशुभफलवत्त्वेनोपवणतानि तु सन्त्येव तथैव तेषां देवयमनक्षत्ररूपेण विभागोऽपि दृश्यते । एवमेव तेषां सिद्धयसिद्धिकारकत्वेनापि प्रस्तुतिस्तत्र लभ्यते । यथा हि कृत्तिकास्वादधीत अर्जुन्योः पर्युह्यते इत्यादि । तिथिवाचकत्वेन नक्षत्रस्योपयोगोऽपि तत्र दृष्टः किन्तु प्रथेयं द्वादशनक्षश्रेष्वेव यथा मघायुक्तत्वेन माघी पौर्णमासी । एवमेव फाल्गुनी-चित्रा-विशाखा-ज्येष्ठाअषाढा-श्रवण-भाद्रपदा-अश्विनी-कृत्तिका-मृगशिरः-पुष्यैश्च योगे तत्तत्पौर्णमासी । तत्र हि नक्षत्राणां न केवलं चन्द्रमसाऽपि तु सूर्येण सहाऽपि सम्बन्धो दशितो लभ्यते यथा हि सूर्ये रोहिणीतो मृगशिरसि प्रविष्टे वसन्तसङ्क्रान्तिरित्यादि संहिताकाले . भरणीत: कृत्तिकां प्राप्ते सति ब्राह्मणकाले । नक्षत्राणां स्वातन्त्र्येणापि प्रयोगस्तत्र दृष्टः । यथा कृत्तिकास्वादधीतेत्यादि । तेषां चान्द्रत्वेन प्रयोगोऽपि यथा चन्द्रमा वै यस्मिन् नक्षत्रे वसतीत्यादि । नैतावन्मात्रमपि तु तेषां नामान्यपि अन्वर्थानि दृश्यन्ते येन तात्कालिकप्रतिभोत्कर्षों ध्वन्यते । यथा ( सप्त उपनक्षत्रैः ) कतितेवेति कृत्तिका । अन्यापेक्षया रोहितवर्णेन रोहिणी । मृगस्येव शिरो यस्येति मृगशिराः । आर्द्रवददृश्यते इति आर्द्रा ज्योतिराधिक्येन ताराद्वययोगाद् बाहुरपि । पुनर्वसुः प्रणष्टमपि तेजो यत्पुनरानयति यथा शतपथे‘पुनर्वस्वोः पुनराधेयमादधींतेति'।[१४७]

नक्षत्रदेवताः[सम्पादयतु]

एवमेव वृहस्पतिहि पुनर्वसौ हुत्वा प्रणष्टं तेजः पुनराप्तवानिति अन्वर्थसंज्ञाऽस्य । पुष्णात्यसाविति पुष्यः तिष्णाति वा तिष्यः । आश्लिष्टा इव स्थितेर्नक्षत्राणामांश्लेषा । अनघा इति मघा पापनाशिनी । शुभ्रवर्णत्वेन अर्जुनी फल्गुनीयतेऽनेनेति फल्गुनी । चित्रत्वेन चित्रा। सुष्ठु अतति द्योतत इति स्वाती। विशिष्टा शाखा यस्य विशाखा उभयोरेव समानरूपकृतित्वात् । अनुराध्नोति एषेति अनुराधा शुभावहा । सर्वाधिक ज्योतिष्ट्वेन ज्येष्ठा रोहितत्वाद्रोहिणी पुराणसंवत्सरसमापनं यत्रेति ज्येष्ठघ्नी प्रथमनक्षत्रत्वेन स्मृतत्वादपि ज्येष्ठा । कथ्यते हि पुरा काले सूर्य ज्येष्ठायां प्राप्ते वसन्तसङ्क्रान्तिर्घटति स्म याऽधुना अश्विन्यां प्राप्ते घटति परम्परानुसारेण पूर्वभाद्रपदायां प्राप्ते घटति वस्तुतः सायनत्वे तु धनिष्ठायां प्राप्ते एव घटति । न षाढा अषाढा । अभितो जयति सर्वोत्कृष्टत्वेन वर्तत इत्यभिजित्।[१४८] श्रवणवदाकृतिः श्रवणम् । हीरकवज्ज्योतिर्मयत्वाद् धनिष्ठा । शतानामसङ्ख्यरोगाणां भिषक् शामकः शतभिषा शतभिषग्वा । भद्रमेव भाद्र पदं यस्या भाद्रपदा प्रोष्ठं पदं यस्याः प्रोष्ठपदा वा । रैयुक्ता रेवती धनसाधिका । अश्वाभ्यां युक्तेव अश्वयुजी । विभत्र्येषति भरणीः अपबिभर्तीति अपभरणी वा । एतेषां हि देवतालिङ्गवचनान्यपि सार्थकानि दृश्यते । यथा -

कृत्तिकानां तेजोमयत्वादग्निर्देवता आह्लादकत्वात् स्त्रीत्वं द्वयधिकतारकयुक्तत्वाबहुत्वम् । एवमेव प्रजापतिसोमसोमरुद्ररुद्रादितिवृहस्पतिसर्पपित्रर्यमार्यमभगभगसवितृ-इन्द्रादि-वायुरिद्राग्नि- मित्रेन्द्रपितृनिऋतिनिऋतिप्रजापति-अप-अप्-विश्वदेवविश्वदेवब्रह्मविष्णुवसु- इन्द्रवरुण-अजैकपादजैकपादहिर्बुध्नाहिर्बुध्नपूषाश्वियमाः क्रमेण नक्षत्राणां देवताः । तत्र ईकार-आकारान्तानि यानि अश्वयुक्च स्त्रियाम् । मृगशीर्षमूलाभिजिम्नक्षत्राणि क्लीबे शेषाणि पुंसीति । कृत्तिकाइन्वका-आश्लेषा-मघा-अनुराधा-अषाढा-धनिष्ठा-प्रोष्ठपदभरणीनां बहुत्वमाफल्गुनी-विशाखाश्वयुजां द्वित्वमन्येषामेकत्वम् । वेदेषु हि नक्षत्रातिरिक्तमन्येषामपि तारकाणामुल्लेखो दृश्यते । यथा - ‘अमी हि ऋक्षा निहितास उच्च नक्तन्दहशे कुहचिद्दिवेषु ।[१४९] ‘सप्तर्षीन् ह स्म वै पुरर्धा इत्याचक्षते ।'[१५०] ‘ऊध्र्वं सप्तर्षीनुपतिष्ठस्व ।[१५१]

एवमन्यान्यपि वाक्यानि तारकान्तरास्तित्वसूचकानि तत्र तत्र सन्ति । यथा ऋग्वेदे -

‘यौ ते स्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षौ नृचक्षसौ ।'[१५२]

'दैवीं नावं स्वरित्रा।[१५३]

ग्रहणविषयमधिकृत्यापि वेदेषु यत्र तत्र परिचर्या दृश्यते । यथा हि -

‘यत्वा सूर्य स्वर्भानुस्तमसा विध्यदासुरः ।

अक्षेत्रविद्यया मुग्धो भुवनान्यदीधयुः ।।

स्वभानोरध यदिन्द्रमाया अवो दिवो वर्तमान अवाहन् ।

गूलहं सूर्य तमसापव्रतेन तुरीयेण ब्रह्मणाऽविन्ददत्रिः ।।

मा मामिमं तव सन्तमत्र इरस्या दुग्धो मियसा निगारीत् ।

त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ।।

ग्रान्णो ब्रह्मा युयुजानः सपर्ययन् कीरिणी देवान्नमसोपशिक्षन् ।

अत्रिः सूर्यस्य दिवि चक्षुरागात्स्वर्भानोंरेप माया अधुक्षत् ।।

यं वै सूर्यं स्वर्भानुस्तमसाऽविध्यदासुरः ।

अत्र यस्तमन्वविन्दन्न ह्यन्ये अशक्नुवन् ।।'[१५४]

अत्र हि सूर्यस्य राहुणाऽऽच्छादनमुक्तम् । तस्य चात्रिणी प्रकाशनं जनेषु । चन्द्रमा हि अत्रेनेंत्रसमुत्थत्वेन स्मर्यते 'अथ नयनसमुत्थं ज्योतिरत्रेरिव चौः इत्यादौ । तेन हि ‘अत्रिः सूर्यस्य दिवि चक्षुरागात् स्वर्भानोरप माया अधुक्षत् इति कथनेन चन्द्रपातस्य द्वितीयस्य सङ्केतोऽत्र लभ्यते । पश्चाद्वर्तिशास्त्रेषु राहुकेतुशब्दो पर्यायत्वेन निविशेषमपि प्रयुक्तौ दृश्येते । अत्र हि खग्राससूर्यग्रहणस्य प्रसङ्गो दृश्यते यद्धि यदाकदैव घटते । सूर्यग्रहणं ह्यमावास्यायामेव भवति । ऐतरेयब्राह्मणे हि अमावास्यायां चन्द्रः सूर्यं प्रविशतीत्युक्तमपि दृश्यते । तेन हि सूर्यग्रहणं हि चन्द्रमसा सह सम्बद्धं भवतीति तदाऽपि ज्ञातमासीत् । ‘स्वर्भानुस्तमसाऽविध्यदासुरः' इति कथनेन राहोस्तमसश्च पार्थक्यमपि तदा ज्ञातं सिध्यति । एवं हि ताण्ड्यब्राह्मणे,[१५५] गोपथब्राह्मणे,[१५६] शतपथब्राह्मणे[१५७] च ग्रहणस्योल्लेखो दृश्यते स्वानुकूल्येन । अत्रेदमवधेयं यद्वैदिकसाहित्यं हि न ज्योतिषशास्त्रम् । तत्तु सर्वमेव विषयं प्रसङ्गवशादेव गृह्णाति यज्ञेतरम् । तेन तदितरविषयस्य बीजमेव लभ्यते न तु तद्व्याख्यानमपि । अतो हि ग्रहणविषये तत्र सूक्ष्मदृष्टिनँवोपलभ्यते इति नाश्चर्यम् । मास्त्वपि तत् । तत्र सूर्यग्रहणस्योल्लेख एव तज्ज्ञत्वस्य प्रमाणम्।

ग्रहेषु सूर्याचन्द्रमसोस्तु वेदेषु बहुत्र चर्चा लभ्यते किन्तु ग्रहान्तरविषये न तदूपेण । तथाऽपि तेषामपि प्रसङ्गस्याभावो नैव । अथाऽत्र वेदेषु ग्रहत्वेन सूर्यादीनामुल्लेखो यत्र तत्प्रसङ्गः स्मर्यते । त्रयो हि देवा अग्निवायुसूर्याः । अग्निह भूस्थानीयः अन्तरिक्षस्थानीयो वायुः चुस्थानीयः सूर्यः । सूर्यो हि वायोः वायुश्चाग्नेर्घटकः यथोक्तमैतरेयब्राह्मणे -

'सवितारं यजति यत्सवितारं यजति तस्मादुत्तरतः पश्वादयं भूयिष्ठं पवमानः पवते सवितृप्रसूतो ह्येष एतत्पवते ।'[१५८] तारका हि ग्रहाश्च सूर्यदेव प्रकाशं लभन्ते । स हि ज्योतिषा याति ।[१५९] स हि जगतस्तस्थुषश्चात्मा ( मित्रस्य वरुणस्याग्नेश्चक्षुः )।[१६०] तत्सूर्यस्य देवत्वं तन्महित्वम्[१६१] रात्रौ निवर्तमानस्य सूर्यस्य रश्मयस्तारकासु पतन्ति यतो हि ते द्योतमाना दृश्यन्ते।[१६२] सूर्यो हि कालविभाजकः । स हि ३६६ दिनात्मकसंवत्सरस्य निर्माता। स एवर्तनामयनयोश्च कर्ता ।[१६३] स हि अत्ता । तस्य चन्द्रमा एवाहितयश्चन्द्रमसं ह्यादित्य आदधाति।[१६४] स हि स्वरूपः । स हि अर्कचक्षः।[१६५] स हि सर्वेषां देवानामात्मा[१६६] एष हि उद्यन् नक्षत्राणां वीर्यं क्षत्रमादत्ते[१६७] स हि वर्षति[१६८] सूर्यस्य वा एको रश्मिर्वृष्टिवनिनम येनेमाः सर्वाः प्रजा बिर्भात । स हि सर्व प्रीणाति । स एव संवत्सरः । एकोऽपि स आत्मानं बहुधोपस्थापयति । स एव ज्योतिषां ज्योतिः ।

ग्रहाः[सम्पादयतु]

सूर्यस्येव चन्द्रमसोऽपि वेदेषु बहुत्रोल्लेखो दृश्यते । चन्द्रमा हि प्रतिनक्षत्रं वसति ( शत० ) । असौ भान्तः पञ्चदशः स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते[१६९] चन्द्रमा सूर्यस्यान्नम्।[१७०] अनामृतदेवयजननिधानेन चन्द्रमसि कृष्णम् ।[१७१] एष ह्यमावास्यायामादित्यमनुप्रविशति।[१७२] एष एवासुः।[१७३] एषो हि सविता।[१७४] एष मनः ।[१७५] ( एष वै रेतः ६।१।२।४ )। एष एवान्नम्।[१७६] चन्द्रमा एव संवत्सरः ।

यद्यपि मङ्गलस्य बुधस्य नाम्ना वेदेषुल्लेखो नैव दृश्यते शनेश्च वृहस्पतेः सत्यपि देवविशेषत्वेनैव न त्वाकाशीयपिण्डत्वेन तथैव शुक्रस्य तेजोरूपमात्रेण न तु ग्रहत्वेन तथापि पण्डिता ऋग्वेदस्थे -

'अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः ।

देवत्रा नु प्रवाच्यं सधीचीनानि वावृतुवित्तं मे अस्य रोदसी ॥'[१७७]

पञ्चोक्षण इति वाक्यांशं[१७८] ‘गतं देवान्' इति वाक्यांशमादाय तत्र मङ्गलादिपञ्चग्रहाणामुल्लेखं मन्यन्ते । सामान्यतस्तु तत्र न तथा प्रतिभात्यस्माकम् । तथापि तत्र मध्ये दिव इति पदमवश्यमेव कमपि पञ्चावयवात्मकं पिण्डं तु सूचयत्येव ।

‘आ रोदसी अपृणादोत मध्यं पञ्च देवान् ऋतुशः सप्त सप्त ।

चतुस्त्रिशता पुरुधा विचष्टे सरूपेण ज्योतिषा विव्रतेन ।।'[१७९]

अत्र चतुस्त्रिशदिति सप्तविंशतिनक्षत्राणि सप्त अहा इति । एवमेव -

‘अमी ये सप्त रश्मयस्तत्रा में नाभिरातता ।

त्रितस्तद्वेदाप्त्यः स जाभित्त्वाय रेभति में अस्य रोदसी ।'[१८०]

इत्यत्र यानि हि सप्त ज्योतींषि यत्र कथयितुर्भाग्यं निहितं तानि सप्त ग्रहा एव न तु सूर्यस्य रश्मयस्तेषां तु भाग्येन सह सम्बन्धाकथनात् । एवञ्च -

‘चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।

न वो हिरण्यनेमयः पदं विन्दन्ति विद्युत वित्तं मे अस्य रोदसी ।'[१८१]

इत्यत्र विद्युता द्योतमाना हिरण्यनेमयः भौमाद्याः पञ्च ग्रहा एव । चन्द्रमा तु जलं. प्रविष्टः सूर्यश्च दिवि । तेन यूयं पञ्चैव भाग्यस्य विधातार इति त एव स्तुताः । शङ्करबालकृष्णः प्रशस्यो यदा स कथयति यद्भाह्म मुहूर्ते उत्थाय स्नानसन्ध्याहोमादिप्रातःकृत्यं सम्पादयन्तो मुनयः प्रतिविशतिमासं नवमासावधि पूर्वस्यां दिशि दृश्यमानं शुक्रं नैव जानन्ति स्मेति कथं प्रत्याय्यम् । शुक्रो हि बहुकाले पूर्वस्यां दिशि प्रातर्दृश्यते कदाचित् सायङ्काले पश्चिमायां दिशि च । ये हि खलु प्राङ्मुखः प्रातःसन्ध्यां पश्चिममुखश्च सायं सन्ध्यामुपासन्ते ते ततद्धरिदुपगतं ज्योतिष्मन्तं शुक्रमवश्यमेव जानन्ति स्मेति प्रत्येयस्तर्कः । तेनैवोक्तं - ‘स्यादसावादित्यः शुक्रः,[१८२] एष वै शुक्रो य एष तपति,[१८३] अत्रैव शुक्र आद्यो मन्थी,[१८४] तेजोऽसि शुक्रमस्यमृतमसि धाम नामासि प्रियन्देवानामनाधृष्टं देवयजनमसि इत्यादि । अनेन सिध्यति यद्वैदिकसाहित्ये भौमादिग्रहास्तेषां प्रभावश्च सुविज्ञात आसीदिति । शङ्करबालकृष्णमते स्वर्वैद्यौ हि आश्विनेयो शुक्रवृहस्पति एव । वृहस्पतेर्ग्रहत्वमादाय तु तत्र स्पष्टमेवोक्तं लभ्यते । यथा ऋग्वेदे -

‘बृहस्पति प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।'[१८५] एवमेव तैत्तिरीयब्राह्मणेऽपि - ‘बृहस्पति प्रथमं जायमानो तिष्य नक्षत्रमयिसम्बभूव ।[१८६]

बृहस्पतेर्हि परमशरा १॥३० भवन्ति । अतोऽस्य निकटयुतिः सप्तविंशतिनक्षत्रेषु केवलं पुष्यमघाविशाखानुराधाशतभिषारेवतीभिरेव सम्भवति तत्रापि पुष्येन सह तु क्वचित्तु तस्यैकत्वमेव सम्पद्यते । अतएवोक्तं स्यादृहस्पतिर्दै पुष्यजन्मेति ।

अथर्वसंहितायां[१८७] शन्नो ग्रहाश्चान्द्रमसाः शमादित्याश्च राहुणा' इति चन्द्रसम्बद्धत्वेन सूर्यसम्बद्धत्वेन च ग्रहाः स्मृताः सन्ति । बुधो हि सौमायनः प्रोक्तः[१८८] शनिस्तु सौरः । सम्भवति तत्रैव तथैव स्मृतं स्यात् । तत्रैव[१८९] "उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचराः ग्रहाः' इति पुनश्च ‘नक्षत्रमुल्काभिहतं शमस्तु' इति[१९०] यत्कथितं तत्र बहूवचनान्तो ग्रहशब्दो निश्चयमेव सूर्यचन्द्रातिरिक्ताकाशीयपिण्डावबोधकः । ते च पञ्च देवाः । द्योतनादग्रहाणामपि देवत्वम् । न केवलं ग्रहाणामेवापितु वैदिकसाहित्ये उल्काधूमकेतुप्रभृत्याकाशीयपिण्डानामपि संमुल्लेखो दृश्यते ।[१९१]

शुभकालविचारः[सम्पादयतु]

वेदेषु शुभाशुभकालविषयेऽपि चर्चा दृश्यते । यथोक्तं - पुण्याह एव कुरुते[१९२] 'यः कामयेद् दुहितर प्रिया स्यादिति तां निष्टयायां दद्यात्'[१९३] इति।

माध्यन्दिनीयसंहितायां ‘प्रज्ञानाय नक्षत्रदर्श,[१९४] ‘यादसे गणकम्[१९५] इति पाठो दृश्यते । एतेन सिध्यति यत्तदा ज्योतिषशास्त्रमपि स्वातन्त्र्येण प्रवतितमासीत् ।

न केवलं कालचक्रस्यैवापितु गणितशास्त्रस्यापि बीजं वेदेषु लभन्ते विपश्चितः । तत्र हि अव्यक्तबीजगणितस्वरूपमपि दृश्यते वेदेषु । विशेषतो यजुर्वेदे यथा -

‘एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशतिश्च ।

तिसृभिश्च वहसे विंशता च नियुद्भिर्वायविह ता विभुञ्च ॥'[१९६]

इत्यत्र वियोगक्रियायाः ऋग्वेदीये ‘युवां देवास्त्रय एकादशीसः' इति वाक्ये गुणनक्रियायाः । एकादशस्य त्रिभिर्गुणने त्रयस्त्रिंशत्सङ्ख्या लभ्यते तावत्सङ्ख्याका देवता सत्यस्य रहशे पुरस्तादिति । व्यक्तगणिते एकदशादिगणना यथा यजुर्वेदे माध्यन्दिनीये -

‘इमा मे अग्न इष्टका धेनवः सन्त्वेका च दश च शतं च शतं च सहसच्चायुतञ्च नियुतञ्च प्रयुतञ्चाबुदञ्च न्यर्बुदश्च समुद्रश्च मध्यमञ्चान्तश्च परार्धश्चैता मे अग्न इष्टका धेनवः सन्त्वमुत्रामुष्मिल्लोके ।'[१९७]

मे गाव एकैकं कृत्वा एकादश भूयाद्दशशतं भूयासुः शतं सहस्रं च । एवं क्रमेण परार्धपर्यन्तमिताः स्युरिति । एकमेव बीजगणितस्यापि वेदेषु प्रयोगो दृश्यते । ये हि तचूनानप्रभावजं | मन्यन्ते ते देवानां प्रिया एव । यथा हि -

‘इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः ।

अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचं परमं व्योम ।।'[१९८]

वेदि परितो भ्राम्यमाणा रेखा परिधिः ऊध्र्वाधो व्यासः । इयमेव समस्तस्य जगतो नाभिः । अयं सोमो वृष्णः वृष्टिकारक इति ।।

'काऽऽसीत् प्रमा प्रतिमा कि निदानमाज्यं किमासीत् ।

परिधिः के आसीत् प्र उगं किमुक्थं यद्देवा देवमयजन्त विश्वे ।।[१९९]

अत्र प्रमा= मापकः । चलनकलननिर्देशो यथा याजुषे शुक्ले -

'एका च मे तिस्रश्च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च। मे नव च मे एकादश च मे एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे एकोनविंशतिश्च मे एकोनविशतिश्च मे एकविंशतिश्च मे एकविंशतिश्च मे प्रयोविंशतिश्च मे प्रयोविंशतिश्च । में पञ्चविंशतिश्च मे पञ्चविंशति मै सप्तविंशतिश्च मे सप्तविंशतिश्च मे नवविशतिश्च मे नववंशतिश्च मे एकत्रिशश्च मे एकत्रिशश्च मे त्रयस्त्रिशख्च मे यशेन कल्पन्ताम् ।[२००]

अस्य च प्रयोगदर्शनं यथा व्याख्यातं श्रीसर्वज्ञनारायणमहोदयैः -

अङ्काः
वर्गाः १६ २५ ३६ ४९ ६४ ८१
अन्तरम् ११ १३ १५ १७
अङ्काः १० ११ १२ १३ १४ १५ १६ १७ - -
वर्गाः १०० १२१ १४४ १६९ १९६ २२५ २५६ २८९ - -
अन्तरम् १९ २१ २३ २५ २७ २९ ३१ ३३ - -

पूर्वोक्तमन्त्रस्योपपत्तिः गणितज्यौतिषद्वारेत्थं चित्रेप्रदर्श्यते -

Maths in Veda Mantra

अनेन स्पष्टं प्रतिभाति यद्भारतीयानां वेदद्वारैव चलनकलनस्य (Calculus) ज्ञानमस्ति, न कस्माच्चिदन्यस्मादाय । त्रिकोणमितिरेखागणितादीनामुपयोगी बृत्तपरिधिः (३६०°) निम्नतन्त्रेणावगम्यते -

द्वाद्वश प्रधयश्चमेकं श्रीणि नभ्यानि क उ तच्चिकेत ।

तस्मिन्साकं त्रिशता न शवोऽपिताः षष्टिर्न चलचिलासः ।।

द्वादश (१२) परिधयः (राशयः) एकश्चन्द्रस्तिस्रो नाभिः ।

विचरणारविन्देषु धृष्टता कृताञ्जमल्यमतिः ।

त्रुटिमवलोक्य क्षम्यतां सुधार्यताञ्चेति।।

इत्थं हि वेदानां संहिताभागे ब्राह्मणभागे च बहुविधा हि ज्योतिषविषयाः प्रसङ्गानुसारेण प्रतिपादिता दृश्यन्ते । तत्र हि कालचक्रस्य युगे कल्पे संवत्सरे मासेऽर्द्धमासेऽहोरात्रे च विभागः कृतः । अह्नश्च प्रातःपूर्वाह्नमध्याह्नापराहूसायाह्लादिविभागश्च तत्रावश्यकतानुसारेण प्रदर्शितः । एवमेव सूर्यः सौरपरिवारग्रहाः पृथिवी अन्तरिक्ष द्यौश्च वर्णताः । तत्रापि चुस्थानीयस्य सूर्यस्य अन्तरिक्षस्थानीयस्य वायोः भूस्थानीयस्याग्नेश्च विषयाः यथावसरं प्रतिपादिताः । तत्रोक्तं सूर्यो हि परमं ज्योतिः । स हि सर्वं प्रीणाति प्रेरयति च । स एव वृष्टिकारकः । वेनादयस्तस्य ग्रहाः । वेनः शुक्र एव । सूर्यो हि ऋतूनां कारणम् । स हि कान्तिवृत्तेन चलति । तत एव तारकाः प्रकाशं लभन्ते जगच्च ज्योतिर्घर्मञ्च । स एव कालचक्रस्य विभाजकः । स हि युगं प्रवर्तयति । सूर्यस्यैव षड़तवो भवन्ति । एकवसन्तसङ्क्रान्तितो द्वितीयपर्यायवसन्तसङ्क्रान्तिप्रारम्भं यावत्संवत्सरः।

संवत्सरस्य द्वादशभागाः मधुमाधवादयः । वसन्तग्रीष्मवर्षासु सूर्यो हि विषुवत उदक् चलति । स हि दैवः समयः । शरद्धेमन्तशिशिरेषु स दक्षिणमनुवर्तते । स हि पितृणां समयः । प्रत्यर्तुं द्वौ मासाविति षड़तूनां द्वादश मासाः । अधिमासोऽपि तस्यैव । स हि सौरचान्द्रवर्षसमीकरणोपायः । मासस्य द्वौ पक्षौ पूर्वोऽपरश्च । पूणिमान्तमाने पूर्वः कृष्णः शुक्लोऽपरः । अमान्तमाने शुक्लः पूर्वः कृष्णोऽपरः । चन्द्रमा हि सूर्यरश्मिः । सह्यमावास्यायां सूर्य प्रविशति पुनश्च ततो निःसृत्य याति प्रतिदिनं नियमितगत्या । पौर्णमास्यां हि चन्द्रः सूर्याढूरतमं प्रदेशं प्राप्नोति सं हि पुनश्च प्रत्यावृत्य यदा हि सूर्यं प्रविशति तदाऽमावास्या भवति । चन्द्रो हि नक्षत्रपथेन याति । नक्षत्राणि मूलतः सप्तविंशतिः प्रत्येकमेकमुपनक्षत्रञ्च । नक्षत्रेषु तारकान्तराण्यपि भवन्ति यथा कृत्तिकासु सप्त विशाखयोदें। चन्द्रमा हि यदा भचक्र पूर्णतोऽतिक्राम्यति तदा चान्द्रो मासः पूर्णो भवति । सूर्यो हि चन्द्रमवलम्ब्य प्रवर्तते । चन्द्रो हि सोमः । सूर्ये हि चन्द्रपातान्तरितत्वेन ग्रहणं भवति । नक्षत्राणां ग्रहाणाञ्च शुभमशुभं वा फलं भवति । शुभे मुहूर्ते कृतं कर्म शुभमेव साधयति । इत्थं हि कालचक्र-ग्रहण-खगोलादिविषया वेदेषु यथावसरं प्रतिपादिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. यजुः० १६॥६४
  2. यजुः० १६/६५
  3. शत० प्रा० १।८।३।१२
  4. शत० १४।२।२।३६
  5. शत० ७॥४॥२॥२२
  6. १॥३५॥६
  7. ऋ० १०॥९०११४
  8. ऋ० १०॥९०/१३
  9. ११/६
  10. ऋ० १०॥७२॥२
  11. ऋ० १॥१०३/४
  12. ऋ० ५॥५२॥४
  13. ऋ० ५।७३।३
  14. ऋ० ११५८१६
  15. ऋ० ६।८।५
  16. ऋ० १९९७।१
  17. वा० १२।१११
  18. ३०/१८
  19. ४।३।३
  20. ३।४।१
  21. ३३।१५
  22. १॥५॥११
  23. ऋ० ७/१०३।७
  24. ३०।१५
  25. १।४।१०
  26. ३।४।१
  27. ३।१०।४
  28. १९/४६
  29. ४०/१२
  30. १०/८५।५
  31. ४।१७।५
  32. ५॥६॥७
  33. १।४।१४
  34. ४।४।११
  35. १।२५।८
  36. १।१६४।११
  37. १।१६४।४८
  38. ७।५।१
  39. ७।३०
  40. २२।३०-३१
  41. तै० सं० ७।५।१
  42. तै० सं० ७।५।६
  43. तै० ब्रा० ३।११।१।१३
  44. २।१।३।१-४
  45. ६।५।३
  46. ऋ० १०।१४२१७
  47. १०।१४२।८
  48. ३१।१८
  49. ६।१५
  50. ६॥२॥१८
  51. १२॥२॥३॥६
  52. १२॥२॥३॥७
  53. वृ० सं० ३।१-३
  54. १०॥ ९०/६
  55. १॥१२॥६-७
  56. ते० प्रा० ३।१०।४।१
  57. ६।५।३
  58. ३।१०।१
  59. ३।१०।१
  60. ३।१०।१
  61. ७।५।६।१
  62. २।२।३।१
  63. ३।१०।४।१
  64. ११।६
  65. ११।२।४।२
  66. ३।१०।१।१
  67. ३।१०।१।१
  68. ३।१०।१।२
  69. ३॥१०॥१॥२-३
  70. १॥५॥१०
  71. तै. ब्रा. १॥५॥१॥२
  72. तै० ब्रा० ३।११।१।१९
  73. श० ब्रा० ६॥२॥२॥२३-२४
  74. तै ब्रा० १॥८॥१०॥२
  75. १।८।११।८
  76. ऋ १०/५८/५
  77. तै० सं० २।४।१४
  78. ३।४।७।१
  79. ४०/५
  80. १४।४।३।२२
  81. १।६।४।५
  82. ६।१०
  83. २॥३२/४
  84. ५॥४२॥१२
  85. २॥३२॥७
  86. २॥३२॥६
  87. निरुक्तम् १।३१
  88. ८।६।३०
  89. ऋ० ८।४८/७
  90. १८।१८
  91. १८।२२
  92. १।२।३
  93. ऋ० ५/७६।३
  94. शत० २।४।२।८
  95. तै. ब्रा० ३।१२।९।१
  96. तै० ब्रा०-१।५।३
  97. ऋ० ॥३३॥५
  98. ऋ० ३।३५/८
  99. शत० १०॥४॥२॥१८
  100. शत० १०॥४॥२॥२५
  101. शत० १०॥४॥२२७
  102. शत० १०॥४॥३।२०
  103. ३।१०।९
  104. ३।१०।१
  105. तै ब्रा० ३।१०।९।९
  106. तै० ब्रा० ३।१०।१।४
  107. १॥५०॥२
  108. ७/८६।१
  109. १०/६८।११
  110. १०/८५/२
  111. ऋ० ५॥५४॥१३
  112. ऋ० १०॥६०१८
  113. ऋ० ४॥५१॥२
  114. ऋ० १०।८५॥१३
  115. १४।१।१३
  116. १९/४३
  117. २२।२९
  118. ३०।२१
  119. ऋ० १।१६२।१८
  120. ऋ० १०/५५।३
  121. १८/४०
  122. ९/७
  123. १०॥५॥४॥१७
  124. १०।५।४।५
  125. ४॥४॥ १०।१-३
  126. ७/१।२।२
  127. १०॥५॥ ४५
  128. १०॥५॥४॥५
  129. ४॥४॥५१
  130. १।५।२१७
  131. ३॥१॥२॥१-३
  132. ४।४।१०
  133. १।५।१
  134. १३।४।१३-४
  135. शत० ६।५।४।८
  136. तै ब्रा० १॥५॥२॥६
  137. तै० ब्रा० १।५।२।६
  138. शत० २॥१॥२॥१८
  139. ताण्ड्य० २३।२३।३
  140. तै० ब्रा० १॥५॥३॥४
  141. शत० १०॥४॥४॥२
  142. तै० ब्रा० १॥५॥२।७
  143. तै० प्रा० १॥५॥२॥७
  144. शत० २।१।२।२
  145. तै० अ० १॥५॥२॥७
  146. तै० ब्रा० ३।११।१।३
  147. २॥१॥२॥१०
  148. मै० सं० २।३।२०
  149. ऋ० १।२४।१०
  150. शत० २।१।२।४
  151. शत० १॥५॥५।१
  152. १०।१४।११
  153. १०i६३।१०
  154. ऋग्वेदे ५॥४०॥५९
  155. ४।६।१३
  156. ८/१९
  157. ५।३।२।२
  158. २/७
  159. ऋ० १०॥३७॥३
  160. ऋ० १/१५१।१
  161. ऋ० १/१५१/४
  162. ऋ० १॥३५॥२
  163. शतपथ० २।१।३।१-९
  164. शतपथ० २।६।२।३
  165. वै० ब्रा० १॥१॥७॥२
  166. शत० १४।३।२।९
  167. शत० २॥१२॥१८
  168. शत० १४॥२॥१॥२१
  169. शत० ८।४।१।१०
  170. शत० ४॥६॥७॥१२
  171. शत० १॥२५॥१८
  172. ऐ० ब्रा० ८.१८
  173. तै० ब्रा० २।५।७/३
  174. गो० १।३३
  175. शत० १०।३।३।७
  176. शत० ८।२। ३॥११
  177. १/१०५।१०
  178. १०/५।५।३
  179. १०/५५।३
  180. ऋ० १५१०५।९
  181. ऋ० १॥१०५।१
  182. शत० ९।४।२।२१
  183. शत० ४।३।१।२६
  184. शत० ४।२।१।१३
  185. ४/५०/४
  186. ३।१।१
  187. १९॥९॥१०
  188. पं० ब्रा० २४।१८।६
  189. १९/९/७
  190. १९/९/९
  191. अथवं० १९॥९॥७॥१०
  192. तै० ब्रा० १॥५॥२
  193. तै० ब्रा० १॥५॥२
  194. ३०/१०
  195. ३०/२०
  196. २७॥३३
  197. १७/२
  198. १०।१३०/३
  199. यजुः २३॥६२
  200. १८/२४