सामग्री पर जाएँ

प्राचीनवैज्ञानिकग्रन्थाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भरतखण्डे अनेके पुरातनमहर्षयः स्वीयेन योगबलेन मनश्शास्त्रे प्रावीण्यं सम्पादितवन्तः आसन् इत्येतं सत्यांशम् अनेके जानीयुः । किन्तु ते वैज्ञानिकतत्त्वानि बहूनि अबोधयन् इत्येषः अंशः बहुभिः न ज्ञातः अस्ति । तैः बहवः वैज्ञानिकग्रन्थाः रचिताः । तेषु केषाञ्चन ग्रन्थानां लघुः परिचयः अत्र दत्तः वर्तते -

अंशुबोधिनी

[सम्पादयतु]

अस्य उद्ग्रन्थस्य रचयिता महर्षिः भारद्वाजः । अस्मिन् ग्रन्थे सहस्रं सूत्राणि विद्यन्ते । अस्य ग्रन्थस्य ’बोधायनवृत्ति’नामकं व्याख्यानं विद्यते । अस्मिन् ग्रन्थे सूर्यस्य किरणेषु विद्यमाना अद्भुता शक्तिः वर्णिता अस्ति । केवलैः पञ्चाशता सूत्रैः युक्तः कश्चन भागः अधुना उपलभ्यः अस्ति । अयं ग्रन्थः द्वादशभिः अध्यायैः युक्तः इति श्रूयते । अवशिष्टानाम् एकादशानाम् अध्यायानाम् अन्वेषणं प्रचलति ।
सूर्यकिरणानां शक्तिम् उपयुज्य जनसमुदायस्य कृते उपयुक्तानां विविधानां यन्त्राणां निर्माणविधिम् अयं ग्रन्थः बोधयति । वेदेषु निहितानां विज्ञानतत्त्वानां प्रकाशनाय एव सूत्ररूपेण अयं ग्रन्थः विरचितः इति महर्षेः भारद्वाजस्य अभिप्रायः । सूर्यकिरणैः न केवलं तापप्रकाशौ अपि च विद्युच्छक्तेः उत्पादनम् अपि महता प्रमाणेन कर्तुं शक्यमिति अयं ग्रन्थः सूचयति ।
विविधेषु ग्रहेषु विद्यमानायाः शक्तेः स्वरूपं प्रमाणञ्च निर्णेतुं कः मार्गः आश्रयणीयः इति बोधयति अयं ग्रन्थः । विविधेभ्यः ग्रहेभ्यः प्रसरमाणायाः शक्तेः स्वरूपस्य प्रमाणस्य च मापनयन्त्राणां निर्माणवधिः अत्र विद्यते । एतानि यन्त्राणि कथं सूर्यकिरणानि आकर्षन्ति, तेषां विभजनं, तेषां शक्तेः स्वरूपं मापनं च अत्र सविवरणं दत्तं विद्यते ।
विस्मयावहः अन्यः अंशः नाम तन्त्रीसाहाय्यं विना दूरे विद्यमानैः सह सुलभतया सम्भाषणं कर्तुं सहायकानां यन्त्राणां निर्माणविधिः अपि अत्र उपवर्णितः विद्यते ।

गोळाध्यायः

[सम्पादयतु]

अस्य ग्रन्थस्य कर्ता भास्कराचार्यः । रेखागणितशास्त्रसम्बद्धः ग्रन्थः अयम् । अस्मिन् ग्रन्थे चतुश्शतसूत्रैः युक्ताः श्लोकाः सन्ति । खगोले ग्रहाणां चलनं, तेषां वेगः, तेषां दिग्दर्शनम् इत्यादीनां निश्चयविधिम् अयं ग्रन्थः बोधयति ।

यन्त्रसर्वस्वम्

[सम्पादयतु]

महर्षिणा भरद्वाजेन प्रणीतः ग्रन्थः अयम् । अत्यद्भुते अस्मिन् ग्रन्थे विद्युदुत्पादकयन्त्राणि, विविधकार्येषु विद्युच्छक्तेः उपयोगः यथा स्यात् तथा करणयन्त्राणि, एतानि यन्त्राणि निर्मीय कथं कार्यं साधनीयम् इत्येतेषु विषयेषु गभीरविमर्शः अस्मिन् ग्रन्थे कृतः विद्यते ।

नारायणसूक्तम्

[सम्पादयतु]

इदम् ऋग्वेदस्य कश्चन मन्त्रभागः । अस्मिन् शारीरशास्त्रस्य विवरणं दत्तम् अस्ति । अस्मिन् रक्तपरिचलनस्य क्रमः, तस्य व्यवस्थार्थं सहायकस्य हृदयभागस्य शरीरे प्रदत्तं स्थानं, तस्य आकारः, रचना, तस्य कार्यम् इत्यादिषु विषयेषु विवरणम् अत्र विद्यते । अत्र विद्यमानस्य कस्यचित् मन्त्रसूक्तस्य अर्थः एवं विद्यते - ’अस्य हृदयस्य स्थानं वक्षसः वामभागे, कमलमुकुलस्य आकारे अधोमुखे रचितः अस्ति । एतत् कण्ठनाभ्योः मध्यभागे षडङ्गुलस्य अन्तरे निर्मितम् अस्ति । अस्य एकस्मिन् पार्श्वे शुद्धरक्तनालः अपरत्र मलिनरक्तनालश्च विद्यते । मलिनरक्तं शुद्धीकृत्य शरीरस्य विविधभागान् प्रति प्रेषणाय कवाटाः रचिताः भवन्ति । स्वीयेन स्पन्दनेन हृदयम् इदं कार्यम् आचरति’ इति ।

मालिनीशास्त्रम्

[सम्पादयतु]

अस्य ग्रन्थस्य कर्ता महर्षिः ऋष्यशृङ्गः । प्रकृतौ दृश्यमानस्य बाह्यरूपस्य परिवर्तनं, भासः, भ्रान्तिः इत्यादीन् विषयान् प्रस्तौति अयं ग्रन्थः । प्रकृतौ विद्यमानानां जीविनां निर्जीववस्तूनाञ्च रूपेषु दृश्यमानः रूपभेदः वैज्ञानिकदृष्ट्या अत्र चर्चितः विद्यते ।

विषवादम्

[सम्पादयतु]

इदं रसायनशास्त्रसम्बद्धम् । विविधवस्तूनां संयोगेन वैविध्यमयानि विषवस्तूनि कथं प्राप्तव्यानि इति विवृणोति अयं ग्रन्थः । प्रयोगशालायाम् अस्य प्राप्तिविधानम् अत्र वर्णितमस्ति ।

सूपशास्त्रम्

[सम्पादयतु]

अयं ग्रन्थः पाकशास्त्रसम्बद्धः । ग्रन्थकर्ता महर्षिः सुकेशः । अस्मिन् ग्रन्थे १२८ विधानां पदार्थानां सज्जीकरणं संसूचितमस्ति । एते विविधरोगाणाम् अवरोधने कथं सहकुर्वन्ति इत्येषोऽपि विषयः अत्र चर्चितः अस्ति ।

गारुडम्

[सम्पादयतु]

अस्य ग्रन्थस्य कर्ता मुनिः ’वल्लः’ । विषनिरोधकवस्तूनाम् उत्पादनविषयकः अस्ति । रसायनशास्त्रस्य नियमानुसारं विविधपदार्थानां संयोगेन विषनिरोधकवस्तूनां निर्माणविधानं सूचयति । अस्मिन् निर्दिष्टाः मार्गाः वैज्ञानिकाः स्पष्टाः निर्दुष्टाश्च ।

आत्रेयम्

[सम्पादयतु]

शस्त्रचिकित्साशास्त्रसम्बद्धः ग्रन्थः अयम् । अस्य ग्रन्थस्य कर्ता महर्षिः आत्रेयःआयुर्वेदे विभागद्वयम् - रोगलक्षणशास्त्रं, शस्त्रचिकित्साशास्त्रम् च । प्रथमः विभागः धन्वन्तरेः सम्बद्धः, द्वितीयः आत्रेयसम्बद्धश्च

अक्षरलक्षणगणितशास्त्रम्

[सम्पादयतु]

अस्य ग्रन्थकर्ता महर्षिः वाल्मीकिः । अयं न रामायणग्रन्थस्य प्रणेता । अयं ग्रन्थः गणितशास्त्रसम्बद्धः । गणितशास्त्रे विद्यमानानां सर्वासां समस्यानां परिहरणाय ८४ सिद्धान्तैः युक्तः विद्यते अयं ग्रन्थः । अत्यन्तं सूक्ष्मबुद्धिः प्रदर्शिता वर्तते अस्मिन् ग्रन्थे ।

सौदामिनीकुल

[सम्पादयतु]

अस्य ग्रन्थस्य रचयिता महर्षिः मतङ्गः । भूगोले खगोले च विद्यमानानां वस्तूनां छायाचित्रस्वीकरणक्रमः अत्र सूचितः । खगोलस्थैः वस्तुभिः उत्पद्यमानानां शब्दतरङ्गाणां स्वरूपज्ञानस्य क्रमः, तेषां विभजनस्य क्रमः उपयोगक्रमश्च अस्मिन् ग्रन्थे उल्लिखितं वर्तते ।

अनुकरणशब्दशास्त्रम्

[सम्पादयतु]

अस्य ग्रन्थस्य कर्ता महर्षिः कान्दिकः । अस्मिन् ग्रन्थे शब्दानां स्वरूपं, तेषां प्रतिफलनरीतिः, तेषाम् अनुरणनविधिः इत्यादिषु विषयेषु अत्र विवरणम् उपलभ्यते । शब्दस्वरूपस्य निर्णयाय इदं प्रमाणशास्त्रत्वेन परिगण्यते ।

चित्रकर्म

[सम्पादयतु]

अस्य शास्त्रस्य कर्ता ऋषिः भीमः । अस्मिन् चित्रकलाकौशल्यं, वर्णसंयोजनं, छायाचित्रस्वीकरणम् इत्येतेषु विषयेषु विवरणम् उपलभ्यते । अस्मदीये वैदिकविज्ञानक्षेत्रे छायाचित्रस्वीकरणकला प्रसिद्धा आसीत् इत्येतम् अंशम् अयं ग्रन्थः प्रमाणीकरोति ।

ब्रह्माण्डशास्त्रम्

[सम्पादयतु]

अस्य ग्रन्थस्य कर्ता महर्षिः वेदव्यासः । आकाशस्य अन्तरङ्गे बहवः लोकाः विद्यन्ते इति निरूपयति अयं ग्रन्थः । केन क्रमेण इमे लोकाः तत्र विद्यन्ते, तेषाम् आविष्करणमार्गः, छायापथस्वरूपम्, तेषां दर्शनाय दूरदर्शकयन्त्राणां रचना इत्येते सर्वे अपि विषयाः अस्मिन् ग्रन्थे विद्यन्ते ।

गेरण्डसंहिता

[सम्पादयतु]

महर्षिः गेरण्डः तच्छिष्यः कपालिः इत्येतयोः संवादरूपः विद्यते अयं ग्रन्थः । अस्मिन् ग्रन्थे घटयोगवर्णनं विस्तृतरूपेण विद्यते । योगे घटयोगः विशेषप्राशस्त्यं वहति । योगासनानां द्वारा शारीरकशुद्धिं सम्पाद्य ततः समाधिस्थितिः प्राप्तुं शक्या इति वर्णयति अयं ग्रन्थः । अपि च सप्तविधैः साधनैः योगसिद्धिः प्राप्तुं शक्यते इति ग्रन्थोयम् उल्लिखति । ३५० सूत्रैः युक्तः अयं ग्रन्थः सप्तभिः अध्यायैः विभक्तः वर्तते । पारिशुद्ध्यता, आसनानि, मुद्राः, प्रत्याहारः, प्राणायामः, ध्यानम्, धारणम्, समाधिः - इत्येते एव ग्रन्थस्थाः अध्यायाः ।

आकाशतन्त्रम्

[सम्पादयतु]

अस्य उद्ग्रन्थस्य कर्ता महर्षिः भरद्वाजः । अयं ग्रन्थः खगोलशास्त्रसम्बद्धः । अस्य निर्देशानुसारं बाह्याकाशः सप्तधा विभक्तः । तस्य लक्षणानि, तेषु अन्तर्भूतानां ग्रहाणां नक्षत्रव्यूहानां विषये अत्र विस्तृतं वर्णनं विद्यते .

लोहतन्त्रम्

[सम्पादयतु]

अस्य ग्रन्थस्य कर्ता महर्षिः शाखायनः