भारतस्य क्रान्तिकारिण्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतस्य महिलाक्रान्तिकारिण्यः इत्यस्मात् पुनर्निर्दिष्टम्)

भारतस्य क्रान्तिकारिण्यः ( /ˈbhɑːrətəsjə krɑːntɪkɑːrɪnjəh/) (हिन्दी: राष्ट्रध्वज, आङ्ग्ल: Flag of India) स्वतन्त्रभारताय स्वस्य सर्वस्वं समार्पयन् । भारतीयस्वतन्त्रतासङ्ग्रमे केचन वीरपुरुषाः स्वदेशाय प्राणाहुतिम् अयच्छन् इति वयं जानीमः । परन्तु स्वतन्त्रसङ्ग्रामे वीरमहिलाः अपि प्राणाहुतिम् अयच्छन् इति तु विरलातिविरलजनाः एव जानन्ति । तेषु विरलेषु अपि मान्यता अस्ति यत्, “भारतीयस्वतन्त्रतायै योगदानं कृतवत्यः वीरमहिलाः अतीव न्यूनाः आसन्” इति । अत्र अवधेयं यत्, स्वतन्त्रतासङ्ग्रामे तु असङ्ख्यमहिलानां योगदानम् आसीत् । परन्तु तासां महिलानां विषये ज्ञानं भारतीयेषु नास्ति । अतः महिलानां स्वल्पं योगदानम् इति जनेषु भ्रान्तिः ।

अस्मिन् विषये केचन देशभक्ताः वदन्ति यत्, “भारतीयानां स्वस्य स्वतन्त्रसङ्ग्रामयोध्रॄणां कृते कृतघ्नतायाः भावत्वादेव तासां विषये अल्पाः एव जानन्ति” इति । भारतीयानां कृतघ्नतायाः बहूनि उदाहरणानि प्राप्यन्ते । यथा - लोहपुरुषस्य पुत्री मणिबेन देशसेवायै, देशस्वतन्त्रतायै च स्वस्य तन-मन-धनादिसर्वम् अयच्छत् । परन्तु स्वतन्त्रे भारते स्वस्याः वृद्धावस्थाकाले, तस्याः पार्श्वे धन-मान-आवश्यकवस्तूनाम् अभावः आसीत् । तथैव स्वतन्त्रतान्दोलने महात्मनः साहाय्यं कृतवत्याः मीरायाः स्थितिः अपि आसीत् । मीरा नाम तु महात्मना प्रदत्तं नाम । तस्याः वास्तविकं नाम तु मेडलीन् स्लेड् इति ।

“अहम् आश्रमे निवसितुम् इच्छामि” इति मेडलीन् स्लेड् यदा महात्मानम् अवदत् , तदा आश्रमे तस्याः आगमनस्य प्रथमे दिवसे एव महात्मा तां शौचालयस्वच्छतायाः कार्यम् अयच्छत् । भारतसेवायै दृढसङ्कल्पा मीरा निम्नभावं, घ्रृणाभावं विना अनुभूय स्वदायित्वम् अवहत् । तया बहूनि कार्याणि साधितानि भारताय । स्वतन्त्रतान्दोलन-समये तस्याः योगदानं यथा आसीत्, स्वातन्त्र्यानन्तरम् अपि तथैवासीत् । महात्मनः विचारैः प्रभाविता सा अहिंसामार्गेण भारतस्वतन्त्रतायै बहूनाम् आन्दोलनां नेतृत्वम् अवहत् । स्वतन्त्रतानन्तरं समाजसेवा, स्त्रीसशक्तिकरणं, स्त्रीशिक्षा द्वारा तया निस्वार्थतया देशस्य सेवा कृता । परन्तु भारतस्वतन्त्रतानन्तरं देशजनैः तस्याः विषये किमपि न चिन्तितम् । स्वतन्त्रतानन्तरम् मीरा न कमपि उक्त्वा भारतत्यागम् अकरोत् । सा किमर्थं देशं त्यक्त्वा अगच्छत् ? इत्यस्य कारणं ज्ञातुम् अपि न केनापि प्रयासः कृतः । एतादृशाः घटनाः एव भारतीयानां कृतघ्नताभावं प्रदर्शयन्ति ।

न केवलं मणिबेन, मीरा इति द्वे एव, अपि तु अन्याः अपि नैकाः वीरमहिलाः आसन् याः देशस्य स्वतन्त्रतायै स्वयोगदानं क्रान्तिद्वारा अकुर्वन् । तासां नामानि चित्रेण सह अधः चित्रवीथिकायां प्रदत्तानि सन्ति ।