सामग्री पर जाएँ

मणिबेन पटेल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Maniben Patel
मणिबेन वल्लभभाई पटेल
सञ्चिका:Sardar Vallabhbhai Patel and Manibehn Patel (1).jpg
लोहपुरुषेण सह मणिबेन
जन्म ३/४/१९०३
बोरसद-ग्रामः, खेडामण्डलं (स्वातन्त्र्यात् प्राक्),
आणन्दमण्डलं (अधुना), गुजरातराज्यम्
मृत्युः १३/१/१९६५
कमरमसद-ग्रामः, आणन्दमण्डलं, गुजरातराज्यम्
वृत्तिः राजनैतिज्ञः, चरित्रकार, साहित्यकारः, स्वतंत्रता सेनानी&Nbsp;edit this on wikidata
कृते प्रसिद्धः भारतस्य विभीषणः

मणिबेन वल्लभभाई पटेल ( /ˈmənɪbɛn pətɛlə/) (गुजराती: મણિબેન પટેલ, हिन्दी: मणिबेन पटेल, आङ्ग्ल: Maniben Patel) भारतस्य स्वतन्त्रायै स्वस्याः सम्पूर्णं जीवनं समार्पयत् । परन्तु स्वतन्त्रे भारते स्वस्याः वृद्धावस्थाकाले तस्याः पार्श्वे धन-मान-आवश्यकवस्तूनाम् अभावः आसीत् । भारतस्य स्वन्त्रतायै यानि आन्दोलनानि लोहपुरुषेण कृतानि, तेषु अधिकतमान्दोलनेषु मणिबेन इत्यस्याः महद्योगदानम् आसीत् । सत्याग्रहेषु कठोरपरिश्रमानन्तरं कारागारे अपि तया कारावासस्य कठोरपीडा सोढिता । राष्ट्रसेवायै समर्पिता एषा महिला अविवाहिता सन्ती आजीवनं भारतस्य हिताय अचिन्तयत् ।

जन्म, बाल्यञ्च

[सम्पादयतु]

१९०३ तमस्य वर्षस्य 'अप्रैल'-मासस्य तृतीये (३/४/१९०३) दिनाङ्के गुजरातराज्यस्य खेडामण्डले मणिबेन इत्यस्याः जन्म अभवत् । तस्याः पिता लोहपुरुषः भारतस्य महत्सु नेतृषु, देशभक्तेषु च अन्यतमः । तस्याः मातुः नाम झवेरबा आसीत् । मणिबेन यदा सप्तवर्षीया आसीत्, तदा तस्याः मातुः निधनम् अभवत् । मणिबेन इत्यस्याः एकः अनुजः अपि आसीत् । अतः तस्य पोषणस्य दायित्वं बाल्यकाले एव मणिबेन इत्यस्याः उपरि आपतितम् ।

परिवारस्य सदस्याः द्वितीयविवाहं कर्तुं लोहपुरुषम् अबोधयन् । परन्तु दृढमनः लोहपुरुषः अवदत्, “अहं विमातुः (Step mother's) दुःखं मम अपत्योः उपरि आरोपयितुं नेच्छामि” इति । ततः आजीवनं मातुः, पितुः उभयोः दायित्वं लोहपुरुषः अवहत् । झवेरबा इत्यस्याः मृत्योः एकवर्षानन्तरम् एव लोहपुरुषेण पठनाय विदेशं गन्तव्यम् अभवत् । अतः सः स्वापत्ये स्वाग्रजस्य विठ्ठलभाई इत्यस्य पार्श्वे प्रैषयत् । तस्मिन् काले विठ्ठलभाई मुम्बई-महानगरे निवसति स्म । मुम्बई-महानगरे क्वीन् मेरी-विद्यालये मणिबेन इत्यस्याः अभ्यासः प्रारभत । परन्तु मुम्बई-महानगरस्य वातावरणे मणिबेन अस्वस्था अभवत् । वैद्यानाम् औषधे कृते सत्यपि तस्याः स्वास्थ्ये परिवर्तनं नाभवत् । पितुः वियोगेन तस्याः स्थितिः एतादृशी अभवत् इति अपि एकं कारणम् आसीत् ।

१९३१ तमे वर्षे लोहपुरुषः स्वदेशं प्रापत् । कर्णावती-महानगरे वाक्कीलस्य कार्यं करिष्ये इति सः निश्चयम् अकरोत् । परन्तु डाह्याभाई (मणिबेन इत्यस्याः अनुजः) इत्यस्य अभ्यासः मुम्बई-महानगरे सम्यक्तया चलति स्म । अतः लोहपुरुषः तं मुम्बई-महानगरे विठ्ठलभाई (लोहपुरुषस्य अग्रजः) इत्यस्य गृहे एव अत्यजत् । पुरा मणिबेन पितुः वियोगे दीर्घकालम् अयापयत्, ततश्च भ्रातुः वियोगे बहूनि वर्षाणि अयापयत् ।

शिक्षणं, देशसेवा च

[सम्पादयतु]

मणिबेन इत्यस्याः बाल्यं कष्टैः परिपूर्णम् आसीत् । निश्चितनिवासस्य अभावेन क्रमेण खेडामण्डले, मुम्बई-महानगरे, कर्णावती-महानगरे च तस्याः अध्ययनम् अभवत् । कर्णावती-महानगरे सर्वकारसञ्चालिते 'सेण्ट् जोसेफ् कॉन्वेन्ट्'-विद्यालये मणिबेन पठति स्म । १९१७ तमे वर्षे कर्णावती-महानगरे 'प्लेग्'-रोगस्य ताण्डवः आसीत् । मणिबेन जनसामान्यानां सेवायै आदिनं सेवाकार्यम् करोति स्म । देशं प्रति स्वकर्तव्यस्य बोधः प्रप्रथमवारं तस्मिन् काले एव तया अनुभूतः । १९२० तमस्य वर्षस्य 'अक्तूबर'-मासस्य अष्टादशे (१८/१०/१९२०) दिनाङ्के गुजरातराज्यस्य कर्णावती-महानगरे महात्मना गुजरातविद्यापीठस्य स्थापना कृता । सर्वकारसञ्चालिताः शालाः त्यक्त्वा राष्ट्रियविद्यालयेषु पठनाय सः भारतस्य यूनाम् आह्वानम् अकरोत् । अतः मणिबेन १९२० तमे वर्षे सर्वकारसञ्चालितं विद्यालयं त्यक्त्वा गुजरातविद्यापीठम् अगच्छत् । तत्र पठने समाप्ते सति तया देशसेवायाः कार्यं प्रारब्धम् । ततः विवाहम् अकृत्वा जीवनस्य प्रत्येकं श्वासं सा देशसेवायै समार्पयत् ।

लोहपुरुषस्य छायात्वेन मणिबेन

[सम्पादयतु]

१९१६ तमे वर्षे लोहपुरुषस्य सम्पर्कः महात्मना सह अभवत् । महात्मनः विचारैः प्रभावितः सन् सः नित्यं तन्तुकरणयन्त्रं चालयति स्म । लोहपुरुषस्य प्रभावः तस्य पुत्र्याः उपरि अपि अभवत् । महात्मना सञ्चालिते गुजरातविद्यापीठे पठितवती सा लोहपुरुषं प्रति, देशं प्रति च स्वकर्तव्यं सम्यक्तया जानाति स्म । सा लोहपुरुषस्य, महात्मनः च संस्कारैः परिपूर्णा अपि आसीत् । लोहपुरुषस्य स्वास्थ्यस्य, भोजनस्य, आवश्यकवस्तूनां च दायित्वं मणिबेन इत्यनया स्वीकृतम् । ततः देशसेवायाः कार्ये सल्लग्नस्य स्वपितुः सेवायाः दायित्वं तया ऊढम् । तस्य दायित्वस्य स्वीकरणेन सह “अहम् अविवाहिता एव जीवनं यापयिष्ये” इति निर्णयोऽपि तया कृतः आसीत् । पितुः सेवायाः दायित्वस्वीकरणस्य पृष्ठे मणिबेन इत्यस्याः गहनं चिन्तनम् आसीत् । सा अचिन्तयत्, “मम पिता आवयोः (मम, ममानुजस्य च) चिन्तनं कृत्वा पुनर्विवाहम् अकृत्वा स्वसुखम् अत्यजत् । अहं विवाहं कृत्वा गमिष्यामि चेत्, तस्य परिचर्यां कः करिष्यति ? सः आवाभ्यां यथा स्वसुखम् अत्यजत्, तथा अहमपि स्वसुखं त्यक्त्वा पितुः, देशस्य च सेवायै स्वां समर्पयिष्ये” इति ।

विद्यार्थिकाले गुजरातविद्यापीठे पठनस्य निर्णयः अपि मणिबेन इत्यस्याः स्वतन्त्रायै योगदानम् आसीत् । ततः पूर्वं कर्णावती-महानगरे 'प्लेग्'-रोगेण ग्रस्तानां परिचर्या अपि भारतमातुः स्वतन्त्रतायै तस्याः योगदानम् एव आसीत् । तस्याः पितामहः १८५७ तमस्य वर्षस्य विपल्वे राज्ञी लक्ष्मीबाई इत्यस्याः सैन्ये आङ्ग्लविरुद्धं युद्धम् अकरोत् । तस्याः पिता निःस्वार्थतया भारतमातुः सेवां कुर्वन् आसीत् । तस्याः ज्येष्ठपितृव्यः भारतस्वतन्त्रान्दोलनस्य सक्रियः योद्धा आसीत् । अतः मणिबेन इत्यस्याः रक्ते, संस्कारे, स्वप्नेषु सर्वत्र देशस्वतन्त्रायै दृढसङ्कल्पः आसीत् ।

१९३० तमस्य वर्षस्य विदेशिवस्तुत्यागस्य आन्दोलने मणिबेन सक्रियरूपेण भागम् अवहत् । विदेशिवस्त्राणां दहने तस्याः अतिमहत्त्वपूर्णं योगदानम् आसीत् । तस्मिन् आन्दोलने तस्याः व्यवहारः रणाङ्गणे योद्धृवत् आसीत् । विदेशिवस्त्रदहनकाले तस्याः मुखाकृतिः अत्युग्रा आसीत् । तस्याः आक्रामकः व्यवहारः तस्याः गृहजनेभ्यः, मित्रेभ्यः च नवीनः आसीत् । मणिबेन इत्यस्याः दुर्बलं शरीरं दृष्ट्वा न कस्यापि मनसि आसीत् यत्, “एषा बालिका एवम् आक्रामकस्वभावं धृत्वा आङ्ग्लानां विरोधं कर्तुं शक्नोति” इति । मणिबेन इत्यस्याः उग्रविरोधः आङ्ग्लानां कृते समस्यानां समुद्रवत् आसीत् । अतः ते तां कारागारं प्रैषयन् ।

मणिबेन यदा कारागारे आसीत्, तदा तस्याः अतिकृपणपरिस्थितिः आसीत् । नित्यम् आङ्ग्लाः भिन्नप्रकारकैः अत्याचारैः भारतीयक्रान्तिकारिणः पीडयन्ति स्म । यथा भारतीयसंस्कृत्याः उपरि प्रहारो भवेत्, तथा आङ्ग्लाः नियमान् सृजन्ति स्म । “महिलाः स्वकङ्कणानि निष्कासयन्तु” इति एकस्मिन् दिने आङ्ग्लाः आदिशन् । भारतीयमहिलाभ्यः स्वपत्युः सम्मानस्य, प्रेम्णः प्रतीकत्वेन कङ्कणं भवति । भारतीयसंस्कृत्याः उपरि प्रहारं कर्तुं ते क्रूराः, पाखण्डिनः आङ्ग्लाः एतादृशान् आदेशान् यच्छन्ति स्म ।

मूलभारतीयसंसकृत्यां शाकाहारस्य महत्त्वं प्रख्यातम् आसीत् । अतः आङ्ग्लाः क्रान्तिकारिणः पीडयितुं कारागारे क्रान्तिकारिभ्यः पशुचर्मणां प्रक्षालनस्य कार्यं यच्छन्ति स्म । नेली सेनगुप्ता स्वजीवन्याम् आङ्ग्लानाम् अत्याचारस्य विषये अलिखत्, “कारागारे भारतीयबन्दिभिः सह अमानवीयकृत्यानि भवन्ति स्म । आङ्ग्लाधिकारिणः बन्दिभ्यः पशूनां चर्माणि प्रक्षालयितुं यच्छन्ति स्म । पशु-चर्मणां दुर्गन्धस्य अतिबीभत्सत्वात् श्वसनमपि अतिदुष्करं भवति स्म” इति ।

सर्वाः महिलाः आङ्ग्लानां नियमस्य विरोधम् अकुर्वन् । परन्तु कठोराः आङ्ग्लाः बलेन स्वनियमस्य पालनम् अकारयन् । ततः मणिबेन आङ्ग्लानाम् अहिंसकविरोधं प्रारभत । सा तन्तुनिर्मितस्य कङ्कणस्य निर्माणं कृत्वा हस्ते अधरत । तस्याः अनुकरणेन सर्वाः महिलाः तन्तुकङ्कणम् अधरन्त । एवम् आङ्ग्लानां विरोधेन सह सर्वासां महिलानाम् आभूषणमपि सिद्धम् अभवत् । "तन्तुकङ्कणधारणेन नियमभङ्गः न भवति, परन्तु एताः महिलाः येन केन प्रकारेण कङ्कणं तु धरन्त्यः सन्ति" इति आङ्ग्लानां क्रोधस्य कारणम् आसीत् । अदीर्घद्रष्टारः आङ्ग्लाः तासां महिलानां विरुद्धं किमपि वक्तुं न अपारयन् ।

बारडोली-सत्याग्रहे योगदानम्

[सम्पादयतु]

१९२८ तमे वर्षे लोहपुरुषस्य नेतृत्वे गुजरातराज्यस्य बारडोलीमण्डले बारडोली-सत्याग्रहस्य आरम्भः अभवत् । मणिबेन तस्य आन्दोलनस्य महिलादलस्य सञ्चालिका आसीत् । भक्तिबेन, मीठुबेन इत्यादयः महिलाः अपि तस्य दलस्य सद्स्याः आसन् । ताः प्रतिकृषिक्षेत्रं गत्वा करं न दातुं कृषकान् निवेदयन्ति स्म । कृषकाणां पत्नीभिः सह सम्मेलनं कृत्वा तासां माध्यमेन तासां पतीः प्रेरयितुं ताः प्रयासं कुर्वन्ति स्म । अन्ततो गत्वा लोहपुरुषस्य, मणिबेन इत्यादीनां, कृषकाणां च विजयः अभवत् । बारडोली-सत्याग्रहः सफलः अभवत् ।

१९३८ तमे वर्षे राजकोट-प्रान्तस्य प्रजाः राज्ञः विरुद्धम् आन्दोलनम् आरभन्त । आन्दोलने मार्गदर्शनार्थं ते महात्मनः साहाय्यम् अपृच्छन् । परन्तु महात्मा तदा कॉङ्ग्रेस्-पक्षस्य अन्येषु कार्येषु व्यस्तः आसीत् । अतः कस्तूरबा राजकोट-प्रान्तं गन्तुम् उद्युक्ता । परन्तु तस्मिन् काले कस्तूरबा इत्यस्याः स्वास्थ्यं सम्यक् नासीत् । अतः महात्मा तस्यै राजकोट-प्रान्तं गन्तुम् अनुमतिं नायच्छत् । ततः “मणिबेन, मृदुलाबेन इत्येताभ्यां सह कस्तूरबा गन्तुं शक्नोति” इति महात्मा अवदत् । महात्मनः आज्ञानुसारं ताः सर्वाः राजकोट-प्रान्तं प्रति यात्रां प्रारभन्त । परन्तु मार्गे एव आङ्ग्लाः मणिबेन, मृदुलाबेन इत्येते कारागारं प्रेषयन् । एकस्मिन् जीर्णे गृहे कस्तूरबा इत्यस्याः निवासस्य व्यवस्था अभवत् । परन्तु तत् गृहं परितः आङ्ग्ल-आरक्षकाः नियुक्ताः आसन् । तस्मिन् गृहे कस्तूरबा इत्यस्याः स्वास्थ्यम् असम्यक् अभवत् । मणिबेन मुहुर्मुहुः कस्तूरबा इत्यनया सह निवासाय अनुमतिं दातुम् आङ्ग्ल-आरक्षकान् न्यवेदयत् । परन्तु क्रूराः आङ्ग्लाः तस्याः निवेदनं न अङ्ग्यकुर्वन् । अतः मणिबेन उपवासं प्रारभत । ततः भीताः आङ्ग्लाः कस्तूरबा इत्यनया सह निवसितुं मणिबेन इत्यस्यै अनुमतिम् अयच्छन् । कस्तूरबा इत्यस्याः हस्तेन जलं पीत्वा मणिबेन स्वोपवासम् अत्यजत् । ततः तस्मिन् आन्दोलने ताः राजकोट-प्रान्तस्य प्रजानां मार्गदर्शनम् अकुर्वन् ।

१९४२ तमे वर्षे त्यजतु भारतम्-आन्दोलने आङ्ग्लानां विरोधे कृते सति मणिबेन अनेकवारं कारावासस्य दण्डं प्रापत् । १९३० तः १९४२ पर्यन्तं सा महाराष्ट्रराज्यस्य मुख्येषु कारागारेषु वासं कृतवती आसीत् । येरवडा-कारागारे, थाणा-कारागारे, आर्थर्-कारागारे, हिङ्गलगा-कारागारे तया बहूनि दिनानि यापितानि । परन्तु तस्याः देशस्वतनत्रतायाः दृढसङ्कल्पः शिथिलः नाभवत् । कारागारे सा मितभोजनं करोति स्म । अतः तस्याः शरीरं कृशं जातम् आसीत् ।

सञ्चिका:लोहपुरुषस्य शवः.jpg
लोहपुरुषस्य निधनानन्तरं मणिबेन

१९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतस्वतन्त्रतायाः शुभसमाचारेण सह भारतविभाजनस्य दुःखदसमाचारं श्रुत्वा देशजनानां उल्लासः शोके परिवर्तितः । देशविभाजनस्य सांविधानिकं दायित्वं लोहपुरुषस्य उपरि आपतितम् । भारतस्य वर्तमानसमृद्धेः पृष्ठे तस्य अविरतप्रयास एव अस्ति । अन्यथा आङ्ग्लैः तु भारतस्य विभाजनाय पाकिस्थानसदृशाः अनेकाः देशाः ईप्सिताः आसन् । परन्तु लोहपुरुषस्य देशनिष्ठया, योग्यनिर्णयैः, मृदुस्वभावेन च अखण्डभारतस्य रचना अभवत् । विभाजनस्य प्रक्रिया यदा चलन्ती आसीत्, तदा लोहपुरुषः अस्वस्थः आसीत् । अतः तस्य नित्य-नैमित्तिकानाम् आवश्यकतानां प्रबन्धनस्य दायित्वं मणिबेन इत्यनया स्वीकृतम् । तस्मिन् काले मणिबेन लोहपुरुषस्य निजसचिवत्वेनापि कार्यं करोति स्म । हैदराबाद-जुनागढ-काश्मीर इत्यादीनां प्रदेशानां प्रवासेषु लोहपुरुषस्य छायात्वेन मणिबेन कार्यं करोति स्म ।

शनैः शनैः लोहपुरुषस्य स्वास्थ्यं शिथिलं भवद् आसीत् । १९५० तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे (२५/१२/१९५०) दिनाङ्के लोहपुरुषः मातृभूमौ विलीनः अभवत् । अत्र लोहपुरुषस्य एकस्य पत्रस्य उल्लेखः आवश्यकः । भारतस्य स्वतन्त्रतायाः पूर्वं लोहपुरुषः यदा कारागारे आसीत्, तदा तेन अनुभूतं यत्, “सद्यः मम स्वास्थं समीचीनं न भवति । मम देहावसानानन्तरं मम पुत्र्याः किं भविष्यति ? सा तु एकाकिनी भविष्यति” इति । एतादृशाः विचाराः तस्य मनसि दीर्घकालं यावत् समुद्भवन् । एकस्मिन् दिने सः स्वपुत्रीं पत्रम् अलिखत्, “अहं तु वृद्धः अभवम् । मम जीवनस्य अन्तिमक्षणः कदा आगमिष्यति इत्यस्य परिकल्पना कर्तुं न शक्यते । यदा कदापि अहं मातृभूमौ विलीनः भवितुं शक्नोमि । अतः त्वया तव जीवनविषये विचारः अधुनैव करणीयः । अहं तव कृते धनस्य, सम्पतेः च व्यवस्थां कर्तुं तु असमर्थः । परन्तु यदि त्वं किमपि कार्यं कर्तुम् इच्छसि, तर्हि तस्मिन् कार्ये त्वां नियोजयितुं शक्नोम्यहम्” इति । बहूनि वर्षाणि व्यतीतानि, परन्तु पितुः उक्तस्य पत्रस्य उत्तरं मणिबेन कदापि नायच्छत् । एवमपि वक्तुं शक्नुमः यत्, “निःस्वार्थस्वभाविनी सा किमपि नैच्छत् उत पितुः मृत्योः विषये चिन्तनमात्रेणैव तस्याः मनसि दुःखस्य महासागरः उद्भवति स्म” इति । कारणं यत्किमपि स्यात्, परन्तु लोहपुरुषस्य गमनानन्तरं मणिबेन इत्यस्याः जीवनम् एकाकि अभवत् ।

१९५१ तमे वर्षे 'नवजीवन ट्रस्ट्' इत्यस्याः प्रकाशनसंस्थायाः, 'गान्धी स्मारक ट्रस्ट' इत्यस्याः संस्थायाः, 'महादेव देसाई स्मारक ट्रस्ट्' इत्यस्याः संस्थायाः च प्रमुखत्वेन तस्याः नियुक्तिः अभवत् । १९५२ तमस्य वर्षस्य लोकसभायाः निर्वाचने मणिबेन प्रत्याशिनी आसीत् । यद्यपि सा एकवारमपि मतं याचयितुं नागच्छत्, तथापि सा मताधिक्येन विजयं प्रापत् । १९५७ तमे वर्षे अपि मताधिक्येन सा अजयत । १९६४ तः १९७० पर्यन्तं सा राज्यसभायाः सदस्या आसीत् । सांविधानिकनियमानुसारं राज्यसभायाः सदस्याः रेल्-यानस्य प्रथमवर्गस्य प्रवेशपत्रं प्राप्नुवन्ति । मणिबेन अपि तत् प्रवेशपत्रं प्रापत्, परन्तु सा तस्य प्रथमवर्गस्य प्रवेशपत्रस्य उपयोगम् अकृत्वा सामान्यजनवत् अन्तिमवर्गे एव यात्रां करोति स्म ।

लोहपुरुषस्य जीवनकाले एव कॉङ्ग्रेस्-पक्षस्य भागद्वयं जातम् आसीत् । अतः कॉङ्ग्रेस्-पक्षे मणिबेन इत्यस्याः कृते योग्यं स्थानं नासीत् । यद्यपि कॉङ्ग्रेस्-पक्षं त्यक्तुं तस्याः इच्छा नासीत्, तथापि सा कॉङ्ग्रेस्-पक्षं त्यक्त्वा जनतादले कार्यं प्रारभत । १९७३ तमे वर्षे गुजरातराज्यस्य साबरकाठामण्डलात् जनतापक्षस्य सदस्यत्वेन कॉङ्ग्रेस्-पक्षस्य प्रत्याशिविरुद्धं मतबाहुल्येन सा विजयं प्रापत् । १९७७ तमे वर्षे गुजरातराज्यस्य महेसाणामण्डलात् पुनः सा विजयं प्रापत् । परन्तु ततः सा राजनीतिक्षेत्रे असक्रिया अभवत् । १९८८ तमे वर्षे सा 'कस्तूरबा ट्रस्ट्' इत्यस्याः संस्थायाः प्रमुखपदम् अपि अत्यजत् ।

मृत्युः

[सम्पादयतु]

शनैः शनैः सा अस्वस्था भवन्ती आसीत् । 'कस्तूरबा ट्रस्ट्' इत्यस्याः संस्थायाः सेविकाः ताम् अवदन्, “भगिनी ! अत्र इन्दौर-महानगरम् आगत्य निवसतु” इति । परन्तु मणिबेन तासां निवदेनं नाङ्ग्यकरोत् । १९९० तमस्य वर्षस्य 'मार्च'-मासस्य षड्विंशतितमे (२६/३/१९९०) दिनाङ्के सप्ताशीतितमे वयसि गुजरातराज्यस्य आणन्दमण्डलस्य कमरमसद-ग्रामे तस्याः मृत्युः अभवत् ।

भारतस्य विभीषणः इत्यपि सा प्रसिद्धा आसीत् । एतस्याः प्रसिद्ध्याः पृष्ठे एका घटना वर्तते । १९७७ तमे वर्षे इन्दिरा गान्धी इत्यनया आपत्कालस्य घोषणा कृता आसीत् । तस्मिन् समये मणिबेन संसद्सभ्या आसीत् । संसद्सभ्यत्वात् सा देहली-महानगरे निवसति स्म । सद्यकालीनाः संसद्सभ्याः तु निजवायुयानेषु देशाटनं कुर्वन्तः सन्ति । परन्तु तस्मिन् काले मणिबेन इत्यस्याः पार्श्वे एका द्विचक्रिका अपि नासीत् ।

एकस्मिन् दिने द्वे स्त्रियौ मणिबेन इत्यनया सह चर्चां कर्तुं मुम्बई-महानगरात् देहली-महानगरं गते आस्ताम् । ते टॅक्सी-यानेन मणिबेन इत्यस्याः गृहं प्रापेताम् । मणिबेन इत्यनया सह सम्भाषणे समाप्ते सति ते प्रतिगमनाय उद्युक्ते । तत् दृष्ट्वा मणिबेन नम्रस्वरेण न्यवेदयत्, “यदि भवत्यौ टॅक्सी-यानेन कैलासनगरं भूत्वा गच्छन्त्यौ स्तः, तर्हि मामपि तत्र अवतार्य गच्छतः चेत्, मम लाभाय । यतो हि अहं मम भ्रातृजस्य गृहं गन्तुम् इच्छामि” इति । मणिबेन इत्यस्याः वचनं श्रुत्वा ते स्त्रियौ अतिप्रसन्नवदनेन मणिबेन इत्यस्याः निवेदनम् अङ्ग्यकुरुताम् ।

मणिबेन टॅक्सी-याने औपविशत् । कैलासनगरं प्राप्ते सति यानचालकः टॅक्सी-यानम् अस्थगयत् । मणिबेन यानात् अवतीर्य स्वभ्रातृजस्य गृहं प्रति चलनं प्रारभत । तस्मिन्नेव काले यानचालकः ते स्त्रियौ अपृच्छत्, “भोः ! सा वृद्धा का आसीत् ?” इति । “भवान् तां न जानाति ?” इति ते स्त्रियौ आश्चर्येण प्रतिप्रश्नम् अकुरुताम् । “सा तु लोहपुरुषस्य पुत्री मणिबेन आसीत्” इति एका महिला अवदत् । यानचालकः झटिति यानात् अवतीर्य मणिबेन इत्यस्याः चरणधूलिकां स्वमस्तके स्थापयन् गच्छन्तीं मणिबेन इत्येनां प्रणामम् अकरोत् । ते स्त्रियौ यानचालकस्य व्यवहारेण आश्चर्यचकिते अभवताम् । तयोः एका महिला यानचलकम् अपृच्छत्, “मणिबेन इत्येनां प्रति एतावन्तम् आदरं प्रकटयितुं किमपि कारणम् अस्ति वा ?” इति । यानचालकः अवदत्, “भवत्यौ रामायणम् अपठताम् ? यद्यपि महाबलः हनुमान् लङ्कादहनम् अकरोत्, तथापि विभीषणस्य पुण्यप्रतापेन लङ्कायाः रक्षणम् अभवत् । तथैव अधुना या महिला अगच्छत्, तस्याः पुण्यप्रभावेनैव भारतं सुरक्षितम् अस्ति । अन्यथा लङ्कायाः अपेक्षया अपि भारतस्य स्थितिः दारुणम् अभविष्यत्” इति ।

उक्तघटनया ज्ञायते यत्, मणिबेन इत्यस्याः कृते जनसामान्यानां मनसि कीदृशः आदरभावः आसीत् इति । एतादृशी महिला भारतस्य महिलाभ्यः, जनसामान्येभ्यश्च आदर्शरूपा अस्ति । तस्यै कोटिशः नमस्काराः ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सरदार वल्लभभाई पटेल

गुजरातविद्यापीठम्

जनतादलम्

कस्तूरबा

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://timesofindia.indiatimes.com/city/ahmedabad/Knowing-Sardar-Patel-through-his-daughters-diary/articleshow/8767495.cms

http://alphaideas.in/2013/10/29/nehru-treated-sardar-patels-daughter/

http://www.tribuneindia.com/2001/20010930/spectrum/main1.htm

http://www.thehindu.com/2001/09/16/stories/1316017g.htm

http://www.indianetzone.com/3/maniben_patel.htm

http://ratthes.blogspot.in/2013/11/sardar-vallabhbhai-patel-as-told-by-his.html

"https://sa.wikipedia.org/w/index.php?title=मणिबेन_पटेल&oldid=358489" इत्यस्माद् प्रतिप्राप्तम्