सामग्री पर जाएँ

सुचेता कृपलाणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुचेता कृपलाणी
Sucheta Kriplani
सुचेता जीवराम कृपलाणी
जन्म २५/६/१९०८
अम्बाला-नगरं, हरियाणाराज्यम्
मृत्युः १/१२/१९७४
शिक्षणस्य स्थितिः देहलीविश्वविद्यालयः, इंद्रप्रस्थ कॉलेज फॉर विमेन Edit this on Wikidata
वृत्तिः राजनैतिज्ञः, स्वतंत्रता सेनानी edit this on wikidata
कृते प्रसिद्धः भारतगणराज्ये प्रप्रथममहिलामुख्यमन्त्रित्वेन गौरवम्
भार्या(ः) आचार्य कृपलानी Edit this on Wikidata

सुचेता कृपलाणी ( /ˈsʊxɛtɑː krpəlɑːn/) (हिन्दी: सुचेता कृपलाणी, आङ्ग्ल: Sucheta Kriplani) भारतस्वतन्त्रतायां महत्त्वपूर्णं योगदानम् अकरोत् । स्वतन्त्रतानन्तरम् अपि भारतगणराज्यस्य व्यवस्थापने तस्याः महद्योगदानं वर्तते । सा भारतगणराज्यस्य प्रप्रथममहिलामुख्यमन्त्रित्वेन गौरवं प्रापत् । सा उत्तरप्रदेशराज्यस्य मुख्यमन्त्री पदं व्यभूषयत् । तस्याः पतिः जीवरामः अपि स्वतन्त्रसेनानी आसीत् । अन्तिमश्वासपर्यन्तं तौ दम्पती भारतस्य सेवाम् अकुरुताम् ।

जन्म, परिवारश्च

[सम्पादयतु]

१९०८ तमस्य वर्षस्य जून-मासस्य पञ्चविंशतितमे (२५/६/१९०८) दिनाङ्के हरियाणाराज्यस्य अम्बाला-नगरे सुचेतायाः जन्म अभवत् । तस्याः पिता सत्येन्द्रनाथः पञ्जाबराज्यस्य सर्वकारिवैद्यालये चिकित्साधिकारी (Medical Officer) आसीत् । सत्येन्द्रनाथ मजूमदार मूलतः वङ्गप्रदेशीयः आसीत् । परन्तु आजीवकार्थं सः हरियाणाराज्ये निवसति स्म । सः ब्रह्मसमाजस्य अनुयायी आसीत् ।

शिक्षणम्

[सम्पादयतु]

यतो हि सत्येन्द्रनाथः सर्वकारस्य अधिकारी आसीत्, अतः तस्य पौनःपुन्येन स्थानन्तरणं भवति स्म । तस्मात् कारणात् सुचेतायाः शिक्षणं विभिन्नेषु राज्येषु, विभिन्नेषु नगरे च अभवत् । सा इलाहाबाद, देहली, लाहोर इत्यादिषु नगरेषु अध्ययनम् अकरोत् । शैक्षणिकज्ञानार्जनेन सह तस्याः रुचिः देशस्वतन्त्रयाम् अपि आसीत् । अतः सा पितृभ्यां देशस्वतन्त्रायाः विषये अपि ज्ञानं प्राप्नोति स्म ।

पञ्जाबराज्ये यदा जलियावालाहत्याकाण्डः अभवत्, तदा सुचेतायाः परिवारः पञ्जाबराज्ये एव निवसति स्म । तस्मिन् वर्षे तस्याः वयः एकादशं वर्षम् आसीत् । तस्मिन् वर्षे यः जलियावालाहत्याकाण्डः अभवत्, तेन तस्याः मनसि आङ्ग्लानां प्रति द्रोहः समुद्भूतः । ततः सा देहली-महानगरस्य इन्द्रप्रस्तमहाविद्यालये, सेण्ट् स्टेफन्स्-महाविद्यालये च अध्ययनम् अकरोत् । यतो हि तस्याः पितुः स्थानान्तरं देहली-महानगरे अभवत् । ततः सर्वकारस्य आदेशेन सत्येन्द्रनाथः सपरिवारं लाहोर-महानगरम् अगच्छत् । १९३१ तमस्य वर्षस्य मार्च-मासस्य त्रयोविंशतितमे (२३/३/१९३१) दिनाङ्के आङ्ग्लाः कारागारे एव भगत सिंह, राजगुरु, सुखदेव इत्येषां हत्याम् अकुर्वन् । सा दुर्घटना सुचेतायाः मानसपटले क्रोधस्य, शोकस्य च भावम् औद्भावयत् । तस्मिन् दिने सा तेषां क्रान्तिकारिणाम् अन्तिमयात्रायाम् अपि उपस्थिता आसीत् । तस्मिन् वर्षे सा एम्. ए पदवीं प्रापत् । आविद्यालयं तस्याः प्रथमक्रमाङ्कः आसीत् ।

व्यवसायः

[सम्पादयतु]

१९३१ तमे वर्षे सा एम्. ए. इत्यस्य पदवीं प्रापत् । ततः सा वृत्त्युपार्जनाय सज्जा आसीत् । तस्याः उज्वलेन शिक्षणेन प्रभाविताः अनेकाः विश्ववद्यालयाः तस्यै प्राधापिकायाः पदं दातुं तत्पराः आसन् । यस्मिन् लाहोर-विश्वविद्यालये सा अपठत्, तस्मिन् अपि सा प्राध्यापिकात्वेन कार्यं कर्तुं शक्नोति स्म । परन्तु तस्याः चिन्तनम् आसीत् यत्, "यत्र कार्यं करोमि, तत्र वृत्तिना सह देशकार्यम् अपि मया कर्तव्यम्" इति । लाहोर-विश्वविद्यालयः आङ्ग्लसर्वकारेण सञ्चालितः विश्वविद्यालयः आसीत् । अतः तया उत्तरप्रदेशराज्यस्य वाराणस्यां नवरचिते बनारसहिन्दुविश्वविद्यालये कार्यं प्रारब्धम् ।

स्वतन्त्रान्दोलने योगदानं, विवाहश्च

[सम्पादयतु]

यदा सुचेता बनारसहिन्दुविश्वविद्यालये प्राध्यापिका आसीत्, तदा महात्मना सविनयनियमभङ्गान्दोलनस्य उद्धोषणा कृता आसीत् । तस्मिन् काले बनारसहिन्दुविश्वविद्यालयः राजकनैतिकक्षेत्रस्य केन्द्रम् आसीत् । सर्वे माहान्तः नेतारः तस्मिन् विश्वविद्यालये विद्यार्थिनः देशभकत्याः उपदेशान् यच्छन्ति स्म । तं विश्वविद्यालयं तेषाम् आवागमनम् अतिसामान्यम् आसीत् । अनेकाः विद्यार्थिनः, शिक्षकाः अपि प्रत्यक्षाप्रत्यक्षरीत्या स्वतन्त्रतासङ्ग्रामे योगदानं यच्छन्ति स्म । सुचेता अपि स्वविद्यार्थिनः स्वतन्त्रतासङ्ग्रामे सक्रियरूपेण भागम् ओढुं प्रेरयति स्म ।

१९३४ तमे वर्षे भारतस्य बिहारराज्ये विनाशकारी भूकम्पः अभवत् । तेन भूकम्पेन अनेके भारतीयाः पीडिताः । भोजन-आवास-वस्तु-वस्त्र-पठनादीनाम् अभावेन जनसामान्यानां स्थितिः अतिदयनीया आसीत् । परन्तु सर्वकारः भूकम्पपीडितेभ्यः किमपि न करोति स्म । अतः महात्मा गान्धी भूकम्पपीडितानां साहाय्यार्थं डॉ. राजेन्द्र प्रसाद इत्येनं बिहारराज्यं प्रैषयत् । ततः सः अपि सेवायै बिहारराज्यम् अगच्छत् । बिहारराज्ये जयप्रकाश नारायण, महात्मा, डॉ. राजेन्द्र प्रसाद इत्यादीनां नेतृत्वे अनेके क्रान्तिकारिणः देशसेवायाः कार्ये रताः आसन् । तेषु क्रान्तिकारिषु सुचेता अपि आसीत् । तस्मिन् वर्षे बिहारराज्यं भारतीयक्रान्तिकारिणाम् अस्थायि निवासस्थानम् अभवत् । सुचेतायाः सम्पर्कः अन्यक्रान्तिकारिभिः सह अभवत् । सा देशसेवायाः अनेकान् नूतनमार्गान् प्रापत् । तस्मिन् वर्षे तस्याः परिचयः जीवराम भगवानदास कृपलाणी-नामकेन समाजसेवकेन सह अभवत् । तयोः देशभक्त्याः उद्देशेन सह, विचाराः अपि समानाः आसन् । अतः तयोः मित्रता प्रेमसम्बन्धे पर्यणमत (परिणमित हुआ) ।

१९३६ तमे वर्षे परिणेया (विवाहयोग्या) सा जीवराम भगवानदास कृपलाणी इत्यनेन सह विवाहसूत्रेण अबध्नात् । ततः सा भारतीयराष्ट्रियकॉङ्ग्रेस-पक्षेण सह सल्लग्ना । तयोः वैवाहिकं जीवनं कलहाभावयुक्तम् आसीत् । सामान्यतः पत्युः व्यक्तित्वस्य छायायां पत्न्याः व्यक्तित्वं प्रच्छन्नम् (अदृश्यवत्) भवति । यथा महात्मनः व्यक्तित्वेन कस्तूरबा इत्यस्याः व्यक्तित्वम् आच्छादितम् । परन्तु स्वस्याः सुदृढविचारैः, द्रढसङ्कल्पशक्त्या च सुचेता समाजे प्रतिष्ठां प्रापत् ।

राजनीतिक्षेत्रे सुचेता

[सम्पादयतु]

जमनालाल बजाज-नामकः कश्चन समाजसेवी वर्धा-आश्रमस्य महिलाविभागस्य दायित्वम् वोढुं सुचेतां न्यवेदयत् । यद्यपि सुचेता जानाति स्म यत्, आश्रमस्य जीवनं काठिन्येन, अभावेन च परिपूर्णं भवति, तथापि सा आश्रमस्य महिलाविभागस्य दायित्वम् अङ्ग्यकरोत् । आश्रमे यदा सुचेता निवसन्ती आसीत्, तदा सा कॉङ्ग्रेस-पक्षे अपि कार्यं प्रारभत । सा कॉङ्ग्रेस्-कार्यालयस्य विदेशविभागे कार्यं प्रारभत । भारतस्वाधीनतायां वैदेशिकभारतीयः अपि स्वयोगदानं दद्युः इति तस्याः लक्ष्यम् आसीत् । अतः सा वैदेशिकभारतीयः एतस्य पाक्षिकपत्रस्यापि मुद्रणम् आरभत । ततः तस्य पाक्षिकस्य दायित्वं राममनोहरेण स्वीकृतम् । अतः सुचेता कॉङ्ग्रेस-कार्यालयस्य महिलाविभागे कार्यं प्रारभत ।

सत्याग्रहान्दोलने सुचेता

[सम्पादयतु]

१९४० तमे वर्षे महात्मा सत्याग्रहान्दोलनस्य घोषणाम् अकरोत् । सः विनोबा भावे इत्येनं प्रप्रथमसत्याग्रहित्वेन उदघोषयत् । महात्मा उत्तरप्रदेशराज्यस्य सत्याग्रहित्वेन सुचेतायै दायित्वम् अयच्छत् । १९४० तमस्य वर्षस्य दिसम्बर्-मासे सत्याग्रहं कर्तुं सुचेता उत्तरप्रदेशराज्यस्य फैजाबादमण्डलम् अगच्छत् । परन्तु फैजाबादमण्डले सत्यग्रहारम्भात् प्रागेव आङ्ग्लाः तां कारागारं प्रैषयन् । अभियोगे न्यायाधीशः सुचेतायै एकवर्षं यावत् कारावासस्य दण्डम् अयच्छत् । केचन मासाः सा फैजाबाद-नगरस्थे कारागारे आसीत् । ततः आङ्ग्लाः तां लखनऊ-महानगरस्थं कारागारं प्रैषयन् । कारावाससमये सा अस्वस्था अभवत् । मरणस्थितौ सत्यपि आङ्ग्लाः दण्डसमाप्तिं यावत् तां कारागारात् नामुञ्चन् ।

१९४१ तमे वर्षे यदा सुचेता कारागारात् विमुक्ता, तदा सा अस्वस्था आसीत् । अतः कानिचन दिनानि विश्रान्तिं स्वीकृत्य सा पुनः देशसेवायाः कार्ये सल्लग्ना अभवत् । १९४२ तमस्य वर्षस्य अगस्त-मासे मुम्बई-महानगरे कॉङ्ग्रेस-पक्षस्य राष्ट्रियाधिवेशनम् आसीत् । तस्मिन् अधिवेशने त्यजतु भारतम् इत्यस्य आन्दोलनस्य घोषणा अभवत् । त्यजतु भारतम् आन्दोलनम् आरभेत, तस्मात् पुरा एव आङ्ग्लाः महात्मानं कारागारं प्रैषयन् । तेन सह अनेकान् क्रान्तिकारिणः आङ्ग्लाः कारागारं प्रैषयन् । तेषु क्रान्तिकारिषु जीवराम भगवानदास कृपलाणी अपि आसीत् । सर्वेषां नेतॄणां कारावासेन आन्दोलनस्य असफलतायाः स्थितिः औद्भविष्यत्, परन्तु सुचेता, कस्तुरबा, मणिबेन इत्यादीनां महिलाक्रान्तिकारिणीनां नेतृत्वे आन्दोलनं जनसामान्यानाम् आन्दोलनत्वेन प्रसिद्धम् अभवत् । ततः कस्तुरबा, मणिबेन इत्यादीनां कारावासानन्तरं ये क्रान्तिकारिणः गुप्तवासं स्वीकृत्य आन्दोलनं कुर्वन्तः आसन्, तैः सह मिलित्वा सुचेता आन्दोलने सक्रिययोगदानम् अयच्छत् । गुप्तवासिनः क्रान्तिकारिणः आङ्ग्लविरुद्धं प्रचाराय आकाशवाणीकेन्द्रस्य स्थापनाम् अकुर्वन् । तस्य केन्द्रस्य उद्घोषिका (R.J.- Radio jockey) उषा महेता आसीत् । परन्तु बहुस्वल्पे काले एव आङ्ग्लैः तत् केन्द्रं प्रतिबन्धितम् (अवरोधितम्) ।

गुप्तवासे सुचेता एकस्य महिलास्वयंसेविकादलस्य रचनाम् अकरोत् । तत् दलं भारतीयेषु देशस्वतन्त्रतायाः भावोत्पादनस्य कार्यं करोति स्म । तत् दलं नागरिकाणां साहाय्यार्थम् अपि सर्वदा प्रस्तुतं भवति स्म । देशस्य विभिन्नेषु स्थानेषु महिलास्वयंसेविकादलस्य अनेकानि केन्द्राणि आसन् । एकस्मिन् दिने निर्भया सुचेता गुप्तवेषं धृत्वा आगाखान-प्रासादं (तस्मिन् काले कारागारम् आसीत् ।) गत्वा महात्मना़ सह अपि आन्दोलनस्य विषये चर्चां कृत्वा आगच्छत् ।

१९४४ तमे वर्षे सुचेतायाः गुप्तवासस्य अन्तः अभवत् । सर्वकारविरोधिकार्याणाम् अपराधार्थम् आङ्ग्लाः तां कारागारं प्रैषयन् । कांश्चन मासान् यावत् सा पटना-नगरस्य कारागारे आसीत् । ततः आङ्ग्लाः तां लाहोर-महानगरस्थं कारागारं प्रैषयन् । १९४५ तमे कॉङ्ग्रेस-पक्षस्य आङ्ग्लसर्वकारस्य च राजनैतिकसन्धिः अभवत् । तस्याः सन्धेः अनन्तरं कॉङ्ग्रेस-पक्षस्य सर्वान् नेतॄन् आङ्ग्लाः अमुञ्चन् । तेषु सुचेता अपि अन्यतमा आसीत् ।

भारतस्वतन्त्रतानन्तरं सुचेता

[सम्पादयतु]

१९४७ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । भारतविभाजनेन भारतस्वतन्त्रतायाः उत्सवः शोके परिवर्तितः । आभारतं साम्प्रदायिकहिंसाः भवन्त्यः आसन् । प्रतिवीथिकासु रक्तपातं दृष्ट्वा स्वतन्त्रताक्रान्तिकारिणां अक्षिभ्यां रक्ताश्रूणि पतन्ति आसन् । यस्य देशस्य विमुक्त्यै ते स्वजीवनं समार्पयन्, तस्य देशस्य साम्प्रदायाधारितेन विभाजनेन सह साम्प्रदायिकहिंसाः तेषां दुःखस्य कारणम् आसीत् । सुचेता यत् स्वप्नं बाल्यकालात् पश्यन्ती आसीत्, तत् स्वप्नं पूर्णम् अभवत् । भारतगणराज्यं स्वतन्त्रम् अभवत् । परन्तु सुचेतायाः स्वेप्ने भारतविभाजनाय किमपि स्थानं नासीत् । भारतविभाजनेन सा दुःखिता आसीत् । सा साम्प्रदायिकहिंसायां ये जनाः पीडिताः आसन्, तेषां साहाय्यार्थं पञ्जाबराज्यम् अगच्छत् ।

१९४८ तमे वर्षे पूर्वपाकिस्थानदेशे हिन्दुजनविरुद्धं हिंसात्वात् तस्मात् देशात् हिन्दुजनाः भारतम् आगच्छन्तः आसन् । आगताः हिन्दुजनाः बङ्गाल-बिहार-असम-राज्येषु शरणार्थित्वेन निवसन्ति स्म । तेषां शरणार्थिनां निवासव्यवस्थां कर्तुं भारतसर्वकारेण एकस्याः समितेः रचना कृता । तस्याः समितेः अध्यक्षा सुचेता कृपलाणी आसीत् ।

दीर्घकालं यावत् कॉङ्ग्रेस्-पक्षस्य सदस्यत्वेन कार्यं कृतवती सुचेता पक्षे समर्थनेतृषु अन्यतमा अभवत् । अतः पक्षः तस्यै महासचिवत्वेन दायित्वम् प्रादीयत (अयच्छत्) । १९५९ तमे वर्षे सुचेता कॉङ्ग्रेस्-पक्षस्य महासचिवत्वेन कार्यं प्रारभत । १९६२ तमे वर्षे सा उत्तरप्रदेशराज्यस्य महिला एवं श्रमविभागस्य मन्त्री अभवत् । १९६३ तमस्य वर्षस्य 'अक्तूबर'-मासस्य द्वितीये (२/१०/१९६३) दिनाङ्के उत्तरप्रदेशराज्यस्य मुख्यमन्त्रित्वेन सुचेता कृपलाणी कार्यं प्रारभत । सा भारतगणराज्ये प्रप्रथममहिलामुख्यमन्त्रित्वेन गौरवं प्राप्नोत् । वर्षत्रयं सा निष्ठया मुख्यमन्त्रीत्वेन कार्यम् अकरोत् । परन्तु ततः कॉङ्ग्रेस्-पक्षस्य आन्तःकलहेन त्रस्ता सा १९६७ तमस्य वर्षस्य 'मार्च'-मासस्य त्रयोदशे (१३/३/१९६७) दिनाङ्के पदत्यागम् अकरोत् । ततः तया राजनीतिक्षेत्रात् संन्यासः स्वीकृतः ।

मृत्युः

[सम्पादयतु]

सुचेता कृपलाणी राजनीतिक्षेत्रे तु निष्क्रिया आसीत् । परन्तु तया सामाजसेवायाः कार्याणि अन्तिमसमयपर्यन्तं न त्यक्तानि । सा स्वजीवनस्य अन्तिमसमयस्य उपयोगं समाजसेवायै अकरोत् । १९७४ तमस्य वर्षस्य 'नवम्बर'-मासस्य एकोनविंशतितमे (२९/११/१९७४) दिनाङ्के सा हृदयाघातेन ग्रस्ता । ततः देहली-महानगरस्य ए. आई. एम्. एस्. (All-India Institute of Medical Science) रुग्णालये तस्याः स्व १९७४ तमस्य वर्षस्य 'दिसम्बर'-मासस्य प्रथमे (१/१२/१९७४) दिनाङ्के तस्याः मृत्युः अभवत् ।

सम्बद्धाः लेखाः

[सम्पादयतु]

मुख्यमन्त्री

उत्तरप्रदेशराज्यम्

बनारसहिन्दुविश्वविद्यालयः

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://www.thecolorsofindia.com/interesting-facts/government/first-woman-chief-minister-in-india.html

http://www.iloveindia.com/indian-heroes/sucheta-kripalani.html Archived २०१४-०९-१२ at the Wayback Machine

http://www.indianetzone.com/2/sucheta_kriplani.htm Archived २०१४-०८-२२ at the Wayback Machine

http://www.thesindhuworld.com/sucheta.html Archived २०१२-०१-१० at the Wayback Machine

http://www.womenplanet.in/first-woman/chief-minister-of-india

http://www.womenplanet.in/biography/sucheta-kriplani

http://indianeducation1.weebly.com/sucheta-kriplani.html

http://politics.jagranjunction.com/2011/12/16/first-women-chief-minister-of-india-sucheta-kriplani/

"https://sa.wikipedia.org/w/index.php?title=सुचेता_कृपलाणी&oldid=498488" इत्यस्माद् प्रतिप्राप्तम्