सुचेता कृपलाणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुचेता कृपलाणी
Sucheta Kriplani
सुचेता जीवराम कृपलाणी
जन्म २५/६/१९०८
अम्बाला-नगरं, हरियाणाराज्यम्
मृत्युः १/१२/१९७४
शिक्षणस्य स्थितिः देहलीविश्वविद्यालयः, Indraprastha College for Women Edit this on Wikidata
वृत्तिः राजनैतिज्ञः, स्वतंत्रता सेनानी&Nbsp;edit this on wikidata
कृते प्रसिद्धः भारतगणराज्ये प्रप्रथममहिलामुख्यमन्त्रित्वेन गौरवम्
भार्या(ः) आचार्य कृपलानी Edit this on Wikidata

सुचेता कृपलाणी ( /ˈsʊxɛtɑː krpəlɑːn/) (हिन्दी: सुचेता कृपलाणी, आङ्ग्ल: Sucheta Kriplani) भारतस्वतन्त्रतायां महत्त्वपूर्णं योगदानम् अकरोत् । स्वतन्त्रतानन्तरम् अपि भारतगणराज्यस्य व्यवस्थापने तस्याः महद्योगदानं वर्तते । सा भारतगणराज्यस्य प्रप्रथममहिलामुख्यमन्त्रित्वेन गौरवं प्रापत् । सा उत्तरप्रदेशराज्यस्य मुख्यमन्त्री पदं व्यभूषयत् । तस्याः पतिः जीवरामः अपि स्वतन्त्रसेनानी आसीत् । अन्तिमश्वासपर्यन्तं तौ दम्पती भारतस्य सेवाम् अकुरुताम् ।

जन्म, परिवारश्च[सम्पादयतु]

१९०८ तमस्य वर्षस्य जून-मासस्य पञ्चविंशतितमे (२५/६/१९०८) दिनाङ्के हरियाणाराज्यस्य अम्बाला-नगरे सुचेतायाः जन्म अभवत् । तस्याः पिता सत्येन्द्रनाथः पञ्जाबराज्यस्य सर्वकारिवैद्यालये चिकित्साधिकारी (Medical Officer) आसीत् । सत्येन्द्रनाथ मजूमदार मूलतः वङ्गप्रदेशीयः आसीत् । परन्तु आजीवकार्थं सः हरियाणाराज्ये निवसति स्म । सः ब्रह्मसमाजस्य अनुयायी आसीत् ।

शिक्षणम्[सम्पादयतु]

यतो हि सत्येन्द्रनाथः सर्वकारस्य अधिकारी आसीत्, अतः तस्य पौनःपुन्येन स्थानन्तरणं भवति स्म । तस्मात् कारणात् सुचेतायाः शिक्षणं विभिन्नेषु राज्येषु, विभिन्नेषु नगरे च अभवत् । सा इलाहाबाद, देहली, लाहोर इत्यादिषु नगरेषु अध्ययनम् अकरोत् । शैक्षणिकज्ञानार्जनेन सह तस्याः रुचिः देशस्वतन्त्रयाम् अपि आसीत् । अतः सा पितृभ्यां देशस्वतन्त्रायाः विषये अपि ज्ञानं प्राप्नोति स्म ।

पञ्जाबराज्ये यदा जलियावालाहत्याकाण्डः अभवत्, तदा सुचेतायाः परिवारः पञ्जाबराज्ये एव निवसति स्म । तस्मिन् वर्षे तस्याः वयः एकादशं वर्षम् आसीत् । तस्मिन् वर्षे यः जलियावालाहत्याकाण्डः अभवत्, तेन तस्याः मनसि आङ्ग्लानां प्रति द्रोहः समुद्भूतः । ततः सा देहली-महानगरस्य इन्द्रप्रस्तमहाविद्यालये, सेण्ट् स्टेफन्स्-महाविद्यालये च अध्ययनम् अकरोत् । यतो हि तस्याः पितुः स्थानान्तरं देहली-महानगरे अभवत् । ततः सर्वकारस्य आदेशेन सत्येन्द्रनाथः सपरिवारं लाहोर-महानगरम् अगच्छत् । १९३१ तमस्य वर्षस्य मार्च-मासस्य त्रयोविंशतितमे (२३/३/१९३१) दिनाङ्के आङ्ग्लाः कारागारे एव भगत सिंह, राजगुरु, सुखदेव इत्येषां हत्याम् अकुर्वन् । सा दुर्घटना सुचेतायाः मानसपटले क्रोधस्य, शोकस्य च भावम् औद्भावयत् । तस्मिन् दिने सा तेषां क्रान्तिकारिणाम् अन्तिमयात्रायाम् अपि उपस्थिता आसीत् । तस्मिन् वर्षे सा एम्. ए पदवीं प्रापत् । आविद्यालयं तस्याः प्रथमक्रमाङ्कः आसीत् ।

व्यवसायः[सम्पादयतु]

१९३१ तमे वर्षे सा एम्. ए. इत्यस्य पदवीं प्रापत् । ततः सा वृत्त्युपार्जनाय सज्जा आसीत् । तस्याः उज्वलेन शिक्षणेन प्रभाविताः अनेकाः विश्ववद्यालयाः तस्यै प्राधापिकायाः पदं दातुं तत्पराः आसन् । यस्मिन् लाहोर-विश्वविद्यालये सा अपठत्, तस्मिन् अपि सा प्राध्यापिकात्वेन कार्यं कर्तुं शक्नोति स्म । परन्तु तस्याः चिन्तनम् आसीत् यत्, "यत्र कार्यं करोमि, तत्र वृत्तिना सह देशकार्यम् अपि मया कर्तव्यम्" इति । लाहोर-विश्वविद्यालयः आङ्ग्लसर्वकारेण सञ्चालितः विश्वविद्यालयः आसीत् । अतः तया उत्तरप्रदेशराज्यस्य वाराणस्यां नवरचिते बनारसहिन्दुविश्वविद्यालये कार्यं प्रारब्धम् ।

स्वतन्त्रान्दोलने योगदानं, विवाहश्च[सम्पादयतु]

यदा सुचेता बनारसहिन्दुविश्वविद्यालये प्राध्यापिका आसीत्, तदा महात्मना सविनयनियमभङ्गान्दोलनस्य उद्धोषणा कृता आसीत् । तस्मिन् काले बनारसहिन्दुविश्वविद्यालयः राजकनैतिकक्षेत्रस्य केन्द्रम् आसीत् । सर्वे माहान्तः नेतारः तस्मिन् विश्वविद्यालये विद्यार्थिनः देशभकत्याः उपदेशान् यच्छन्ति स्म । तं विश्वविद्यालयं तेषाम् आवागमनम् अतिसामान्यम् आसीत् । अनेकाः विद्यार्थिनः, शिक्षकाः अपि प्रत्यक्षाप्रत्यक्षरीत्या स्वतन्त्रतासङ्ग्रामे योगदानं यच्छन्ति स्म । सुचेता अपि स्वविद्यार्थिनः स्वतन्त्रतासङ्ग्रामे सक्रियरूपेण भागम् ओढुं प्रेरयति स्म ।

१९३४ तमे वर्षे भारतस्य बिहारराज्ये विनाशकारी भूकम्पः अभवत् । तेन भूकम्पेन अनेके भारतीयाः पीडिताः । भोजन-आवास-वस्तु-वस्त्र-पठनादीनाम् अभावेन जनसामान्यानां स्थितिः अतिदयनीया आसीत् । परन्तु सर्वकारः भूकम्पपीडितेभ्यः किमपि न करोति स्म । अतः महात्मा गान्धी भूकम्पपीडितानां साहाय्यार्थं डॉ. राजेन्द्र प्रसाद इत्येनं बिहारराज्यं प्रैषयत् । ततः सः अपि सेवायै बिहारराज्यम् अगच्छत् । बिहारराज्ये जयप्रकाश नारायण, महात्मा, डॉ. राजेन्द्र प्रसाद इत्यादीनां नेतृत्वे अनेके क्रान्तिकारिणः देशसेवायाः कार्ये रताः आसन् । तेषु क्रान्तिकारिषु सुचेता अपि आसीत् । तस्मिन् वर्षे बिहारराज्यं भारतीयक्रान्तिकारिणाम् अस्थायि निवासस्थानम् अभवत् । सुचेतायाः सम्पर्कः अन्यक्रान्तिकारिभिः सह अभवत् । सा देशसेवायाः अनेकान् नूतनमार्गान् प्रापत् । तस्मिन् वर्षे तस्याः परिचयः जीवराम भगवानदास कृपलाणी-नामकेन समाजसेवकेन सह अभवत् । तयोः देशभक्त्याः उद्देशेन सह, विचाराः अपि समानाः आसन् । अतः तयोः मित्रता प्रेमसम्बन्धे पर्यणमत (परिणमित हुआ) ।

१९३६ तमे वर्षे परिणेया (विवाहयोग्या) सा जीवराम भगवानदास कृपलाणी इत्यनेन सह विवाहसूत्रेण अबध्नात् । ततः सा भारतीयराष्ट्रियकॉङ्ग्रेस-पक्षेण सह सल्लग्ना । तयोः वैवाहिकं जीवनं कलहाभावयुक्तम् आसीत् । सामान्यतः पत्युः व्यक्तित्वस्य छायायां पत्न्याः व्यक्तित्वं प्रच्छन्नम् (अदृश्यवत्) भवति । यथा महात्मनः व्यक्तित्वेन कस्तूरबा इत्यस्याः व्यक्तित्वम् आच्छादितम् । परन्तु स्वस्याः सुदृढविचारैः, द्रढसङ्कल्पशक्त्या च सुचेता समाजे प्रतिष्ठां प्रापत् ।

राजनीतिक्षेत्रे सुचेता[सम्पादयतु]

जमनालाल बजाज-नामकः कश्चन समाजसेवी वर्धा-आश्रमस्य महिलाविभागस्य दायित्वम् वोढुं सुचेतां न्यवेदयत् । यद्यपि सुचेता जानाति स्म यत्, आश्रमस्य जीवनं काठिन्येन, अभावेन च परिपूर्णं भवति, तथापि सा आश्रमस्य महिलाविभागस्य दायित्वम् अङ्ग्यकरोत् । आश्रमे यदा सुचेता निवसन्ती आसीत्, तदा सा कॉङ्ग्रेस-पक्षे अपि कार्यं प्रारभत । सा कॉङ्ग्रेस्-कार्यालयस्य विदेशविभागे कार्यं प्रारभत । भारतस्वाधीनतायां वैदेशिकभारतीयः अपि स्वयोगदानं दद्युः इति तस्याः लक्ष्यम् आसीत् । अतः सा वैदेशिकभारतीयः एतस्य पाक्षिकपत्रस्यापि मुद्रणम् आरभत । ततः तस्य पाक्षिकस्य दायित्वं राममनोहरेण स्वीकृतम् । अतः सुचेता कॉङ्ग्रेस-कार्यालयस्य महिलाविभागे कार्यं प्रारभत ।

सत्याग्रहान्दोलने सुचेता[सम्पादयतु]

१९४० तमे वर्षे महात्मा सत्याग्रहान्दोलनस्य घोषणाम् अकरोत् । सः विनोबा भावे इत्येनं प्रप्रथमसत्याग्रहित्वेन उदघोषयत् । महात्मा उत्तरप्रदेशराज्यस्य सत्याग्रहित्वेन सुचेतायै दायित्वम् अयच्छत् । १९४० तमस्य वर्षस्य दिसम्बर्-मासे सत्याग्रहं कर्तुं सुचेता उत्तरप्रदेशराज्यस्य फैजाबादमण्डलम् अगच्छत् । परन्तु फैजाबादमण्डले सत्यग्रहारम्भात् प्रागेव आङ्ग्लाः तां कारागारं प्रैषयन् । अभियोगे न्यायाधीशः सुचेतायै एकवर्षं यावत् कारावासस्य दण्डम् अयच्छत् । केचन मासाः सा फैजाबाद-नगरस्थे कारागारे आसीत् । ततः आङ्ग्लाः तां लखनऊ-महानगरस्थं कारागारं प्रैषयन् । कारावाससमये सा अस्वस्था अभवत् । मरणस्थितौ सत्यपि आङ्ग्लाः दण्डसमाप्तिं यावत् तां कारागारात् नामुञ्चन् ।

त्यजतु भारतम् आन्दोलनम्[सम्पादयतु]

१९४१ तमे वर्षे यदा सुचेता कारागारात् विमुक्ता, तदा सा अस्वस्था आसीत् । अतः कानिचन दिनानि विश्रान्तिं स्वीकृत्य सा पुनः देशसेवायाः कार्ये सल्लग्ना अभवत् । १९४२ तमस्य वर्षस्य अगस्त-मासे मुम्बई-महानगरे कॉङ्ग्रेस-पक्षस्य राष्ट्रियाधिवेशनम् आसीत् । तस्मिन् अधिवेशने त्यजतु भारतम् इत्यस्य आन्दोलनस्य घोषणा अभवत् । त्यजतु भारतम् आन्दोलनम् आरभेत, तस्मात् पुरा एव आङ्ग्लाः महात्मानं कारागारं प्रैषयन् । तेन सह अनेकान् क्रान्तिकारिणः आङ्ग्लाः कारागारं प्रैषयन् । तेषु क्रान्तिकारिषु जीवराम भगवानदास कृपलाणी अपि आसीत् । सर्वेषां नेतॄणां कारावासेन आन्दोलनस्य असफलतायाः स्थितिः औद्भविष्यत्, परन्तु सुचेता, कस्तुरबा, मणिबेन इत्यादीनां महिलाक्रान्तिकारिणीनां नेतृत्वे आन्दोलनं जनसामान्यानाम् आन्दोलनत्वेन प्रसिद्धम् अभवत् । ततः कस्तुरबा, मणिबेन इत्यादीनां कारावासानन्तरं ये क्रान्तिकारिणः गुप्तवासं स्वीकृत्य आन्दोलनं कुर्वन्तः आसन्, तैः सह मिलित्वा सुचेता आन्दोलने सक्रिययोगदानम् अयच्छत् । गुप्तवासिनः क्रान्तिकारिणः आङ्ग्लविरुद्धं प्रचाराय आकाशवाणीकेन्द्रस्य स्थापनाम् अकुर्वन् । तस्य केन्द्रस्य उद्घोषिका (R.J.- Radio jockey) उषा महेता आसीत् । परन्तु बहुस्वल्पे काले एव आङ्ग्लैः तत् केन्द्रं प्रतिबन्धितम् (अवरोधितम्) ।

गुप्तवासे सुचेता एकस्य महिलास्वयंसेविकादलस्य रचनाम् अकरोत् । तत् दलं भारतीयेषु देशस्वतन्त्रतायाः भावोत्पादनस्य कार्यं करोति स्म । तत् दलं नागरिकाणां साहाय्यार्थम् अपि सर्वदा प्रस्तुतं भवति स्म । देशस्य विभिन्नेषु स्थानेषु महिलास्वयंसेविकादलस्य अनेकानि केन्द्राणि आसन् । एकस्मिन् दिने निर्भया सुचेता गुप्तवेषं धृत्वा आगाखान-प्रासादं (तस्मिन् काले कारागारम् आसीत् ।) गत्वा महात्मना़ सह अपि आन्दोलनस्य विषये चर्चां कृत्वा आगच्छत् ।

१९४४ तमे वर्षे सुचेतायाः गुप्तवासस्य अन्तः अभवत् । सर्वकारविरोधिकार्याणाम् अपराधार्थम् आङ्ग्लाः तां कारागारं प्रैषयन् । कांश्चन मासान् यावत् सा पटना-नगरस्य कारागारे आसीत् । ततः आङ्ग्लाः तां लाहोर-महानगरस्थं कारागारं प्रैषयन् । १९४५ तमे कॉङ्ग्रेस-पक्षस्य आङ्ग्लसर्वकारस्य च राजनैतिकसन्धिः अभवत् । तस्याः सन्धेः अनन्तरं कॉङ्ग्रेस-पक्षस्य सर्वान् नेतॄन् आङ्ग्लाः अमुञ्चन् । तेषु सुचेता अपि अन्यतमा आसीत् ।

भारतस्वतन्त्रतानन्तरं सुचेता[सम्पादयतु]

१९४७ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । भारतविभाजनेन भारतस्वतन्त्रतायाः उत्सवः शोके परिवर्तितः । आभारतं साम्प्रदायिकहिंसाः भवन्त्यः आसन् । प्रतिवीथिकासु रक्तपातं दृष्ट्वा स्वतन्त्रताक्रान्तिकारिणां अक्षिभ्यां रक्ताश्रूणि पतन्ति आसन् । यस्य देशस्य विमुक्त्यै ते स्वजीवनं समार्पयन्, तस्य देशस्य साम्प्रदायाधारितेन विभाजनेन सह साम्प्रदायिकहिंसाः तेषां दुःखस्य कारणम् आसीत् । सुचेता यत् स्वप्नं बाल्यकालात् पश्यन्ती आसीत्, तत् स्वप्नं पूर्णम् अभवत् । भारतगणराज्यं स्वतन्त्रम् अभवत् । परन्तु सुचेतायाः स्वेप्ने भारतविभाजनाय किमपि स्थानं नासीत् । भारतविभाजनेन सा दुःखिता आसीत् । सा साम्प्रदायिकहिंसायां ये जनाः पीडिताः आसन्, तेषां साहाय्यार्थं पञ्जाबराज्यम् अगच्छत् ।

१९४८ तमे वर्षे पूर्वपाकिस्थानदेशे हिन्दुजनविरुद्धं हिंसात्वात् तस्मात् देशात् हिन्दुजनाः भारतम् आगच्छन्तः आसन् । आगताः हिन्दुजनाः बङ्गाल-बिहार-असम-राज्येषु शरणार्थित्वेन निवसन्ति स्म । तेषां शरणार्थिनां निवासव्यवस्थां कर्तुं भारतसर्वकारेण एकस्याः समितेः रचना कृता । तस्याः समितेः अध्यक्षा सुचेता कृपलाणी आसीत् ।

उत्तरप्रदेशराज्ये सुचेता[सम्पादयतु]

दीर्घकालं यावत् कॉङ्ग्रेस्-पक्षस्य सदस्यत्वेन कार्यं कृतवती सुचेता पक्षे समर्थनेतृषु अन्यतमा अभवत् । अतः पक्षः तस्यै महासचिवत्वेन दायित्वम् प्रादीयत (अयच्छत्) । १९५९ तमे वर्षे सुचेता कॉङ्ग्रेस्-पक्षस्य महासचिवत्वेन कार्यं प्रारभत । १९६२ तमे वर्षे सा उत्तरप्रदेशराज्यस्य महिला एवं श्रमविभागस्य मन्त्री अभवत् । १९६३ तमस्य वर्षस्य 'अक्तूबर'-मासस्य द्वितीये (२/१०/१९६३) दिनाङ्के उत्तरप्रदेशराज्यस्य मुख्यमन्त्रित्वेन सुचेता कृपलाणी कार्यं प्रारभत । सा भारतगणराज्ये प्रप्रथममहिलामुख्यमन्त्रित्वेन गौरवं प्राप्नोत् । वर्षत्रयं सा निष्ठया मुख्यमन्त्रीत्वेन कार्यम् अकरोत् । परन्तु ततः कॉङ्ग्रेस्-पक्षस्य आन्तःकलहेन त्रस्ता सा १९६७ तमस्य वर्षस्य 'मार्च'-मासस्य त्रयोदशे (१३/३/१९६७) दिनाङ्के पदत्यागम् अकरोत् । ततः तया राजनीतिक्षेत्रात् संन्यासः स्वीकृतः ।

मृत्युः[सम्पादयतु]

सुचेता कृपलाणी राजनीतिक्षेत्रे तु निष्क्रिया आसीत् । परन्तु तया सामाजसेवायाः कार्याणि अन्तिमसमयपर्यन्तं न त्यक्तानि । सा स्वजीवनस्य अन्तिमसमयस्य उपयोगं समाजसेवायै अकरोत् । १९७४ तमस्य वर्षस्य 'नवम्बर'-मासस्य एकोनविंशतितमे (२९/११/१९७४) दिनाङ्के सा हृदयाघातेन ग्रस्ता । ततः देहली-महानगरस्य ए. आई. एम्. एस्. (All-India Institute of Medical Science) रुग्णालये तस्याः स्व १९७४ तमस्य वर्षस्य 'दिसम्बर'-मासस्य प्रथमे (१/१२/१९७४) दिनाङ्के तस्याः मृत्युः अभवत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

मुख्यमन्त्री

उत्तरप्रदेशराज्यम्

बनारसहिन्दुविश्वविद्यालयः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.thecolorsofindia.com/interesting-facts/government/first-woman-chief-minister-in-india.html

http://www.iloveindia.com/indian-heroes/sucheta-kripalani.html

http://www.indianetzone.com/2/sucheta_kriplani.htm

http://www.thesindhuworld.com/sucheta.html Archived २०१२-०१-१० at the Wayback Machine

http://www.womenplanet.in/first-woman/chief-minister-of-india

http://www.womenplanet.in/biography/sucheta-kriplani

http://indianeducation1.weebly.com/sucheta-kriplani.html

http://politics.jagranjunction.com/2011/12/16/first-women-chief-minister-of-india-sucheta-kriplani/

"https://sa.wikipedia.org/w/index.php?title=सुचेता_कृपलाणी&oldid=481855" इत्यस्माद् प्रतिप्राप्तम्