भोजेश्वरमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
भोजेश्वरमन्दिरम्
लुआ त्रुटि पटलम्:Location_map में पंक्ति 502 पर: Unable to find the specified location map definition. Neither "Module:Location map/data/मध्यप्रदेशः" nor "Template:Location map मध्यप्रदेशः" exists।
भौगोलिकस्थितिः: २३°०६′०१″उत्तरदिक् ७७°३४′४७″पूर्वदिक् / 23.1003°उत्तरदिक् 77.5797°पूर्वदिक् / २३.१००३; ७७.५७९७निर्देशाङ्कः : २३°०६′०१″उत्तरदिक् ७७°३४′४७″पूर्वदिक् / 23.1003°उत्तरदिक् 77.5797°पूर्वदिक् / २३.१००३; ७७.५७९७
नाम
इतरनामानि: भोजपुरमन्दिरम्, उत्तरभारतस्य सोमनाथः
अवस्थितिः
देशः: भारतम्
राज्यम्/प्रदेशः: मध्यप्रदेशः
मण्डलम्: रायसेनमण्डलम्
स्थानीय: भोजपुरम्
ओन्नत्यम्: 463 मी (1,519 फ़ुट)
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: शिवः
प्रमुखोत्सवः: महाशिवरात्रिः
स्थापनाकालः: ११ शताब्दी
परिचालनसंस्था: भारतीयपुरातात्त्विकसर्वेक्षणविभागः

भोजेश्वरमन्दिरं (भोजपुरमन्दिरम् इत्यपि प्रसिद्धम्) मध्यप्रदेशस्य भोपाल-महानगरात् अनुमानेन ३० किलोमीटर-दूरे स्थिते भोजपुर-नामके ग्रामे स्थितमस्ति। मन्दिरमिदं बेतवानद्याः तटे विन्ध्यपर्वतमालासु स्थितायां गिरिकायां विद्यते। मन्दिरस्य निर्माणं, तस्य शिवलिंगस्य स्थापना च धार-प्रदेशस्य परमारराज्ञा भोजेन (१०१० - १०५३ ई॰) कारिता। तस्य नाम्ना एव मन्दिरमिदं भोजपुरमन्दिरम् उत भोजेश्वरमन्दिरम् इति प्रसिद्धम् अभवत्। यद्यपि केषाञ्चन किंवदन्तीनाम् अनुसारं स्थलेऽस्मिन् मूलमन्दिरस्य स्थापना पाण्डवैः मन्यते। मन्दिरमिदं "उत्तरभारतस्य सोमनाथः" इत्यपि ख्यातिः। अत्र प्राप्तेभ्यः शिलालेखेभ्यः ११ शताब्द्याः हिन्दूमन्दिर-निर्माणस्य स्थापत्यकला प्रत्यक्षा भवति। ततोधिकं ज्ञायते यत्, स्तूपस्य प्रयोगः भारते इस्लाम-आगमनात् अपि पूर्वं भवति स्म। एतस्य अपूर्णमन्दिरस्य बृहत्कार्ययोजना समीपवर्तिषु पाषाणशिलासु उत्कीर्णिता अस्ति। एतस्य  मानचित्रस्य आरेखानुसारं अत्र बृहतः मन्दिरस्य निर्माणयोजना आसीत्, मन्दिरं परितः स्थिते विशाले परिसरे अन्यानि मन्दिराणि अपि पूर्वायोजितानि आसन्। यदि मन्दिरस्य निर्माणकार्यं साफल्येन परिपूर्णम् अभविष्यत्, तर्हि एषः मन्दिरपरिसरः भारतस्य बृहत्तमेषु मन्दिरपरिसरेषु अन्यतमः अभविष्यत्।मन्दिरपरिसरं भारतीय-पुरातत्त्व-सर्वेक्षण-विभाग-द्वारा राष्ट्रिय-महत्त्वपूर्ण-स्मारकत्वेन चिह्नितम् अस्ति। तथा च अस्य पुनरुद्धारकार्यं कृत्वा अस्य पूर्ववत्स्थितिं कर्तुं प्रयासोऽपि कृतः अस्ति। मन्दिरस्य बहिः स्थापितानां पुरातत्त्वविभागस्य शिलालेखानुसारं मन्दिरस्य शिवलिंगं भारतस्य मन्दिरेषु सर्वोन्नतं विशालतम् अस्ति। मन्दिरस्यास्य प्रवेशद्वारम् अपि कस्यापि अन्यहिन्दूभवनस्य अपेक्षया बृहत्तमम् अस्ति। मन्दिरस्य समीपे एव मन्दिराय समर्पितः कश्चन पुरातत्त्वसङ्ग्रहालयः अपि निर्मितोऽस्ति। शिवरात्र्याः अवसरे राज्यसर्वकारेण अत्र प्रतिवर्षं भोजपुरोत्सव आयोज्यते।

इतिहासः[सम्पादयतु]

पौराणिकं मतम्[सम्पादयतु]

पौराणिकमतानुसारं स्वमाता कुन्ती भगवतः शिवस्य पूजां कर्तुं शक्नुयात् इति उद्देशेन पाण्डवैः अस्य मन्दिरस्य निर्माणम् एकरात्र्यात्मिके समये एव पूर्णं कृतं सङ्कल्पः कृतः परन्तु मन्दिरं निश्चितावधौ पूर्णं नाभवत्। अतः मन्दिरमिदं सम्प्रति अपि अपूर्णमस्ति।[१][२]

ऐतिहासिकं मतम्[सम्पादयतु]

ऐताहिसकमतानुसारं मान्यता अस्ति यत्, मन्दिरस्य निर्माणं कलायाः, स्थापत्यविद्यायाः च संरक्षकः मध्यभारतीयः परमारवंशीयः राजा भोजदेवः ११ शताब्द्याम् अकारयत्।[३][४][५] परम्परायाः, मान्यतायाः अनुसारं मन्यते यत्, तेन एव भोजपुरमन्दिरस्य, विलुप्तजलबन्धस्य च निर्माणं कारितम् आसीत्।[६] परन्तु मन्दिरस्य निर्माणं पूर्णतां नागच्छत्, अतः अत्र एकः शिलान्यासः उत उद्घाटन/निर्माण-अङ्कनशिला न प्राप्यते। तथापि अत्रस्थस्य ग्रामस्य नाम भोजपुरम् एव भोजराजेन सह सँल्लग्नम् अस्ति।[७] मान्यतानुसारं मन्दिरमिदं एकरात्र्यात्मके समये एव निर्मितव्यम् आसीत्, किन्तु अस्य छदिभागस्य कार्यं प्रातःकालात् पूर्वं पूर्णं नागच्छत्। अतः मन्दिरमिदम् अपूर्णमेव विद्यते। 

भोजराजेन निर्माणं कारितम् इत्यस्याः मान्यतायाः समर्थनं स्थलशिल्पेभ्यः प्राप्यते, येषां कार्बन-आयु-गणना ११ शताब्द्याः सुनिश्चिता भवति।[६] भोजपुरस्य समीपवर्तिषु जैनमन्दिरेषु, येषु तेषामेव शिल्पिनां परिचयचिह्नानि सन्ति, येषाम् अस्मिन् शिवमन्दिरे सन्ति; तेषु १०३५ ई॰ वर्षस्य एव निर्माणतिथिः अङ्किता अस्ति। अनेकाः साहित्यिकरचनाः तु भोजरास्य उपस्थितेः बोधं कारयन्ति, परन्तु अस्य परिसरस्य ऐतिहासिकं साक्ष्यम् अपि १०३५ ई॰ वर्षे भोजराजस्य शासनस्य पुष्टिं करोति। भोजराजेन निर्मापितानि मोदस-ताम्र-पत्राणि (१०१०-११ ई॰), तस्य राजकविना दशबालेन रचिता चिन्तामणिसारणिका (१०५५ ई॰) इत्यादीनि तथ्यानि सर्वं तस्य उपस्थितिं पुष्टयन्ति। तस्य मन्दिरस्य निकटवर्त्तिषु क्षेत्रेषु कदाचित् त्रयः जलबन्धाः, एकः सरोवरश्च आसीत्। तादृशानां जलबन्धानां, सरोवरस्य च निर्माणं कश्चन शक्तिशाली राजा एव कारयितुं शक्नोति। तदेव उक्तानि तथ्यानि भोजराजेन निर्मापितम् इति पुष्टयन्ति।। पुरातत्त्वशास्त्री प्रो॰किरीट मनकोडी एतस्य मन्दिरस्य निर्माणकालं भोजराजस्य शासनस्य उत्तरार्धम् अर्थात् अनुमानेन ११ शताब्दीं मन्यते।[६]

मन्दिरस्य बहिः भारतीय-पुरात्त्व-सर्वेक्षण-विभागस्य मन्दिरसूचनापट्टः, यस्मिन् मन्दिरस्य विषये महत्त्वपूर्णाणि तथ्यानि लिखितान सन्ति।

उदयपुर-प्रशस्तौपरवर्तिभिः परमारशासकैः  लेखयितेषु शिलालेखेषु उल्लेखकाले  मन्दिरैः परिपूर्मम्  इत्यादयः वाक्यांशाः प्राप्यन्ते, तथा च शिवसम्बन्धितानि तथ्यानि समर्पितानि सन्ति। तेषु केदारेश्वरः, रामेश्वरं, सोमनाथः, कालभैरवः, रुद्रः इत्यादीनां वर्णनं प्राप्यते। लोकोक्तीनां, परम्पराणां च अनुसारं ज्ञायते यत्, भोजराजेन सरस्वती-मन्दिरस्य निर्माणम् अपि कारितम् आसीत्।(पश्यतु भोजशाला) कश्नः जैन-लेखकः मेरुतुङ्गः स्वकृत्यौ प्रबन्धचिन्तामणौ  अलिखत्,  भोजराजः स्वस्य राजधान्याम् एव (धार) १०४ मन्दिराणां निर्माणम् अकारयत्। यद्यपि अद्यत्वे केवलं भोजपुरमन्दिरम् एव अवशिष्टम् अस्ति, यस्य नाम भोजराजेन सह संलग्नं भवितुम् अर्हति।[६]

प्रबन्धचिन्तामण्याः अनुसारं यदा भोजराजः  श्रीमाल-प्रदेशस्य यात्रायाम् आसीत्, तदा सः महाकविमाघं भोजस्वामिन नामकस्य मन्दिरस्य विषये विर्णनम् अकरोत्। तस्य मन्दिरस्य निर्माणं तस्य समीपस्थायां योजनायाम् आसीत्। ततः राजा मालवा-प्रदेशं प्रत्यगच्छत् (मालवा-प्रदेशे एव भोजपुरं स्थितम् आसीत्।)। [८] यद्यपि महाकविमाघः (७ शताब्दी) भोजराजस्य समकालीनः नासीत्, अतः एषा कथा कालभ्रमिता प्रतीयते।[९]

मन्दिरमिदं मूलतः कस्यचित् १८.५ मील लम्बमाने, ७.५ मील-विस्तृते च सरोवरस्य तटे निर्मितम् आसीत्।[६] तस्य सरोवरस्य निर्माणयोजनायां भोजराजः पाषाणस्य, मृत्तिकानां च त्रीन् जलबन्धान् निर्मितवान्। जलबन्धेषु प्रथमः बेतवा-नद्यां निर्मितः आसीत्, यः एकभागात् जलावरोधस्य कार्यं करोति स्म। अन्येषु त्रिषु भागेषु गिरिकाः जलम् अवरोधयन्ति स्म। द्वितीयः अधुना मेण्डुआ-नाम्ना प्रसिद्धस्य ग्रामस्य निकटे द्वयोः गिरकयोः मध्यभागम् अवरोध्य जलनिकासं स्थगयति स्म। तृतीयश्च अधुना भोपाल-नगरे निर्मितः आसीत्, यः कस्याश्चित् वातावरणीयाः कालियासोत-नद्याः जलम् मार्गान्तरेण बेतवा-सरोवरं प्रति नयति स्म। एषः कृत्रिमः जलाशयः १५ शताब्दी-पर्यन्तं निर्मितः।।[६] कस्याश्चित् गोण्ड-किंवदंत्याः अनुसारं मालवा-नरेशः होशंग शाह इत्येषः स्वसेनायै जलबन्धस्यास्य विध्वंसाय आदेशम् अयच्छत्। तस्मिन् विध्वंसे मासत्रयाः अभूवन्। मान्यतायाः अनुसारं होशंगशाह इत्यस्य पुत्रः जलस्य सरोवरे निमज्जितः। तस्य शवः अपि न प्राप्तः। अत्यधिकान्वेषणे कृते सत्यपि सः न प्राप्तः, अतः क्रोधाविष्टः राजा जलबन्धम् एव अनाशयत्। जलबन्धेन सह समीपस्थं मन्दिरम् अपि तोप-द्वारा पातयितुं प्रयासम् अकरोत्। अत एव मन्दिरस्य  उपरि, पार्श्वे च अनेकानि मन्दिराङ्गानि भग्नानि सन्ति। जलबन्धस्यास्य जलरिक्ततयाः कारणेन समनन्तरमेव क्षेत्रेऽस्मिन् जलवायुपरिवर्तनम् अभवत्।[१०][११]

एतस्मिन् प्रसिद्धे स्थले वर्षे द्विवारं मेला-उत्सवस्य आयोजनं भवति। क्रमशः मकरसङ्क्रान्तौमहाशिवरात्र्यां च। तस्मिन् काले धार्मिकायोजनेऽस्मिन् दूरस्थानेभ्यः प्रतिभागिनः समागच्छन्ति। एतस्य सरोवरस्य विस्तार भोपाल-नगरं यावत् अस्ति। मन्दिरनिर्माणे प्रयुक्ताः प्राषाणाः भोजपुरस्य पाषाणीयक्षेत्रेभ्यः एव स्वीकृताः सन्ति।[१२] मन्दिरस्य निकटात् दूरपर्यन्तं पाषाणानां, शिलानां च शिल्पकलायाः अवशेषाः सम्प्राप्यन्ते। लेखिका विद्या देहेजिया स्वपुस्तके अर्ली स्टोन टेम्पल्स ऑफ़ ओडिशा  मध्ये उल्लिखति यत्, भोजपुरस्य शिवमन्दिरस्य निर्माणशैली भुवनेश्वरस्य लिङ्गराजमन्दिरसस्य, अन्यमन्दिराणां च निर्माणशैलीवत् अस्ति।

अन्त्येष्टिस्मारकम्[सम्पादयतु]

भोजपुरमन्दिरे अनेकानि विशिष्टानि घटकानि सम्प्राप्यन्ते। तेषु गर्भगृहं, शिखरं, भित्तिः, छदि च अन्तर्भवन्ति। गर्भगृहस्य प्रभागे मण्डपस्य विलोपनः कृतः अस्ति। मन्दिरे स्तूपाकरास्य शिखरस्य स्थाने रेखीया छदि अस्ति। मन्दिरस्य बाह्य भित्तयः समतलाः सन्ति। किन्तु ताः १२ शताब्द्याः एव मन्यन्ते। एतेषां विशिष्टानां घटकानाम् अध्ययनं कृत्वा कश्चन शोधकर्त्ता कृष्णदेवः कथयति यत्, सम्भवतः मन्दिरमिदं अन्त्येष्टि-क्रियाकर्म-सम्बन्धिकार्यैः सह सम्बद्धं भवेत्; एतादृशं तु प्रायः श्मशानस्थलानां निकटवर्त्तिस्थानेषु अद्यापि प्राप्यते। तस्य शोधकार्यस्य पुष्टिं कालान्तरे मधुसूदन ढाकी द्वारा अन्विष्टैः मध्यकालीन-वास्तुसम्बन्धिभिः पाठ्यैः अपि अभवत्। तेभ्यः खण्डितेभ्यः पाठ्यांशेभ्यः ज्ञानं जातं यत्, अनेकेषाम् उच्चकुलीनानां जनानां मृत्योः अनन्तरं तेषाम् अवशेषाणाम् उत अन्त्येष्ट्याः स्थलेषु स्मारकत्वेन मन्दिरनिर्माणं भवति स्म। एतादृशाणि मन्दिराणि स्वर्गारोहण-प्रासादत्वेन प्रसिद्धानि आसन्। पाठानुसारम् एतादृशेषु मन्दिरेषु एकलशिखरस्य स्थाने परस्परं पृष्ठभागं प्रति न्यूनजायमानायाः प्रस्तरशृङ्खलानां प्रयोगः जायते स्म। किरीट मनकोडी इत्यस्य अनुसारं भोजपुरमन्दिरस्य अधिरचना तस्मिन् प्रारूपे पूर्णतया सामाञ्जस्यं प्राप्नोति। तस्यानुमानानुसारं भोजराजः मन्दिरस्यास्य निर्माणं संभवतः स्वस्य स्वर्गवासिनः पितुः सिन्धुराजस्य उत ज्येष्ठपितुः वाकपति मुंज इत्यस्य कृते निर्मितवान् स्यात्, येषां मृत्युः शत्रुक्षेत्रे अपमानजनकरूपेण जातः आसीत्। [६]

निर्माणस्य परित्यागः[सम्पादयतु]

मन्दिरस्य निकटस्थप्रदेशे उत्कीर्णायाः मन्दिरस्थापत्ययोजनायाः चित्रम्।

अत्र दृष्ट्वा  प्रतीयते यत्, निर्माणकार्यं सहसा स्थिगितं जातम् इति।[६] यद्यपि तस्य कारणानि अधुनापि अज्ञातानि एव, किन्तु इतिहासवेत्तारः अनुमानं कुर्वन्ति यत्, एतादृशं कस्याश्चित् प्राकृतिकापदः, संसाधनानां आपूर्तेः अभावत् अथवा कस्यचित् युद्धस्य आरम्भत्वाच्च एव भवितुम् अर्हति इति। २००६-०७ मध्ये एतस्य पुनुरुद्धारकार्यस्य आरम्भात् पूर्वं छदः अपि नासीत्। अत एव इतिहासविद् के॰के॰मुहम्मद इत्येषः अनुमानम् अकरोत् यत्, छदः सम्भवतः निर्माणकाले एव दोषत्वात् पतितः स्यात्। तदा भोजराजः वास्तुदोषत्वात् पुनर्निर्माणम् अकृत्वा मन्दिरनिर्माणम् अस्थगयत् इति।[१३]

तत्कालिनात् परित्यक्तात् स्थलात् अपि अद्यत्वे इतिहासविदः, पुरातत्वविदः, वास्तुविदः च ११ शताब्द्याः मन्दिराणां निर्माणशैलीं, यान्त्रिकीं च बहुधा संशोधयितुम् अवसरं प्राप्नुवन्ति।[६] मन्दिरस्य उत्तरदिशायां, पूर्वदिशायां च भण्डारस्थलानि अपि प्राप्तानि सन्ति, यत्र विभिन्नस्तराणाम् अर्णानि शिल्पानि शिल्पाकृतयः च प्राप्यन्ते। ततोधिकं मन्दिरस्य उपरि भागस्य निर्माणाय गुरु-प्रस्तराणां शिल्पभागं प्रति नेतुं भण्डारभात् शीर्षभागं प्रति उपह्वरः (slope) अपि आसीत्।[६] बहव्यः शिल्पाकृतयः भण्डात् तु आनिताः परन्तु स्थापनात् पूर्वं कार्यस्थगनत्वात् यथास्थाने प्राप्यन्ते। कदाचित् तासाम् उपयोगः मन्दिरनिर्माणस्य अनन्तरं बाह्यभागस्य निर्माणाय करणीयः स्यात्, किन्तु निर्माणकार्यस्य स्थगनात् तत्रैव त्यक्ताः। पुरातात्त्विक-सर्वेक्षण-विभागः ताः मूर्तीः २० शताब्द्याः भण्डारगृहं प्रति अनयत्।[६]

मन्दिरनिर्माणस्य स्थापत्ययोजनायाः विवरणं भण्डारभागस्य निकटस्थेषु प्रस्तरेषु उत्कीर्णम् अस्ति। (चित्रित)[१४][६] एतस्याः योजनायाः ज्ञातं भवति यत्, अत्र बृहन्मन्दिरपरिसरस्य निर्माणयोजना आसीत्, यस्मिन् अनेकानि मन्दिराणि परिकल्पितानि। परिकल्पनानुसारं मन्दिरपरिसरं यदि पूर्णम् अभविष्यत्, तर्हि भारतस्य बृहत्तमेषु मन्दिरपरिसरेषु अन्तरभविष्यत्।[१५]

मन्दिरस्य, भण्डारस्य च निकटे, ग्रामस्य अन्यमन्दिरयोः च १३०० तः अधिक-शिल्पकाराणां परिचयचिह्नानि प्राप्यन्ते। तेषु मन्दिरस्य मुख्यभागस्य विभिन्नभागेषु ५० शिल्पकाराणां नामानि अपि सम्मिलितानि भवन्ति। तानि नामानि विहाय अन्यानि परिचयचिह्नानि अपि सन्ति, यथा - चक्रं, अर्धचक्रं, त्रिशूलं, स्वस्तिकं,  शङ्खाकृतिः, नागरीलिप्यां चिह्नानि इत्यादिकम्। तानि चिह्नानि शिल्पकाराणाम् उत तेषां परिवारजनानां कार्यराश्याः अनुमानम् उत आकलनं कर्तुम् अङ्कितानि आसन्, यानि मन्दिरस्य अन्तिमकार्योत्तरं दूरीभवन्ति स्म। किन्तु मन्दिरनिर्माणं पूर्णं नाभवत् अतः तानि यथास्थाने चिह्नितानि एव दरीदृश्यन्ते।[६]

संरक्षणं, पुनुरुद्धारः च[सम्पादयतु]

२००४ तमवर्षे मन्दिरस्य छदस्य दृश्यम्, ततदनन्तरमेव भारतीयपुरातत्त्वसर्वेक्षणविभागः छिद्राणि अपूर्यत्। तेन वर्षाजलेन मन्दिरस्य रक्षणम् अभवत्।

१९५० वर्षपर्यन्तं एतस्य मन्दिरस्य संरचना अतीव शीथिला आसीत्। निरन्तरं वर्षाजलस्य गर्भगृहे प्रवेशत्वात् भवतिस स्म।[१६] १९५१ वर्षे स्थलमिदं प्राचीनस्मारकत्वेन संरक्षणाधिनियमस्य १९०४[१७] इत्यस्य अन्तर्गततया भारतीय-पुरातात्त्विक-सर्वेक्षण-विभागाय संरक्षणं,  पुनरुद्धारं च कर्तुं प्रत्यर्पितम्।[१८] १९९० दशकस्य आरम्भे, सर्वेक्षणविभागः मन्दिरस्य चतुष्पथस्य, गर्भगृहस्य सोपानानि सम्यकरोत्। ततश्च विस्थापितान् प्रस्तरान् पुनस्स्थापिताः। सः विभागः मन्दिरस्य उत्तर-पश्चिमीदिग्भागस्य भित्तिकायाः पुनरुद्धाराभियानम् अचलायत्। परन्तु मध्ये तत्कार्यम् अल्पकालं यावत् स्थगितम् आसीत्।

२००६-०७ मध्ये के॰के॰मुहम्मद-महोदस्य आध्यक्षीयविभागस्य कश्चन दलः स्मारकस्य पुनरुद्धारकार्यं पुनरारभत। संरचनायाः  विच्छिन्नं स्तम्भम् अपि सः दलः पुनरस्थापयत्। सः १२ टन-भारयुक्तः एकाश्म-स्तम्भः विशेषशिल्पकारैः, कर्मकरैः च मूलस्थापत्यवत् निर्मापनीयः आसीत्। अतः मूलसंरचनया सह दातात्म्यं धारयेरन्, तादृशानां प्रस्तराणाम् अन्वेषणम् आभारतम् अभवत्। कालान्तरे तादृशाः प्रस्तराः आगरा-नगरात् सम्प्राप्ताः। ततः एतस्य स्तंभस्य निर्माणं सम्पन्नम् अभवत्। स्तम्भनिर्माणोत्तरं नूतना समस्या समुद्भूता। एतावतः बृहतः स्तम्भस्य कृते लम्बभुजः उत्तोलकः अनुपलब्धः आसीत्। अतः दलः उत्तोलकशृङ्खलां निर्मीय कार्यं पूर्णम् अकरोत्।[१९] उत्तोलकानां शृङ्खलायाः निर्माणे तेषां षड् मासाः व्यतीताः। के॰के॰मुहम्मद ज्ञातवान् यत्, मन्दिरस्य स्तम्भयोः भारः ३३ टन आसीत्, तौ च एकाश्मौ एव अस्ताम्। अतः आधुनिक-प्रौद्योगिक्याः, संसाधनानां च अभावे तत्कालीनकर्मकरेभ्यः कार्यमिदम् असाध्यवत् स्यात्।

एषः दलः एव मन्दिरस्य छदस्य अनावृत्तं भागं मूलसंरचनया सह सामञ्जस्यपूर्णेन वास्तुघटकेन परिवर्तितवान्। सः घटकः फाइबर-काचेन निर्मितः, अतः मूलसंरचनायाः भागात् भारयुक्तः नास्ति। अतः प्रारूपे अनावश्यक भारम् अपि न पातयति। तथा च वर्षा-जलस्य स्रावम् अपि पूर्णतया अवरोद्धुं क्षमः अस्ति सः। तत्पश्चात् छदात् जल-स्रावम् उन्मूलयितुं विभागः भित्तिषु, नवीवछदे च घटकयोः स्थाने प्रस्तरणां वक्रशृङ्खलया आच्छादयत्। दलः मन्दिरस्य उत्तर-दक्षिणदिशः, पश्चिमबाह्यभागस्य च भित्तीनाम् अंशान् अपि पाषाणैः पर्यवर्तयत्।  मन्दिरस्य भित्तीषु शताब्दीभ्यः एकत्रितं मलम् अपि दलः दूर्यकरोत्।[१३]

स्थापत्यशैली[सम्पादयतु]

मन्दिरमिदं उत्तरभारतस्य सोमनाथत्वेन  अपि प्रसिद्धम् अस्ति।[२०] निरन्धारशैल्यां निर्मिते मन्दिरेऽस्मिन् प्रदक्षिणापन्थाः (परिक्रममार्गः) नास्ति।[२१] मन्दिरं ११५ फीट (३५ मी॰) विशाले, ८२ फीट(२५ मी॰) विस्तृते, १३ फीट(४ मी॰) उन्नते भूभागे अवस्थितम् अस्ति। तस्मिन् भूभागे साक्षात् मन्दिरस्य गर्भगृहम् एव निर्मितम् अस्ति, यस्मिन् शिवलिङ्गं स्थापितम् अस्ति।[६] गर्भगृहस्य अभिकल्पनायोजनायां ६५ फीट (२० मी॰) विस्तृतः कश्चन वर्गः निर्मितः अस्ति, यस्य आन्तरिकं मानं ४२.५ फी॰(१३ मी॰) अस्ति।[६] शिवलिङ्गम् उपर्युपरि स्थापितानां त्रयाणां चूर्णप्रस्तराणां शीर्षभागे स्थापितम् अस्ति। तस्य  औन्नत्यं ७.५ फी॰(२.३ मी॰), व्यासः १७.८ फी॰(५.४ मी॰) च अस्ति। शिवलिङ्गमिदं २१.५ फी॰(६.६ मी॰) विस्तृते वर्गाकाराधारे स्थापितम् अस्ति। फलकम्:Cite AV media आधारसहितं शिवलिङ्गस्य आहत्य औन्नत्यं  ४० फी॰ (१२ मी॰) तः अधिकम् अस्ति।[६][२२]

गर्भगृहस्य प्रवेशद्वारं ३३ फी॰ (१० मी॰) उन्नतम् अस्ति।[६] प्रवेश-भित्तौ अप्सरसां, शिवगणस्य, नदीनां, देवीनां च छवयः अङ्किताः सन्ति।[६] मन्दिरस्य भित्तयः बलुआ-प्रस्तराणां खण्डैः निर्मिताः वातायनरहिताः सन्ति। पुनरोद्धारपूर्वस्य भित्तिषु कोऽपि संश्लेषकः पदार्थः न प्रयुक्तः। उत्तरदक्षिणदिशः, पूर्वदिशः च भित्तिषु त्रीणि वातानुकूलानि निर्मितानि सन्ति, विशालकोष्ठकानि तेभ्यः आधारं यच्छन्ति। वातानुकूलस्य कोष्ठकाधारेण सह अलिन्दवत् दृश्यं प्राप्यते। सः वास्तव्येन अलिन्दः न परन्तु तथा दृश्यते। एते भूमिस्तरात् अतीवौन्नत्ये सन्ति, अतः भित्तौ एतेभ्यः अवकाशस्थानं न दृश्यते। उत्तरीयभित्तौ कस्याश्चित् मकराकृतेः नालिका अस्ति, या शिवलिङ्गे अर्पिताय जलाय निकासस्थानं प्रयच्छति।[६] सम्मुखभित्तिं विहाय मकराकृतिः बाह्यभित्तीनाम् एकमात्रं शिल्पाकृतिः अस्ति।[६] पूर्वदिशि देवीनाम् अष्ट शिल्पाकृतयः भित्तेः अन्तर्भागस्य शीर्षभागे  स्थापिताः सन्ति, यासु सद्यः केवलम् एका शिल्पाकृतिः एव प्राप्यते।[६]

उपान्तस्य प्रस्तरान् चतुर्षु भागेषु कोष्ठकाणि आश्रयं यच्छन्ति। तेषु कोष्ठकेषु देवयुगलस्य मूर्तयः उत्कीर्णाः सन्ति। यथा - शिव-पार्वत्यौ, ब्रह्म-सरस्वत्यौ, राम-सीते, विष्णु-लक्ष्म्यौ च। प्रत्येकं कोष्ठकस्य सर्वभागे एका आकृतिः अङ्किता अस्ति।[६] यद्यपि मन्दिरस्य उपरि अधिरचना अपूर्णा अस्ति, किन्तु स्पष्टतया ज्ञातयते यत्, अस्य शिखररूपः तीर्यकतलयुक्तः छदः निर्माणयोजनायां नासीत् इति। किरीट मनकोडी इत्यस्य अनुसारं शिखरस्य अभिकल्पना निम्नौन्नत्ययुक्त-पिरामिड-आकारवत् निर्मिता स्यात्, या समवर्णा इति प्रसिद्धा, सा च मण्डपनिर्माणे बहुधा प्रयुज्यते।[६] ऍडम हार्डी इत्यस्य अनुसारं शिखरस्य आकृतिः फामसान-आकारस्य (बाह्यभागात् रैखिकी) निर्मिता स्यात्, परन्तु अन्यसङ्केतेभ्यः एषा भूमिज-आकारस्य प्रतीयते।[६] एतस्य मन्दिरस्य छदः स्तूपाकारः अस्ति, परन्तु इतिहासकाराणाम् अनुमानम् अस्ति यत्, मन्दिरस्यास्य निर्माणं भारते इस्लाम-धर्मस्य आगमनात् पूर्वमेव जातम् आसीत्। अतः मन्दिरस्य गर्भगृहे निर्मितः स्तूपाकारः छदः भारते स्तूपानां निर्माणस्य प्रचलनम् इस्लाम-पूर्वे अपि आसीत् इति प्रमाणयति। परन्तु इस्लामि-स्तूपानां निर्माणशैल्या एतस्य निर्माणशैली भिन्ना आसीत्। अतः केचन विद्वांसः निर्माणमिदं भारते सर्वप्रथममं स्पूपसहितं भवननिर्माणत्वेन अङ्गीकुर्वन्ति। छदः अपूर्णः अस्ति, परन्तु अत्यधिकः उत्कीरर्णः अस्ति। ३९.९६ फी॰(१२.१८ मी॰) उन्नताः चत्वारः अष्टकोणीयाः स्तम्भाः तस्मै आधारं यच्छन्ति।[२३][२४] प्रत्येकं स्तम्भः त्रिभिः स्तम्भैः सह युक्तः अस्ति। एते चत्वारः स्तम्भाः, द्वादशः उपस्तम्भाः च मध्यकालीनमन्दिराणां नवग्रह-मण्डपवत् निर्मिताः सन्ति, येषु १६ स्तम्भान् संयुक्ततया प्रयुज्य नव भागेषु तत्स्थानं विभज्यते। तत्र नवग्रहाणां नव प्रतिमाः स्थापिताः सन्ति। मन्दिरस्यास्य प्रवेशद्वारम् अपि कस्यचित् अन्यहिन्दूभवनस्य प्रवेशद्वारस्य तुलनायां विशालम् अस्ति। द्वारमिदं ११.२० मी॰ उन्नतं, ४.५५ मी॰ विस्तृतं च अस्ति।

मन्दिरमिदं अतीव उन्नतम् अस्ति, प्राचीनमन्दिरस्य निर्माणकाले भारयुक्तान् प्रस्तरान् उपरि आनेतुम् उपह्वरः निर्मितः अस्ति। मन्दिरस्य निकटे निर्मितस्य जलबन्धस्य पार्श्वे अनेकानि शिवलिङ्गानि सम्प्राप्यन्ते। तत्स्थानमेव शिवलिङ्गनिर्माणाय प्रयुक्तं स्यात् इति अनुमानं भवति।[२५]

निकटस्थस्थलानि[सम्पादयतु]

भोजपुरस्य निकटस्थात् कुमरीग्रामात् किञ्चित् दूरे एव घनीभूतवनप्रदेशः वर्तते। वनप्रदेशस्य मध्ये एव वेत्रवती-नद्याः (बेतवा) उद्गमस्थलम् अस्ति, यत्र नदी एकस्मात् कुण्डात् उद्भवति। भोपाल-नगरस्य विशालजलाशयः भोजपुरस्य एव कश्चन जलाशयः अस्ति। तस्मिन् जलाशये निर्मितः जलबन्दः मालवा-शासकः होशंग शाह इत्येषः १४०५-१४३४ ई॰ मध्ये अभङ्गयत्। भङ्गस्य कारणम् आसीत् यत्, एतस्य क्षेत्रस्य यात्रायां स्वपत्न्याः मृत्युः अभवत्। तस्य पत्न्याः मृत्योः कारणं कश्चन रोगः आसीत्। एवं जलप्लावनस्य मध्ये कश्चन भूखण्डः द्वीपस्य स्वरूपम् अनयत्। अधुना "मंडीद्वीप'-नाम्ना सः भूभागः प्रसिद्धः। खण्डितजलबन्धं परितः अद्यापि खण्डिताः कलायुक्ताः प्रतिमाः इतस्ततः विकीर्णाः सन्ति। मन्दिरात् किञ्चित् दूरे बेतवा-नद्याः तटे एव पार्वतीदेव्याः गुहा अस्ति। नदीपारं गन्तुं तस्मात् स्थलादेव नावः प्राप्यन्ते। यद्यपि भोजपुरमन्दिरं निर्जने, पर्वतीये च क्षेत्रेस्थितम् अस्ति, तथापि अत्र अनेके दर्शनार्थिनः समागच्छन्ति।[उद्धरणं वाञ्छितम्]

भोजेश्वरमन्दिरस्य सङ्ग्रहालयः[सम्पादयतु]

मुख्यमन्दिरात् कदाचित् २०० मी॰ दूरे एव भोजेश्वरमन्दिराय समर्पितः कश्चन सङ्ग्रहालयः निर्मितः अस्ति। एतस्मिन् सङ्ग्रहालये चित्राणां, फलकानां, रेखाचित्राणां च माध्यमेन मन्दिरस्य, भोजराजस्य शासनेतिहासस्य च विषये सूचनाः प्रदर्शिताः सन्ति। सङ्ग्रहालये भोजराजस्य शासनस्य विवरणं, तस्य विषये लिखितपुस्तकानि, मन्दिरस्य शिल्पकाराणां चिह्नानि चापि प्राप्यन्ते। सङ्ग्रहालये प्रवेशाय शुल्कं नास्ति। एतस्य समयः प्रातः १०:०० वादनात् सांयं ०५:०० वादनं यावत् अस्ति।[उद्धरणं वाञ्छितम्]

स्थलस्य उपयोगिता[सम्पादयतु]

अधुना मन्दिरमिदम् ऐतिहासिकस्मारकत्वेन भारतीय-पुरातात्त्विक-सर्वेक्षण-विभागस्य संरक्षणाधीनम् अस्ति।[२६] प्रदेशस्य राजधान्याः भोपाल-नगर्याः सन्निकटत्वात् (२८ कि.मी), अत्र अधिकाधिकाः पर्यटकाः, श्रद्धालवः च सम्प्राप्नुवन्ति। २०१५ वर्षे स्थलमिदं सर्वश्रेष्ठ-अनुरक्षित-एवं-दिव्यांग- सहायी-स्मारक-त्वेन राष्ट्रिय-पर्यटन-पुरस्कारम् (२०१३-१४) अलभत।[२७][२८]

अपूर्णे सत्यपि स्मारकमिदं मन्दिररूपेण धार्मिकानुष्ठानेभ्यः प्रयुज्यते। महाशिवरात्र्यां अत्र "मेला" आयोज्यते। तदा सहस्रशः भक्ताः समागच्छन्ति।[२९][३०] शिवरात्र्याः अवसरे मध्यप्रदेशसर्वकारेण अत्र भोजपुरोत्सवस्य आयोजनं क्रियते। ।[३१] उत्सवे अनेके प्रसिद्धाः जनाः अपि भागं वहन्ति। २०१७ वर्षे कैलाश खेर,[३२] ऋचा शर्मा, गण्ण स्मिर्नोवा, सोनू निगम च अत्र कार्यक्रमे स्वप्रस्तुतिम् अकुर्वन्।[३३][३४][३५]

आवागमनम्[सम्पादयतु]

भोजपुर-तः २८ कि ॰मी॰ दूरे राज्यस्य राजधानी भोपाल-नगरी अवस्थिता। तस्याः राजा-भोज-विमानक्षेत्रम् इतः निकटतमं विमानस्थानकं वर्तते।दिल्ली, मुम्बई, इंदौरग्वालियर इत्यादिभ्यः महानरेभ्यः भोपाल-नगराय् विमानानि उपलब्धानि सन्ति।[उद्धरणं वाञ्छितम्]

रेल-सेवा

दिल्ली-चेन्नई, दिल्ली-मुम्बई च मुख्य-रेल- मार्गे भोपाल-नगरं, हबीबगंज-नगरं च निकटतमं रेलवे-स्थानम् अस्ति।[उद्धरणं वाञ्छितम्]

बस-सेवा

भोजपुरं प्रति भोपालनगरात् बस-यानानि प्राप्यन्ते।[उद्धरणं वाञ्छितम्]

सन्दर्भः[सम्पादयतु]

  1. शिवजी का ऐसा मन्दिर, जिसका निर्माण सुबह होने के कारण रह गया अधूरा। समाचार-इण्डिया।१६-०९-२०१४ |accessdate= ०६-०२-२०१७
  2. "भोजेश्वर नाथ का अनोखा है यह मन्दिर". हिन्दी रसायन. Retrieved ०६-०२-२०१७. 
  3. "भोजपुर" (एचटीएम). इंदिरा गाँधी राष्ट्रीय कला केन्द्र. 
  4. "भोजपुर". रायसेन कृषि उपज मंडी समिति. 
  5. राजा भोज ने कराया था केदारनाथ मन्दिर का निर्माणवेबदुनिया।अनिरुद्ध जोशी 'शतायु'|अभिगमन तिथि:६-०२-२०१७
  6. ६.०० ६.०१ ६.०२ ६.०३ ६.०४ ६.०५ ६.०६ ६.०७ ६.०८ ६.०९ ६.१० ६.११ ६.१२ ६.१३ ६.१४ ६.१५ ६.१६ ६.१७ ६.१८ ६.१९ ६.२० ६.२१ ६.२२ ६.२३ मनकोडी & १९८७.
  7. विलिस, माइकल (२००१). "Inscriptions from Udayagiri: locating domains of devotion, patronage and power in the eleventh century" (in अंग्रेज़ी). साउथ इण्डियन स्टडीज़ १७ (१): ४१-५३. http://www.tandfonline.com/doi/abs/१०.१०८०/०२६६६०३०.२००१.९६२८५९१. 
  8. मेरुतुंग आचार्य (१९०१) (in अंग्रेज़ी). The Prabandhacintāmani or Wishing-Stone of Narratives. एशियाटिक सोसाइटी. p. ४९. 
  9. हर्मन जैकबी (१८८९). "ऑन भैरवी एण्ड माघ". Wiener Zeitschrift für die Kunde des Morgenlandes (ओरियण्टल स्टडीज़ विभाग, विएना विश्वविद्यालय) तृतीय: १४१. (अंग्रेज़ी)
  10. "राजा भोज का भोजपुर". मल्हार. वर्ल्ड प्रेस. 
  11. कुमार, अमितेश. "भोजपुर". इंदिरा गाँधी राष्ट्रीय कला केन्द्र. 
  12. गुर्जर महाराजा भोग परमार के भोजेश्वर मन्दिर की...|वीरगुर्जर्क्षत्रियहिस्ट्री|ब्रेव इण्डियन हिस्ट्री|अभिगमन तिथि: १ फ़रवरी, २०१७
  13. १३.० १३.१ के.एस.शाइनी (११ जून, २००७). "Pray In The Shade". आउटलुक. http://www.outlookindia.com/magazine/story/pray-in-the-shade/२३४८२७. (अंग्रेज़ी)
  14. अरुणा घोष, ed (२०११) (in अंग्रेज़ी). डीके आईविटनेस ट्रॅवल गाइड: इण्डिया. पेन्ग्विन. p. २४२. ISBN ९७८०७५६६८४४४०. https://books.google.com/books?id=LZ६oWxMFj३MC&pg=PA२४२. 
  15. "सावन का पहला सोमवार, कीजिए...". पत्रिका, भोपाल. २०१५-०८-०३. 
  16. "भोजपुर: कंज़र्वेशन & प्रिज़र्वेशन". भारतीय पुरातात्त्विक सर्वेक्षण विभाग, भोपाल मण्डल. Retrieved २०१६-०५-१०. 
  17. प्राचीन स्मारक संरक्षण अधिनियम १९०४
  18. "भारत का गैज़ेट (पृ. २३६)". १९५१-०२-१७. 
  19. भोजपुर-संरक्षण।भारतीय पुरातात्त्विक सर्वेक्षण विभाग, भोपाल मण्डल के जालस्थल पर।(अंग्रेज़ी)
  20. सावन का पहला सोमवार, कीजिए...|पत्रिका|भोपाल|०३-०८-२०१५|अभिगमन तिथि: ०१-०२-२०१७
  21. फलकम्:Cite AV media
  22. तेज न्यूज़।एक ही पत्थर पर बना विश्व का सबसे बड़ा शिवलिंग
  23. "Bhojpur Savite Temple". भारतीय पुरा. सर्वे. वि.- भोपाल मण्डल. Retrieved २०१६-०५-१०. (अंग्रेज़ी)
  24. Bhattacharya, २००७ & ३२१.
  25. बी पी सिंह, ed (१९९६). इण्डियन आर्कियोलॉजी १९९१-९२– ए रिव्यु. भारतीय पुरातात्त्विक सर्वेक्षण विभाग. p. १६९. http://asi.nic.in/nmma_reviews/Indian%२०Archaeology%२०१९९१-९२%२०A%२०Review.pdf. (अंग्रेज़ी)
  26. (अभी जालस्थल पर हिन्दी अनुवाद उपलब्ध नहीं है)
  27. "Gujarat bags top award for comprehensive development of tourism", डी एन ए (अंग्रेजी समाचार पत्र), १९-०९-२०१५.  (अंग्रेज़ी)
  28. Empty citation‎ (help) 
  29. "महाशिवरात्री बींग सेलिब्रेटेड एक्रॉस मध्य प्रदेश", ज़ी न्यूज़, ०७-०३-२०१६. (अंग्रेज़ी)
  30. [उद्धरणं वाञ्छितम्]
  31. "'भोजपुर उत्सव' टू ऑब्ज़र्व महाशिवरात्रि", द पॉयनियर, २६ फ़रवरी २०१४. (अंग्रेज़ी)
  32. "Kailash Kher performs at Bhojpur Utsav in Bhojpur", टाइम्स ऑफ़ इण्डिया, १३ मार्च २०१३. Empty citation‎ (help) 
  33. "सोनू निगम ऍडस चार्म टू भोजपुर उत्सव" (अंग्रेज़ी में). द फ़्री प्रेस जर्नल. ९ मार्च २०१६. http://www.freepressjournal.in/sonu-nigam-adds-charm-to-bhojpur-utsav/७९९७६७.फलकम्:अंग्रेज़ी
  34. "शिव के दरबार में सोनू निगम का बैंड, भोजपुर महोत्सव में बांधा समां" (एच.टी.एम.एल.), दैनिक भास्कर (भोपाल संस्करण). Retrieved on ७ फ़रवरी, २०१७. “महाशिवरात्रि का पर्व, अध्यात्मिक और ऑइकॉनिक स्थान भोजपुर पर परफार्म करना मेरे और बैंड के लिए खास है।” 
  35. Empty citation‎ (help) 
उद्धरणे दोषः : <ref> अङ्कनं "FOOTNOTEहार्डी२००७" नाम्ना सह परिभाषितम् <references> पूर्वलेखे उपयोगाय न जातम् ।

सन्दर्भग्रन्थसूची[सम्पादयतु]

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

  1. भोजपुर मन्दिर, भोपाल, मध्य प्रदेश on यू ट्यूब्
  2. भोजपुर शिव मन्दिर on यू ट्यूब्
  3. भोजपुर-संरक्षण।भारतीय पुरातात्त्विक सर्वेक्षण विभाग, भोपाल-मण्डलस्य जालस्थले।(अंग्रेज़ी)
  4. भोजपुर - एक अनमोल विरासत इत्यत्र दृश्यचलितं (विडियो) पश्यतु :- भारतीय-पुरातात्त्विक-सर्वेक्षण-विभागस्य आधिकारिके जालस्थले।
"https://sa.wikipedia.org/w/index.php?title=भोजेश्वरमन्दिरम्&oldid=437081" इत्यस्माद् पुनः प्राप्तिः