मकरन्द दवे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



मकरन्दस्य (गुजराती: મકરન્દ દવે, आङ्ग्ल: makarand dave )वंशजाः राजकोटमण्डलस्य गोंडल-ग्रामे निवासं करोन्ति स्म । तस्य नाम मावजी दवे इति आसीत् । सः धार्मिकवृत्तियुतः, सहजानन्दस्वामिनः भक्तश्च आसीत् । श्रीजीमहाराजः तत्र आगत्य सत्संङ्गं कारयति स्म । सा च भक्तिः तस्य कुटुम्बस्य प्रत्येकस्मिन् जने आसीत् । इमां परम्परां वजेशङ्कर दवे अन्वसरत् । तस्य मनः बाल्यादेव भगवतः भक्तौ रतम् आसीत् । ततः परं सः प्रतिदिनं गोंडल-ग्रामस्य स्वामिनारायणमन्दिरं गच्छति स्म । तस्य वयः विवाहयोग्यम् अभवत् अतः वजीबा इति नामिकया कन्यया सह तस्य विवाहः अभवत् । संसारव्यवहारयोः परायणस्सन्नपि तस्य भक्तिः अखण्डा आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

वजेशङ्कर इत्यस्य गृहे पञ्चानां सन्ततीनां जन्म अभवत् । तेषु कनिष्ठः मकरन्दःः आसीत् । तस्य जन्म १९२२ तमस्य वर्षस्य नवम्बर-मासस्य १३ तमे दिनाङ्के अभवत् इति । तस्य जन्मनः प्राक् तस्य माता स्वप्ने एकं दिव्यं बालकं दृष्टवती । तस्य नाम महाशङ्कर इति प्रसिद्धम् अभवत् । किन्तु गृहे सर्वे तं बाबू इति नाम्ना एव आह्वयन्ति स्म । ते आहत्य पञ्चभ्रातरः भगिन्यश्च आसन् ।

बाल्यं, शिक्षणं च[सम्पादयतु]

बाबू बाल्यादेव शान्तः, एकान्तप्रियश्च आसीत् । यदा सः षड् वर्षीयः अभवत्,तदा पिता गोण्डल-ग्रामस्य प्राथमिकशालायां तं प्रैषयत् इति । कालान्तरे शालायाः विद्यार्थिनः तस्य मित्राणि अभवन् । सः अभ्यासुः आसीत् । अभ्यासक्रमस्य पाठान् पिपठिषति स्म । बहुवारं सः उदरे पीडा अस्ति इत्यादिषु किमपि एकं कारणम् उक्त्वा शालां न गच्छति स्म । एकदा पिता सप्रेम कारणम् अपृच्छत्, तदा तस्य वर्गस्य छात्राः बीभत्सं वार्तालापं कुर्वन्ति इति सः पितरम् असूचयत् ।

क्रीडां प्रति रुचिः[सम्पादयतु]

मकरन्दःः दवे बाल्ये क्रिकेट्-क्रीडायां बहु आसक्तः आसीत् । सः उत्तमः क्षेपकः आसीत् । सः प्रतिसायङ्कालं मित्रैः सह क्रीडति स्म । सदा शान्तः दृश्यमानः सः मित्रैः सह बहु-क्रीडति स्म । तस्य क्रीडा कौशलं सर्वेभ्यः अरोचत । इत्थं सर्वेऽपि जनाः तस्मिन् स्निह्यन्ति स्म ।

भक्तिः[सम्पादयतु]

धार्मिकवृत्तियुतस्य पित्रोः स्वामिनारायणस्य भक्तिः अनेन जन्मना एव प्राप्ता इति । सः "रामकृष्णकथामृत" इति एकं पुस्तकम् अपठत् अतः स्वामिनारायणरामकृष्णयोः प्रभावः अस्योपरि आसीत् । बाल्यादेव तस्मै भक्तिः, ध्यानं च बहुरोचते स्म । तस्य गृहस्य समीपे एका वनिता आसीत् । तस्याः अधः उपविश्य अयं ध्यानं करोति स्म इति । इत्थं तस्य पालनं मुक्तरीत्या अभवत् इति ।

जीवनमन्त्रः, मकरन्दः नाम्नः इतिहासः च[सम्पादयतु]

हे महाराज ! त्वम् इच्छसि तदेव भविष्यति इति तस्य मातुः जीवनमन्त्रः आसीत् । स एव जीवनमन्त्रः बाबु इत्यनेन प्राप्तः । तस्य मूलनाम महाशङ्कर इति आसीत् । तथापि जनाः तं बाबु इति नाम्ना एव आह्वयन्ति स्म । किन्तु मकरन्दस्य भगिन्याः दयाबेन इत्यस्याः विवाहः अभवत्, तस्य नाम अपि बाबु इति आसीत् । अन्ते जामाता बाबु इत्यस्मात् मकरन्दः इति नाम अददात् । तस्मात् दिनात् सः मकरन्दः इति नाम्ना प्रसिद्धः अभवत् ।

उच्चशिक्षणम्[सम्पादयतु]

गोंडल-ग्रामे मेट्रिक् कक्षां यावत् अभ्यासं कृत्वा मकरन्दः अधिकम् अभ्यस्तुं राजकोटनगरस्य धर्मेन्द्रसिंह इति कॉलेज् मध्ये अभ्यासार्थं गतः । मनुभाई अपि तत्रैव अभ्यासं करोति स्म । एतावुभो महात्मनः कथनेन स्वतन्त्रतां प्रति आसक्तौ अभवताम् । १९४२ तमे वर्षे सः देशार्थम् अभ्यासम् अत्यजत् खादी-वस्त्रम् अधरत् च । सः अभ्यासम् अत्यजत्, किन्तु स्वाध्यायं नात्यजत् । स्वाध्ययनेन सः स्वस्य विकासम् अकरोत् इति ।

पठनस्य विकासः[सम्पादयतु]

१९४२ तमे वर्षे सः महाविद्यालयस्य (collage) अभ्यासम् अत्यजत् । ततः परं १९४३ तमे वर्षे सः कुमार-दैनिकेेन सह संलग्नः अभवत् । 'उर्मिनवरचना'मासिकपत्रिकायां, 'जयहिन्द'-दैनिकवर्तमानपत्रे च अयं लेखकत्वेन कार्यम् आरभत इति । ततः प्राक् सः धार्मिकं पठनम् अकरोत् । अतः सः स्वस्य विकासम् अकरोत् इति ।

पाश्चात्यचिन्तकानां पठनम्[सम्पादयतु]

मकरन्देन वार्तायाः, काव्येभ्यः, रामकृष्णकथामृतात् , हिमालय प्रवासात् च वाचनस्य प्रारम्भः कृतः। मकरन्दः शनैः शनैः विश्वस्य लेखकानां कवीनां च विषये पठितुम् आरभत इति । सः आग्लभाषायां प्रभुत्वं प्राप्य सो्न्दर्यस्य कविशैलीम् अपठत् । ळोकसमुदायं जीवमानं कुर्यात् तादृशं हार्डी नाम्नः लेखकस्य पुस्तकानि अपि अपठत् इति । ततः परं रुथ बेनेडिक्ट्, अब्राहम् मेस्लो, डो.विक्टर् फ्रेकल्,मार्टिन् ब्यूबर्, आर्नोल्ड टॉयन्बी,एरिक् फ्रॉम्, कार्लयुग् आदीनां पाश्चात्यचिन्तकानां विषयेऽपि सः अपठत् ।

धार्मिकपठनम्, अन्यासां भाषाणां पठनं च[सम्पादयतु]

मकरन्दः धार्मिकवृत्तिमान् जनः आसीत् । अतः तेन धार्मिकम् अध्ययनम् अपि कृतम् । सः वैदिकदृष्टान्तान्, बौद्धसिद्धानां, नाथयोगिनां, निर्गुण-सगुणमार्गयोः, सतां च विषये अध्ययनम् अकरोत् इति । इत्थं तस्य ज्ञानस्य विकासः अभवत् इति । सः ऊर्दूभाषाम् अपठत् । ऊर्दूभाषायाः श्रेष्ठानां गजलकाराणां पुस्तकान्यपि अपठत् इति । ततः परं सः बङ्गालीभाषाम् अपि अपठत् इति । तस्य गृहे जनाः एकत्रिताः भवन्ति स्म, ते सर्वे साहित्यरसिकाः रवीन्द्रनाथस्य बलाका इति पुस्तकं पठन्ति स्म । इत्थं मकरन्दःः दवे एतादृक् साहित्याध्ययनेन वाचं प्रादात्, तन्नाम साहित्यरचनायां गतिमान् अभूत् ।

आध्यात्मिकविस्फोटः[सम्पादयतु]

यदा मकरन्दः दवे प्रमाणिकताद्वारा 'जय हिङ्द'- दैनिके कार्यरतः आसीत्, तदा तस्य जीवने आध्यात्मिकः विस्फोटः अभवत् । रात्रौ सः शयनरतः आसीत् । सहसा तस्य नाभिस्थलात् हरि बोल हरि बोल इति रवः निर्गतः । तस्य भ्रमः अस्ति इति मत्वा सः जलम् अपिबत् । इतस्ततः भ्रमणं च अकरोत् इति । द्वितीयायां रात्रौ सः अनुभवः पुनः जातः । तेन पुनः स्वस्य भ्रमः अस्ति इति विचारितम् । तृतीयरात्रौ त्वं गोंडल-ग्रामं गच्छ । तत्र एकेन जनेन शाकं ते मेलनं भविष्यति सः सर्वं बोधयिष्यति इति । किन्तु सः स्वयं गन्तुं नेच्छति स्म । इत्थम् उभयोः संवादः अभवत् । अन्ते एकदा तन्त्रिणः स्वामिना सह कलहः अभवत् । सर्वैः कर्मकरैः तन्त्रिपक्षे स्थित्वा वृत्तेः त्यागः कृतः । तदनन्तरं पुनः रवः आगतः इदानीं दायित्वं नास्ति गच्छतु इति । अन्ते मातुः आशीर्वादेन सह जुनागढ-नगरे गन्तुम् व्यचारयत् इति । ततः सः परं पितरं स्वप्ने अपश्यत् । जुनागढ-नगरे न गन्तव्यम्, जुनागढ-नगरमत्र आगमिष्यति इति अवदच्च ।

नाथालाल जोशी इत्यस्य आगमनम्[सम्पादयतु]

द्वितीये दिवसे कृष्णभक्तः नाथालाल जोशी जुनागढ-नगरात् समागतः । वार्तायाम् असत्यामपि नाथालाल स्वयमेव 'हरि बोल' इति रवस्य विषये अवदत्, भवति ईश्वरस्य अनुग्रहः अस्ति इत्यपि अवदत् । ततः परं मकरन्दः मातुः, कुटुम्बस्य च किं भविष्यति ? इति अपृच्छत् । भगवतः नामस्मरणं करोतु, रात्रौ द्वादशवादने आवश्यकानि वस्तूनि प्राप्स्यसि इति । इत्थं "योगक्षेमं वहाम्यहम्" इति अनुभूतिः जाता । ततः परं नाथालालभाई तस्य परं मित्रम् अभवत् । अतः तेन सह अध्यात्मस्य, निजजीवनस्य च चर्चा कृता ।

शक्तिपातस्य अनुभवः[सम्पादयतु]

एकदा नाथालालभाई इत्यनेन सह शक्तिपातस्य विषये चर्चा जाता । मकरन्दःः दवे तस्मिन् विषये नामनति स्म । सः आध्यात्मिकमार्गे पुरुषयत्नेन सर्वं सिद्ध्यति इति मन्यते स्म । नाथालालभाई तस्योपरि हस्तम् अस्थापयत् । मकरन्दः भाई तस्य अक्ष्णोः तेजः अपश्यत् । तदनन्तरं रात्रौ स्थितिपरिवर्तनम् अभवत् । मकरन्दःः स्वयं सागरस्य मध्ये अस्ति, तस्य परितः प्रकाशस्य सागरः अस्ति इति अनुभूतवान् । अन्तः करणात् आनन्दः भवति स्म । बहिः प्रेमानुभूतिः भवति स्म । एतत् सर्वं सः नाथालाल इत्यस्मै अबोधयत् सः तं दधि,पुरिकां च अभोजयत् । सः शान्तः अभवत् च । अयम् अनुभवः अभवत् । अतः जगतः केन्द्रे निर्मलः प्रकाशः अस्ति इति तेन अङ्गीकृतम् ।

पितुः मरणम्[सम्पादयतु]

अन्तिमे काले तस्य पितुः श्वासरोगः आसीत् । अन्तिमेषु चतुर्मासेषु जीवनस्य श्रेष्ठम् आनन्दम् अनुभवामि इति सः कथयति स्म । दुःखस्य पीडायाः च विषये सः न वदति स्म । मकरन्दःः दवे पितरम् अन्तिमा इच्छा का इति अपृच्छत् । पिता साधुधर्मजीवनदास इत्येतं मेलितुम् इच्छामि इति अवदत् । मकरन्दःः दवे साधु धर्मजीवनदास इत्येतं कथम् अन्विषामि इति व्यचारयत् । किन्तु ईश्वरस्य प्रेरणाद्वारा सः स्वयमेव आगतः । तव पितुः मां स्मरति । अतः आगतः अस्मि इति सः मकरन्दम् अकथयत् । तदनन्तरं सः वजेशङ्कर इत्येतं रोगस्य विषये अपृच्छत् । अश्वः रुग्णः अस्ति तत्र अश्वारूढस्य कः दोषः । तादृशेन भक्तेन चिदानन्दरूपः "शिवोऽहं शिवोऽहम्" इति वदन् देहत्यागः कृतः ।

आध्यात्मिकेन विकासेन सह साहित्यिकविकासः[सम्पादयतु]

भक्त्या, साधनया, नाथालाल इत्यस्य मार्गदर्शनेन च मकरन्दस्य आध्यात्मिकः विकासः अभवत् । तेन सह साहित्यिकः विकासः अपि अभवत् इति । १९५१ तमे वर्षे तस्य 'तरणा' इति एकः काव्यसङ्ग्रहः प्रकटितः अभवत् । अयं ग्रन्थः तेन स्वस्य मात्रे समर्पितः । तत्र मातुः विषये अलिखत् यत् “માડી તુ વરસી જ્યારે વ્હાલની વાદળી સમી, અનાયાસે ઉરે ઉગ્યુ અર્પુ તે ચરણે નમી

साहित्ययात्रा[सम्पादयतु]

१९५२ तमे वर्षे 'जयभेर' इति काव्यसङ्ग्रहः प्रकटितः अभवत् । तदनन्तरं १९५५ तमे वर्षे 'જ઼બૂક વિજ઼ળી' इति नामकः बालकाव्यसङ्ग्रहः प्रकटितः अभवत् इति । बालेभ्यो रुचिकराणि काव्यानि तेन रचितानि । तत् सर्वं सः स्वस्य भगिन्याः पुत्रीम् अनुलक्ष्य लिखति स्म । अतः बालेभ्यो रुचिकरं भवति स्म । उदाहरणम्- પાટી ને પેન લઈ ટમી ચાલી સ્કૂલે,

નાની એવી ફૂલ કેરા વેણી માથે ઝૂલે ।

ततः परं 'गोरज' इति काव्यसङ्ग्रहः प्रकाशितः अभवत् । अयं काव्यसङ्ग्रहः तेन दयाबेन इत्यस्यै समर्पितः । सा सन्त ज्ञानेश्वर इत्यस्य वचनेषु विश्वसिति स्म । सा मदरन्द दवे इत्यस्मिन्नपि श्रद्दधाति स्म । स्वस्य पुत्रेभ्योऽपि मातुलस्य जीवनात् प्रेरणा ग्राह्या इति कथयति स्म ।

अन्यकाव्यसङ्ग्रहाः[सम्पादयतु]

१९६१ तमे वर्षे मकरन्दः दवे इत्यस्य 'सुरजमुखी'-काव्यसङ्ग्रहः प्रकाशितः अभवत् । १९६४ तमे वर्षे 'संज्ञा' इति काव्यसङ्ग्रहं प्राकाशयत् । १९६८ तमे वर्षे 'સંગતિ' काव्यसङ्ग्रहः, 'તાઈકો' इति पुस्तकं च प्राकाशयत् । ततः परं १९७२ तमे वर्षे जीवनस्य सम्बन्धिनां वार्तानां 'પીડ પરાઈ' इति नामकं पुस्तकम् १९७८ तमे वर्षे 'યોગપથ' इति पुस्तकं च प्राकाशयत् । १९८० तमे वर्षे सः 'અમલ પ્યાલી', आध्यात्मिकवार्तायुतं 'સહજને કિનારે' इति पुस्तकं च प्राकाशयत् । १९८१ तमे वर्षे 'માટીનો મહેકતો સાદ' इति पुस्तकं प्राकाशयत् । अस्मिन् पुस्तके सः बलरामस्य कृष्णे कियत् प्रेम आसीत् ? इति निरवर्णयत् । तत् पुस्तकं सः स्वस्य अग्रजाय मनोजाय समर्पितवान् इति ।

मकरन्दः भाई इत्यस्य गृहम्[सम्पादयतु]

गोंडल-ग्रामे मकरन्दस्य गृहं सर्वेषां कृते समययापनस्थलम् आसीत् । तत्र निवृत्तिरपि प्रवृत्तिः भवति स्म । सर्वे वार्तां श्रोतुं तत्र गच्छन्ति स्म । मकरन्दस्य माता प्राङ्गणे शयनरता भवति स्म । सा बाबू इति वदेत् चेत्, सर्वाणि कार्याणि त्यक्त्वा मकरन्दः मातुः सेवायाम् उपस्थितः भवति स्म । एतेषामागमनेन त्वं रुष्टा भवसि ? इति सः मातरम् अपृच्छत् । माता न इति अवदत् च ।

मकरन्दः भाई इत्यस्य विनोदवृत्ति[सम्पादयतु]

१) पठनचिन्तनाभ्यां मकरन्दे गम्भीरता आसीत्, किन्तु विनोदवृत्ति अपि आसीत् । तस्य बहूनि उदाहरणानि सन्ति । एकदा सः उद्वाप(Shaving)म् अकरोत्, तदा प्रतिवेशी भवतः उद्वाप(Shaving)म् समीचीनं न जातम् इति अवदत् । मकरन्दः उत्तरे अहं श्रेष्ठः नापितः नास्मि इति अवदत् । २) एकदा तस्य पृष्ठभागे वेदना भवति स्म । ततः परं भावनगरस्य प्रजारामभाई रावल इत्यनेन आपणात् लशुनम् आनीय गृहे तैलं निर्मितम् । तेन सः मकरन्दस्य अङ्गमर्दनम् अकरोत् । तथापि तस्य पीडा शान्ता न जाता अपि तु पीडायां वृद्धिः अभवत् । तथापि सः महर्षि अरविङ्द इत्यस्य कथाम् अश्रावयत् इति । अन्ते मम शरीरं प्रयोगभूमिः अस्ति इति विनोदम् अकरोत् । ३) मकरन्दाय ભજીયા इति बहु रोचते स्म । अतः सः ભજીયા ભજન इति द्वयोः शब्दयोः धातुः समानः अस्ति तत् स्वल्पम् अपि भिन्नं नास्ति इति विनोदं करोति स्म । ४) एकदा गोंडल-ग्रामस्य कवि अशोक जोशी यदि मूर्खजनाः प्रधानाः भवन्ति, भगवान् इव भवन्ति, मठाधिपतयः भवन्ति तर्हि वयं निष्फलाः किमर्थं ? इति प्रश्नम् अपृच्छत् । मकरन्दः अवदत् ते भगवते धनं, सत्तां च ददातु इति याचनया प्रार्थयन् । आवां साक्षात् भगवन्तम् अयाचताम् । त्वं स्मर ! एकदा आवाभ्यां मोदकभक्षणस्य इच्छा कृता आसीत्, तदा प्रतिवेशी आगत्वा मोदकम् अयच्छत् इति । अतः भगवन्तं यत् प्रार्थयामः सः तत् ददाति इति सविनोदं तम् अबोधयत् । सः अवगच्छत् च ।

देशभक्तः[सम्पादयतु]

कविः, अध्येता, चिन्तकः मकरन्दः दवे देशभक्तः अपि आसीत् । भारतं स्वतन्त्रम् अभवत् ततः परं मदरन्द दवे राष्ट्रस्य शीलस्य सदाचारस्य च रक्षणार्थं प्रयत्नानि अकरोत् । स्वतन्त्रतायाः परं देशे भ्रष्टाचारः ,जनानं हत्यादिप्रवृत्तीः च दृष्ट्वा सः अगायत्- જે પરાયાને અમે દઈ માર કાઢ્યા વેગથી એ શુ આ સંહાર કાજે, કૈ હજારો કંઠના ભયઘોર હાહકાર કાજે ?? स्वतन्त्रता प्राप्ता तथापि अस्य सङ्घर्षः प्रचलति स्म । ऋजुः, सोम्यः मकरन्दः दवे अन्यायम् असत्यं कदापि न सहते स्म । पापं, अन्यायं,पाखण्डं च प्रति क्रुध्यति स्म । सः केवलं राजनेतृभ्यः, व्यापारिभ्यः रोषं न दर्शयति स्म । अपि तु सः पाखण्डिगुरुभ्यः लोभयुतेभ्यः शिष्येभ्योऽपि क्रुध्यति स्म ।

मकरन्दः दवे इत्यस्य अन्याः रचनाः[सम्पादयतु]

मकरन्दस्य प्रथमस्य तरणा इत्यस्य काव्यसङ्ग्रहस्य प्रकाशनसमये प्रकाशकः बाबूभाई मकरन्दस्य काव्येषु विविधता, नवीनता ,सत्यता च दृश्यते । एभिर्गुणैः मकरन्दस्य गुजराती कवीषु अलौकिकं स्थानम् अस्ति इति च अवदत् । तस्य इमे शब्दाः सत्याः अभूवन् । बालकाव्यैः स्वस्य काव्ययात्रायाः प्रारम्भं कृत्वा सः સોનેટ, ગજલ, મુક્તકો, ભજન, અપદ્યાગદ્ય,પદ,રાસ, હાલરડા आदी सर्वं रचयित्वा प्रसिद्धः अभवत् ।

विवाहः[सम्पादयतु]

शब्दायात्रां कुर्वन् मकरन्दः दवे इत्ययं कुन्दनिका बहेन इत्येताम् अमिलत् । सा नवनीत इति गुजराती मासिकस्य सम्पादिका आसीत् । तत्र कार्यं कुर्वतोः उभयोः परिचयः अभवत् । ततः परं पत्रव्यवहारस्य आरम्भः अभवत् । कालान्ते उभयोः विचारे समानता अस्ति इति उभाभ्यां ज्ञातम् । एकदा मकरन्दः दवे कुन्दनिका बहेन इत्येतां पत्रम् अलिखत् । पत्रं पठित्वा कुन्दनिका बहेन आश्चर्यं गता । मकरन्दः दवे इत्यस्य माता अपि सः विवाहितः भवेत् इति इच्छति स्म । सः स्वेच्छया विवाहं करिष्यति इति मातरम् असूचयत् । अन्ते कुन्दनिका बहेन इत्यस्याः विषये कुटुम्बिजनान्, स्वमित्राणि च सूचयित्वा दाम्पत्यजीवनस्य आरम्भम् अकरोत् । समानविचारधारायाः दम्पती प्रतिदिनं चर्चां विधत्तः स्म । कुन्दनिका बहेन इतीयं मकरन्दः दवे इत्यस्य लेखेषु भाषाकीय परिवर्तनस्य आवश्यकता चेत्, तत् सूचयति स्म ।

मकरन्दस्य आध्यात्मिकाः रचनाः[सम्पादयतु]

मकरन्दः दवे इत्ययं धार्मिकवृत्तियुक्तः आसीत्, शक्तेः उपासकः साधकश्च आसीत् । अतः लेखस्य विषयेषु परिवर्तनम् अभवत् । पुराणानां वाचनान्ते तस्य मनसि अन्येषां विचाराणां स्फुरणा जाता । ताः स्फुरणाः तेन 'हंसा करो पुरातन बात' इति नाम्ना पुस्तकरूपेण प्रकाशिताः । कालान्तरे १९८३ तमे वर्षे त एव विचाराः 'गर्भदीप' इति पुस्तके प्रकािताः अभवन् । तस्मिन्नेव वर्षे 'चिरन्तना' इति एकं पुस्तकं प्रकटितम् अभवत् । यस्मिन् अवतारस्य कथानां वर्णनम् अस्ति । १९८४ तमे वर्षे विष्णु-सहस्र,१९८५ तमे वर्षे उपनिषदाधारितं चिदानन्दा,१९८७ तमे वर्षे भजनसम्बन्धि भजनरस इति पुस्तकं प्रकटितम् अभवत् । ततः परं તપોવન ની વાટે, બ્રહ્મવીણા इति पुस्तकद्वयं प्रकटितम् अभवत् । १९९३ तमे वर्षे હવાબારી इति काव्यसङ्ग्रहः प्रकटितः कृतः । तदनन्तरं १९९६ तमे वर्षे વિશ્વચેતનાના વણજારા, આભલા इति पुस्तकद्वयं प्रकाशितम् । १९९९ तमे वर्षे નરસિંહના પદો, २००२ तमे वर्षे જનમ જનમ ની કૂંચી इति पुस्तकं च प्रकाशितम् ।

नन्दिग्राम संस्थायाः स्थापना[सम्पादयतु]

मकरन्दः दवे सुप्रसिद्धया लेखिकया कुन्दनिका बहेन इत्यनया सह मुम्बई-नगरे वसति स्म । तथापि तयोः मनसि किमपि ईश्वराय रुचिकरं भवेत् तादृशं किमपि कर्तव्यमिति प्रतिदिनं विचारयतः स्म । कालान्तरे वलसाड-ग्रामात् २० कि.मी दूरं वाङ्कल-ग्रामे नन्दीग्राम नामिकां संस्थाम् आरभत । दीनजनानां सेवायाः आरम्भः तेन ततः कृतः ।

नन्दिग्राम संस्थायाः सेवा[सम्पादयतु]

नन्दि-ग्राम संस्थया सर्वप्रथमं दीनजनेभ्यो तक्रवितरणस्य कार्यम् आरभत । सा सेवा जनानां साहाय्येन वटवृक्षसमा अभवत् । कालान्तरे नन्दि-ग्रामे चिकित्सालयस्य आरम्भः अभवत् । यानस्य माध्यमेन समीपस्थेषु ग्रामेषु अपि सेवाकार्यं भवति स्म । तत्र टी.बी रोगेण पीडीतानां कृते सेवा केन्द्रस्य आरम्भः अभवत् । कुशलस्य वैद्यस्य मार्गदर्शने गौमुत्रद्वारा औषधिनिर्माणस्य प्रारम्भः कृतः । ततः परं जनाः शिक्षिताः स्युः इति विचार्य शनि-रविवासरे विद्यार्थिशिबिरस्य आरम्भः कृतः । ततः परं कम्प्यूटर् केन्द्रे ग्रामिण-छात्रेभ्यो शिक्षाप्रदानस्य कार्यस्य आरम्भः जातः । ततः परं कपराडा-ग्रामे, धरमपुर-ग्रामे जलस्य अभावः आसीत् अतः तत्रत्यानां जनानां विषये विचारं कृत्वा पेय-जलस्य, कृषीयोग्य जलस्य च व्यवस्था कृता । कृषकाणां कृते विनामूल्यं बीजादिकं दत्त्वा प्रशिक्षणकेन्द्रस्य च स्थापना कृता । वृद्धजनेभ्यो वस्त्रदानं कृतम् । दीनजनेषु अन्नदानं कृतम् । ग्रामस्य शालानां जीर्णोद्धारः कारितः ।

हनुमानजी मन्दिरस्य स्थापना[सम्पादयतु]

मकरन्दः नन्दि-ग्रामे सेवया सह आध्यत्मिकं दीपमपि प्राज्वालयत् । तस्य साधना नन्दि-ग्रामे अपि भवति स्म । तस्य भगवति हनूमते अनन्या श्रद्धा आसीत् अतः नन्दि-ग्रामे सः भगवतः हनूमतः मन्दिरस्य स्थापनाम् अकरोत् । तेन सह मकरन्दस्य साक्षात् सम्पर्कः आसीत् इति जनाः मन्यन्ते स्म । तस्य विषये मकरन्दः 'हनुमन्त चरणे' इति पुस्तकम् अलिखत् ।

भजनं प्रति प्रीतिः[सम्पादयतु]

मकरन्देन सतां, कवीनां च विषये 'भजनरस' इति एकं पुस्तकं रचितम् । तस्मिन् न केवलं सताम् अपि तु मकरन्दस्य अनुभूतिरपि वर्णितास्ति । तेन 'યોગી હરખનાથના સાન્નિધ્યમા' इति पुस्तकं प्रकाशितं तस्मिन् योगी हरखनाथस्य विषये लिखितम् आसीत् । सः भजनप्रेमी आसीत् भजनानाम् अभ्यासुः आसीत् । सः भजनसाहित्यविषये संशोधनं कृत्वा भजनानि प्रतिजनं नेतुम् इच्छति स्म । तदर्थं १९८८ तमस्य वर्षस्य अगस्त-मासे नन्दी-ग्रामे शिबिरस्य आयोजनम् अकरोत् । शिबिरे दिनत्रयं भजनानां चर्चा अभवत् । अन्तिमे अह्नि मकरन्दः तस्य सारम् अकथयत् । तदनन्तरं नन्दिग्रामे मकरन्दः गोरक्षनाथस्य भजनस्य चर्चा अकरोत् । सः नाथालाल गोहेल इत्येतं तस्य अर्थम् अपृच्छत् । किन्तु अहम् अस्यार्थं न जानामि इति नाथालाल अवदत् । अन्ते मकरन्दः अहं गोरक्षनाथमेव अर्थं पृच्छामि इति अवदत् । अपरे अह्नि तस्य भजनस्य गोरक्षनाथोक्तम् अर्थम् सर्वान् अश्रावयत् इतीयं घटना सामान्या नासीत् । सः नन्दिग्रामे भजनस्य एकं विद्यालयं भवेत् इति इच्छति स्म । तत्र गुजरातस्य प्रसिद्धानि, अप्रसिद्धानि च भजनानि सङ्ग्रहतानि स्युः इति सः इच्छति स्म ।

मकरन्दस्य सत्त्वम्[सम्पादयतु]

एकदा सायं काले सः हस्ते एकं दण्डं स्वीकृत्य बहिः निर्गतः । तस्य पत्नी अन्याः तिस्त्रः स्त्रियः तं कुत्र गच्छसि इति अपृच्छन् । सः हनुमानजी मन्दिरं गच्छामि इति अवदत् । अहं गतरात्रौ मन्दिरस्य मूर्त्योपरि पर्णानि सन्ति इति स्वप्नं दृष्टवान् । तत् श्रुत्वा कुन्दिकाबेन नामा पत्नी त्वम् अत्रैव तिष्ठ इति आदिशत् । अन्याः स्त्रियः मन्दिरम् अगच्छन् । तत्र हनुमतः मूर्त्योपरि पतितानि पत्राणि अपश्यन् च । अनेन प्रसङ्गेन मकरन्दः सत्ववान् आसीत् इति स्पष्टम् अभवत् । भगवतः हनुमतः प्रसादात् तस्य कष्टानि दूराणि अभूवन् च ।

मार्गदर्शकः[सम्पादयतु]

मकरन्दः उत्तमः लेखकः, कविः,चिन्तकश्च आसीत् । तदतिरिच्य सः उदयमानानां कवीनां सहायकः अपि आसीत् । सः कवीनां रचनां पठित्वा मार्गदर्शनम् अपि ददाति स्म । एकदा सः नन्दिनीबेन महेता इत्येतां स्वस्य मातुः विषये किमपि लिखतु इति उक्तम् । तया अहं लिखितुं समर्था नास्मि इति उक्तम् । पुनः तव काव्यानि हृदयात् निर्गच्छन् लोकहृदयं यावत् प्रसृतानि भविष्यति इति तां प्रति मकरन्दः दवे अवदत् । कालान्तरे तया बहूनि काव्यानि रचितानि । आत्मविश्वासः अपि प्राप्तः । इत्थं सः भानुप्रसाद इति नामकस्यापि प्रसंसाम् अकरोत् । अत एव जनाः तस्य उत्तममार्गदर्शकत्वेनापि स्वीकारं करोति इति ।

कुन्दनीकाबेन इत्यस्याः प्रार्थना[सम्पादयतु]

मकरन्दः वयोवृद्धः जातः । अतः तस्य शरीरं रोगग्रस्तम्, अशक्तं च अभवत् । अपि च हृदयरोगस्य अपघातः अभवत् । तत् दृष्ट्वा कुन्दनीकाबेन इत्यनया मकरन्दस्य आरोग्यार्थं नन्दिग्रामपरिवारेण सह प्रार्थनां करिष्यामि इति विचारितम् । अन्ते सः प्रस्तावः तेन उपमकरन्दम् उपस्थापितः । मकरन्दः विश्वस्मिन् बहवः मनुष्याः रुग्णाः सन्ति, बहवः प्राणिनः अशक्ताः सन्ति तेषां सर्वेषां कृते प्रार्थनां कुर्तुवन्तु इति । तत् श्रुत्वा कुन्दनीकीबेन स्वस्याः प्रार्थनायां समग्रस्य मानवसमाजस्य कल्याणम् अयुनक् ।

पुरस्काराः[सम्पादयतु]

नन्दिग्रामे सेवायाः दीपकं प्रज्वाल्य उपविष्टः मकरन्दः पुरस्कारान् नैच्छत् । किन्तु स्वस्य कार्येण सर्वदा पुरस्कृतः अभवत् । ते च पुरस्काराः यथा

१. नरसिंह महेता पुरस्कारः २. रणजीतराम सुवर्णचङ्द्रक ३. मेघाणी पुरस्कारः ४. साहित्य गौरवपुरस्कारः

पुरस्कारार्थं तेन एका पक्ति लिखिता सा च इयम् “ ચંન્દ્રક તો ચાર દિન આપે બધાય, કોઈ સૂર્યક આપે તો વાત જામે इति

मृत्युः[सम्पादयतु]

जीवनस्य अन्तिमायाम् अवस्थायां मकरन्दः रोगग्रस्तः आसीत् । तथापि प्रसन्नः भासते स्म । अन्ते २००५ तमस्य वर्षस्य मे-मासस्य ३१ तमे दिनाङ्के तस्य मृत्युः अभवत् । ''श्री सद् गुरु शरणं नमो नमः'' इति इति नादेन सह जनैः तस्मै अन्तिमा श्रद्धाञ्दलिः प्रदत्ता । सः स्वस्य शरीरेण इदानीमपि जनहृत्सु जीवति ।

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मकरन्द_दवे&oldid=371001" इत्यस्माद् प्रतिप्राप्तम्