विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मुखपृष्ठं इत्यस्मात् पुनर्निर्दिष्टम्)
|
|
आधुनिकाः लेखाः
|
विषरहितान्नोत्पदानार्थं साम्प्रदायिककर्षणम्
कृषिः शब्द आङ्ग्लभाषायां ‘एग्रीकल्चर्’ इति उच्यते। एग्रीकल्चर् इत्यस्य शब्दस्य उत्पत्तिः लैटिन-भाषायाः जाता। लैटिन-भाषायाम् एगर् वा एग्री शब्दः अस्ति, यस्य अर्थःमृत्तिका इति भवति। अनन्तरं कल्चर् इत्यस्य शब्दस्य अर्थः कृषिः इति। कृषिः एका प्राथमिकी क्रिया अस्ति। सस्यानि, फलानि, पुष्पाणि, पशुपालनम् इत्यादयः विषयाः कृषिकार्येण सह सम्बद्धाः अस्ति। विश्वस्य ५०% जनाः कृषिकार्येण सह संलग्नाः सन्ति।
(अधिकवाचनाय »)
|
अद्यतनं सुभाषितम्
|
सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
- सु.भा. - सज्जनप्रशंसा (४९/११०)
लोके तावत् मनुष्यस्य एषः स्वभावः यत् यदा सः स्वयं कष्टम् अनुभवति, आपद्ग्रस्तो वा भवति, तदा सः कुपितः भवेत्, दु:खितो वा भवेत्। किन्तु सत्पुरुषाणां स्वभावः न तादृशः। ते सर्वदा परोपकारे एव निरताः सन्तः स्वस्य नाशसमये अपि कमपि विकारं न प्राप्नुवन्ति। तत्कथमिति कविः एकेन उदाहरणेन दर्शयति।
यथा चन्दनवृक्षः छेदनसमये अपि सहजगुणं सुगन्धं न जहाति, अपि च छेदनार्थम् उपयुक्तं कुठारमपि सुगन्धयुक्तं करोति, तथैव सज्जनाः नाशसमये अपि परोपकारबुद्धिं न परित्यजन्ति। सञ्चिका:सुजनो न याति.wav
|
|
|
|
|