विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतविकिपीडियायां सम्प्रति १२,१७९ लेखाः सन्ति।
|
|
२०२४ एप्रिल् २५
|
|
|
ईशावास्योपनिषत् शुक्ल यजुर्वेदीया उपनिषत्। उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते। शुक्लयजुर्वेदस्य संहितोपनिषदियम्। अष्टादशमन्त्रात्मिका विद्यते। इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति। अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते। पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते। अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः। इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति। ( अधिकवाचनाय)
|
|
|
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥
- उद्योगपर्व - ४०/६
बहु जनाः सुखेन जीवितुम् इच्छन्ति। परिश्रमं कर्तुं न इच्छन्ति। एतादृशाः विद्यां सम्पादयितुं न अर्हन्ति। सुखार्थी विद्यां प्राप्तुं न अर्हति। यतः विद्यायाः सम्पादनं परिश्रमं, निरन्तरं प्रयत्नञ्च अपेक्षते। विद्यां प्राप्तुं यः इच्छति सः सुखं त्यजेदेव।
|
|
|
इगुवास्सु जलपातः ( पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।
|
विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषा-परियोजनाः
आंगलेयभाषा परियोजनाः
|
|
विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषा-परियोजनाः
आंगलेयभाषा परियोजनाः
|
|