विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतविकिपीडियायां सम्प्रति १२,१७९ लेखाः सन्ति।
|
|
२०२४ एप्रिल् २६
|
|
|
तैत्तिरीयोपनिषत् प्रसिद्धासु दशसु उपनिषत्सु अन्यतमा। इयं कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता। इयम् उपनिषत् वल्लीत्रयेण विभक्ता विद्यते। प्रथमा वल्ली वर्णोच्चारविषयकः इत्यतः शिक्षावल्ली इति निर्दिश्यते। द्वितीयायां वल्ल्याम् आनन्दस्य मीमांसा विद्यते इत्यतः ब्रह्मानन्दवल्ली इति निर्दिश्यते। तृतीयायां वल्ल्यां वरुणस्य पुत्रः भृगुः प्रश्नोत्तरैः तपसा ब्रह्मज्ञानं प्राप्तवान् इत्यतः भृगुवल्ली इति निर्दिश्यते। इयम् उपनिषत् प्रवृत्तिपरा वर्तते। अत्र प्रस्तुतः पञ्चकोशविचारः तत्त्वज्ञानदृष्ट्या बहुव्यापकं बोधपरञ्च वर्तते। अत्रत्या आनन्दमीमांसा च विशेषमहत्त्वयुता वर्तते। अस्याः उपनिषदः तिसृषु वल्लीषु त्रिविधाः मीमांसाः प्रस्तुताः। ( अधिकवाचनाय »)
|
|
|
व्याधितस्यार्थहीनस्य देशान्तरगतस्य च।
नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥
- सुभाषितरत्नभाण्डागारम् - सुमित्रप्रशंसा (९२/१०)
प्रायः लोके सर्वेषाम् अपि स्नेहिताः भवन्ति एव। बान्धवाः बहवः स्युः नाम, तथापि मित्राणि सन्ति चेत् एव तस्य नरस्य जीवनं सुखि जीवनम्। यतः यस्य मित्राणि भवन्ति तस्य जीवने सर्वविधसौख्यम् अपि भवति। मनुष्यस्य कष्टसमये मित्रं सान्त्वनवचनै:, अन्येन प्रकारेण वा साहाय्यम् आचरति। तत्रापि रुग्णावस्थायां, दारिद्र्यदशायां, देशान्तरनिवासप्रसङ्गे, दु:खावस्थायां च यदि मित्राणां दर्शनं भवति तर्हि तत् औषधमिव सर्वमपि कष्टं दु:खं च परिहरति।
|
|
|
इगुवास्सु जलपातः ( पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।
|
विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषा-परियोजनाः
आंगलेयभाषा परियोजनाः
|
|
विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषा-परियोजनाः
आंगलेयभाषा परियोजनाः
|
|