वरङ्गलमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आन्ध्रप्रदेशस्य मण्डलानि.

इतिहासः[सम्पादयतु]

आन्ध्रप्रदेशराज्ये अत्यन्तं चारित्रकप्राधान्यतां याति इदं वरङ्गल् मण्डलम् (Warangal district)। यादवाः,चालक्याः,शातवाहनाः, राष्टकूटाः,काकतीयाः बहमनीवंशजाः, दिल्लीसुल्तानजनाः, मोगलायिनः, गोल्कोण्डनवाब् पालकाः, एतन् प्रदेशं पर्यपालयन् । काकतीयानां पालने अत्यन्तम् उच्चस्थितिं गतमिदं मण्डलम् आन्ध्रवैभवं शिल्पकला संस्कृतिः इत्येतेषां द्वारा दिशः व्यापृताः । १९५३ तमे वर्षे करीम्नगर्,नल्गोण्डामण्डलाभ्यां केचन प्रदेशाः मण्डलेस्मिन् संयोजिताः । १९७५ तमे वर्षे खम्मं मण्डलात् वरङ्गल् मण्डलं पृथक्कृतम् ।

भौगोलिकम्[सम्पादयतु]

अस्य मण्डलस्य प्राच्यां खम्मं मण्डलम्, पश्चिमे मेदक्, उत्तरे करीम्नगरं, दक्षिणे च नल्गोण्डा, खम्मं मण्डले सीमायां वर्तन्ते । २९% भूभागः अटवीमयः विद्यते । एटूरुनागारं इत्यस्य समीपे वन्यमृगसंरक्षणकेन्द्रमेकं १००० कि.मी.मितं विस्तृतम् । २४५० कि.मी. मिते विस्तीर्णे अङ्गारनिक्षेपाः लब्धाः । आलेरु, मुन्नेरु, पालेरु इत्याख्याः उपनद्यः प्रवहन्ति । नैऋति ऋतुप्रभावात् वृष्टिः सम्भवति ।

वाणिज्यम्[सम्पादयतु]

एटूरुनागारं इत्यस्मिन् प्रान्ते आन्ध्रप्रदेशरेयान्स् लिमिटेड् कर्मागारः, वरङ्गल् प्रान्ते च सस्यपरिशोधनाकेन्द्रं कार्यं कुर्वन्ति । १८८६ तमे वर्षे इदम्प्रथमतया रेल् मार्गः निर्मितः । वस्त्रवयने, लोहविग्रहाणां निर्माणे च मण्डलस्य ख्यातिः वर्तते । काकतीयविश्वविद्यालयः, प्रान्तीयतान्त्रिकमहाविद्यालयः, वैद्यमहाविद्यालयः च विद्यन्ते ।

वीक्षणीयस्थलानि[सम्पादयतु]

ओरुगल्लु दुर्गम्, सहस्रस्थम्भदेवालयः, रामप्पदेवालयः, पाकाल, लक्कवरं रामप्पस्वयंभू देवालयः, पद्माक्षी देवालयः इत्यादीनि प्राचीननिर्माणानि बहूनि विराजन्ते । इमानि अवश्यं वीक्षणीयानि ।

वीथिका[सम्पादयतु]

तालूकाः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वरङ्गलमण्डलम्&oldid=370294" इत्यस्माद् प्रतिप्राप्तम्