मेदकमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मेदकमण्डलम्
District
Reliefs at Kodur Pulkal in Medak district
Reliefs at Kodur Pulkal in Medak district
देशः  भारतम्
राज्यम् तेलङ्गाणाराज्यम्
प्रान्त्यः तेलंगाणप्रान्त्यः
केन्द्रम् चिद्दिपेटा नगरम्
Headquarters संगारेड्डी
भाषा
 • Official तेलुगु
Time zone UTC+5:30 (IST)
Website medakdistrict.net


मेदकमण्डलम् (Medak district)आन्ध्रप्रदेशराज्ये स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं सङ्गारेड्डि-नगरम्

इतिहासः[सम्पादयतु]

शातवाहनैः, बादामीचालक्यैः , कुतुब्शाहीवंशजैः, निजांनवाब्जनैः पालितमिदं सुरम्यं मण्डलं मेदक् इत्याख्यम् । मेदक्-पट्टणे प्रतापरुद्रेण निर्मितं दुर्गमेकम्, सिध्दक्-सेनानिभिः निर्मिता सिध्दिपेटा इति चारित्रकं कथनम् । गोल्कोण्डासुल्तानैः गुल्पानाबाद् इति अभिधाने कृते सति निजां नवाबजनाः मेदक् इति व्यवहृतवन्तः । १९४८ तमे वर्षे भाग्यनगरराज्ये -१९५६ तमे वर्षे आन्ध्रप्रदेशराज्ये च भागभूतम् आसीत् । अत्र निरक्षरता (अशिक्षता), निर्धनता, वर्षाभावः च इत्यादयः समस्याः सदा जनान् पीडयन्ति । १९३० तमे वर्षे जोगिपेटायाम् आन्ध्रमहासभायाः प्रथमः समावेशः सुरवरं प्रतापरेड्डिवर्यस्य आध्यक्ष्ये प्रचालितः । तेन साहित्य-सांस्कृतिक-ग्रन्थालयोद्यमः संचालितः ।

भौगोलिकम्[सम्पादयतु]

अस्य प्राच्यां वरङ्गल्-नल्गोण्डामण्डले, पश्चिमे कर्णाटकराज्यम्, उत्तरे करींनगर-निजामाबाद् मण्डले, दक्षिणे च हैदराबाद्-रङ्गारेड्डिमण्डले च वर्तन्ते । ८.९६% अरण्य- भूम्यां देवदारुः लभ्यते । “ ७” राजमार्गः , “ ९” राजमार्गः च निर्मितौ । १८८६ तमे वर्षे हैदराबाद्-रेल्मार्गः निर्मितः यः एतस्मात् मण्डलात् गम्यते ।

कृषिः वाणिज्यं च[सम्पादयतु]

एरण्डः, कलायः, आढकी, माषः, मुद्गः इत्यादीनां सेद्यं भवति । इदमिदानीमेव विश्वस्य आर्थिकसहकारेण दुकूलपरिश्रमाः वर्धमानाः सन्ति । रामचन्द्रापुरसमीपे बि. हेच् –इ.एल्., पटानचेरुसमीपे बि.डि.एल्, एद्दुमैदारन्तसमीपे आयुधकर्मागारः, मेदकप्रान्ते च इक्षुकर्मागारः स्थापिताः । रामचन्द्रापुरसमीपे इक्रिशाट्-केन्द्रम् १९७२ तमात् वर्षात् सस्यक्षेत्रेषु शोधकार्यं करोति । मञ्जीरानदीद्वारा, घनापूर्, रायनपल्ली, बोगम्पल्ली, पेद्दवागु च इत्यादिजलसेतूनां द्वारा च जलव्यवस्था कल्प्यते । शङ्करपल्ली, पापन्नपेटा, आन्दोल, जहीराबाद्, पैकापूर् इत्यादिप्रान्तेषु खनिजसम्पद् वर्तते ।

वीक्षणीयस्थलानि[सम्पादयतु]

जोगिपेटस्थं जैनमन्दिरम्, मेदक्-मण्डलान्तर्गतं दुर्गं, कोण्डापुरस्थ- पुरावस्तुशाला, मञ्जीरासेतुः च अवश्यं संदर्शनीयाः । उस्मानिया-विश्वविद्यालयस्य परिधौ अत्रत्याः विद्यासंस्थाः प्रचाल्यन्ते ।

तालूकाः[सम्पादयतु]

बाह्यनुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मेदकमण्डलम्&oldid=483650" इत्यस्माद् प्रतिप्राप्तम्