खम्मम् मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खम्मम्
—  जनपदम्  —
खम्मम्
Location of खम्मम्
in तेलङ्गाणाराज्यम्
निर्देशाङ्काः

१७°१५′उत्तरदिक् ८०°०९′पूर्वदिक् / 17.25°उत्तरदिक् 80.15°पूर्वदिक् / १७.२५; ८०.१५

देशः भारतम्
राज्यम् तेलङ्गाणाराज्यम्
केन्द्रप्रदेशः खम्मम्
जनसङ्ख्या २५,६५,४१२
समयवलयः IST (UTC+05:30)
जालस्थानम् khammam.nic.in/

खम्मम् जनपदम् (Khammam district)आन्ध्रप्रदेशराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रं खम्मम् नगरम् ।

इतिहासः[सम्पादयतु]

१९५३ तमे वर्षे आविष्कृतम् इदं जनपदम् । गजपतयः रेड्डिराजाः,विजयनगरराजाः गोलकोण्डनवाब् जनाः चिरं पर्यपालयन् । प्राग्गोदावरीमण्डलात् केचन प्रदेशाः अस्मिन् मण्डले संयोजिताः ।

भौगोलिकम्[सम्पादयतु]

अस्य प्राच्यां दिशि उभयगोदावरीमण्डलं, पश्चिमे वरङ्गल्,नल्गोण्डमण्डलं, उत्तरे मध्यप्रदेशेओडिष्षाराज्यं, दक्षिणे कृष्णामण्डलं च सीमायां वर्तन्ते । मण्डलस्य ५७.७५% भूभागे अटवी विस्तृता । अतः राज्यस्य अत्यधिकः अरण्यगत भूभागः अस्मिन् मण्डले एव वर्तते ।

कृषिः वाणिज्यं च[सम्पादयतु]

खनिजसम्पदाम् इदं मण्डलं स्रोतः वर्तते । अङ्गारनिक्षेपाणाम् आविष्कारः क्रियमाणः अस्ति । सिङ्गरेणि कालनीस् इत्यस्य अध्वर्यवे कोत्तगूडेम् इल्लेन्दुप्रान्तयोः मौलारं इत्यस्मिन् प्रान्ते ताम्रखनिजम् उपलभ्यते । भद्राचलं, वर्गम्पाडु, पाल्वञ्च इत्यादि परिसरेषु ग्राफैट्, खम्मं परिसरे कोरण्डखनिजं, डोलमैट्, क्रोमैट्, इल्लेन्दुबेतम्पूडिप्रान्तयोः सुधाशिलाश्च उपलभ्यन्ते । पाल्वञ्चसमीपे अयः कर्मागारः, मणुगूरुप्रान्ते भारजलकर्मागारः, कोत्तगूडें प्रान्ते अङ्गारविद्युत्केन्द्रम् , भद्राचले कर्गदनिर्माणकेन्द्रम्, पारिश्रामिकविकासकेन्द्रं खम्मं समीपे च विलसन्ति । मण्डलेस्मिन् १८१ कि.मी मितप्रदेशे गोदावरीनदी प्रवहति । किन्नेरसानि, मनेरु, आकेर्रु, पालेरु, वैरा इत्याद्युपनद्यः च अत्र प्रवहन्ति । ४०% भूमौ सेद्यं क्रियते ।

वीक्षणीयस्थलानि[सम्पादयतु]

भद्राचलस्थः श्रीसीतारामचन्द्रस्वामि देवालयः, पर्णशाला, खम्मं नगरस्थं स्तम्भाद्रिदुर्गं, नेलकोण्डपल्ली बौध्दस्तूपाः पर्याटकानां मानसं हरन्ति । उन्नतविद्या संस्थाः काकतीयविश्वविद्यालयस्य परिधौ आयान्ति ।

तालूकाः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=खम्मम्_मण्डलम्&oldid=483646" इत्यस्माद् प्रतिप्राप्तम्