रङ्गारेड्डिमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रङ्गारेड्डिमण्डलम्
रङ्गारेड्डि
—  मण्डलम्  —
रङ्गारेड्डिमण्डलम् सुन्दरं दृश्य
रङ्गारेड्डिमण्डलम् सुन्दरं दृश्य
'
Location of रङ्गारेड्डिमण्डलम्
in तेलङ्गाणाराज्यम्
निर्देशाङ्काः

१७°१२′००″उत्तरदिक् ७८°१६′४८″पूर्वदिक् / 17.20°उत्तरदिक् 78.280°पूर्वदिक् / १७.२०; ७८.२८०

देशः भारतम्
राज्यम् तेलङ्गाणाराज्यम्
जनसङ्ख्या

• सान्द्रता

३,५७५,०६४ (2001)

4,73,000 /किमी2 (12,25,064 /वर्ग मील)

व्यावहारिकभाषा(ः) तेलुगु
समयवलयः IST (UTC+05:30)
वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Aw (कोप्पेन्)

     603 मिमी (23.7 इंच)
     26.0 °से (78.8 °फ़ै)
     45.9 °से (114.6 °फ़ै)
     23.5 °से (74.3 °फ़ै)

जालस्थानम् rangareddy.ap.nic.in/

रङ्गारेड्डिमण्डलम् (Ranga Reddy district)तेलङ्गाणाराज्यम् स्थितमॆकं मण्डलमस्ति ।

इतिहासः[सम्पादयतु]

तेलङ्गाणाप्रान्तस्य प्रमुखनायकः के.वि.रङ्गारेड्डी नाम्ना १९७० प्रान्ते आविष्कृतमिदं रङ्गारेड्डी मण्डलम् ।

भौगोलिकम्[सम्पादयतु]

प्राच्यां नल्गोण्डमण्डलं, पश्चिमायां कर्णाटकराज्यम्, उत्तरे मेदकमण्डलम्, दक्षिणे महबूब् नगरमण्डलं च सीमायां वर्तन्ते । जनपदे ९.७% भूम्यां अरण्यं विद्यते ।

कृषिः वणिज्यं च[सम्पादयतु]

शतशः परिश्रमाः वर्तन्ते अत्र । भाग्यनगरसीमायां विद्यमानानि कर्मागाराणि अस्य मण्डलस्य परिधौ आयान्ति । “ताण्डूरु” प्रान्ते सिमेण्ट् कर्मागारः वर्तते । इष्टिकाः, शौचवाहकाः, जम्बालाः च उपलभ्यन्तेऽत्र । पिङ्गलमृत् फेलोपेन् क्वर्तज्, लैम्स्टोन् अपि उपलभ्यते । वृष्टिपातः अल्पः इत्यतः एरण्डादिसस्यानि अधिकानि भवन्ति । माषाः, मुद्गाः, पलाण्डुः, इत्यादीनां सेद्यं क्रियते कृषकैः । षामीर्पेटा, हकीम्पेटा इत्यादिप्रान्तेषु द्राक्षाणां सस्यं क्रियते । राजेन्द्रनगरे कृषिविश्वविद्यालयः संस्थापितः १९६४ तमे वर्षे । अनन्तगिरिपर्वतोत्पन्ना मूसीनदी वाडपल्लिसमीपे कृष्णानद्यां विलीना भवति । अस्याः आलेरु इत्याख्या उपनदी अपि अस्ति । अस्मिन् आर्थिकतालूकात्रयं वर्तते । मण्डले महाविद्यालयाः “उस्मानिया” विश्वविद्यालयस्य परिधौ चाल्यन्ते । माध्यमिककर्मागाराणाम् अधिकभागः अस्मिन् मण्डले एव विराजन्ते । मिथानी, हेच्. एम्. टि., इ. सि. ऐ. एल्, इत्यादिकेन्द्रसर्वकारसंस्थासु अधिकानाम् उपलब्धिः वर्तते । अनेन वाणिज्यरीत्या वर्धमानमिदं मण्डलम् ।

तालूकाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रङ्गारेड्डिमण्डलम्&oldid=483648" इत्यस्माद् प्रतिप्राप्तम्