व्याकरणदार्शनिकग्रन्थाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्याकरणदार्शनिकग्रन्थाः व्याकरणे प्रवर्तमानानां दर्शनस्वरूपं निरूपयन्ति। तेषां प्रचलनस्य आरम्भसीमा न प्राप्यते, परन्तु एतस्याः परिपाटेः प्रचलनं शास्त्रे दरीदृश्यते। तेषु व्यक्तिविवेकादयः ग्रन्थाः प्रसिद्धाः सन्ति।

अर्थप्रवृत्तितत्वानां शब्दा एव निबन्धनम् ।

तत्वावबोधः शब्दानां नास्ति व्याकरणादृते ।।

भाषायां प्रयुज्यमानानां शब्दानां साधुत्वासाधुत्वं विविच्य अपभ्रंशीभवनाझाषायाः रक्षणमेव व्याकरणस्य परमं लक्ष्यम् । उक्तमेव हरिणा -

शब्दार्थसम्बन्धनिमित्ततत्वं वाच्याविशेषेऽपि च साध्वसाधून् ।

साधुप्रयोगानुमितांश्च शिष्टान्न वेद यो व्याकरणं न वेद ।" इति ।

शब्दश्च अर्थश्न सम्बन्धश्च तयोः निमित्तं शब्दप्रवृत्तेश्चैषां तत्वमविपरीतरूपं यो न वेद, वाच्यसाम्येऽपि शब्दस्य साधुत्वासाधुत्वे यो न वेद, साधुप्रयोगेणानुभिताश्च ये शिष्टास्ताम् यो न वेद स व्याकरणं न वेदेति । एवञ्च अर्थप्रवृत्ति.. तत्वानां हि शब्दा एव निबन्धनं, शब्दानां तत्वावबोधश्च व्याकरणादेव भवति इति व्याकरणस्यापरिहार्यत्वम्। व्याकरणं च तेन लक्ष्यलक्षणम्, यत्र शब्दो - लक्ष्यः सूत्रञ्च लक्षणमिति । तदा व्याकरणं हि शब्दसाधुत्वविषयकशास्त्रं भवति । यदा च भाषायां प्रयुज्यमानानां पदानां प्रयोगकारणानां चिन्तनं पदार्थतत्साम यैचिन्तनञ्च क्रियते तदा तु व्याकरणशास्त्रं हि दर्शनशास्त्रस्य रूपमॅपि गृह्णाति | तस्य हि प्रथमे स्वरूप प्रकृतिप्रत्ययविभागेन शब्दा व्याक्रियन्ते द्वितीये तु भाषा द्रनमः, शब्दाभिव्यक्तिः शब्दस्य स्वरूपं ( स्फोटात्मकं ध्वन्यात्मकञ्च ) अपअ शस्य कारणानि, पदवाक्यविवेकः धातुलकार-प्रातिपदिक-सुनिपातायर्थविवेकः, समासशक्तिः, शब्दशक्तिः, स्फोट, क्रिया,. कालः, लिङ्गानि, सङ्ख्या, उपग्रहश्च विविच्यन्ते प्राधान्येन।

इतिहासः[सम्पादयतु]

व्याकरणशास्त्रे हि दार्शनिकविवेकस्योद्गमः कदा प्रभृति प्रचलितं वा केन प्रर्वाततमिति तु न शक्यते निश्चयेन वक्तम् । यास्काचार्यस्य निरुक्त हि[१] शब्दनित्यत्वविषयकचर्चायाः सत्तया तत्पूर्वमपि अस्यास्तित्वमासीदिति ज्ञायते । यथोक्तं तत्र ‘इन्द्रियनित्यं वचनमौदुम्बरायणः' तत्र चतुष्ट्वं नोपपद्यते अयुगपदुत्पन्नानां वा शब्दानामितरेतरोपदेशः । शास्त्रकृतो योगश्च।" ( इति शब्दानित्यत्ववादिन आक्षेपः ।)

'व्याप्तिमत्त्वात्तु शब्दस्य' ( इति शब्दनित्यत्ववादिनः समाधानग्रंथः )। अस्यायमाशयो यद् इह तावदुक्त नामाख्यातोपसर्गनिपातेतिपदचतुष्टयं वचनानित्यत्वान्नोपपद्यते । इन्द्रो ह्यात्मा तेन ईयतेऽनुमीयते इति इन्द्रियम् । आत्मा हि कर्ता इन्द्रियं हि करणम् । नाकर्तृकं करणं सम्भवति । तेन यावदेव वक्तवगिन्द्रिये वचनं तावदेव तदस्तीति शक्यते वक्तम् । तस्माद्वचनानित्यत्वात्पद- . चतुष्ट्वानुपपत्तिरित्युपपन्नमित्यौदुम्बरायणमतम् ।

शब्दस्य व्याप्तिमत्वात्सर्वमेतत्पदचतुष्ट्वं साधूपपद्यते इति सिद्धान्तिना मतम् । व्यापनं व्याप्तिः सा 'यस्मिन्नस्ति; सोऽयं व्याप्तिमान् शब्दस्तद्भावो व्याप्तिमत्त्वम् । यतः शरीरे हि अभिधानाभिधेयरूपा बुद्धिः हृदयान्तर्गताकाशप्रतिष्ठिता । तयोर्मध्येऽभिधानरूपया शास्त्राभिमतप्रयोजनविजिज्ञापयिषया बुद्धया पुरुषेण तदभिव्यक्तिसमर्थेन स्वगुणभूतेन प्रयत्नेनोदीर्यमाणः शब्दः उरः कण्ठादिवर्णस्थानेषु निष्पद्यमानतया पुरुषार्थाभिधानसमर्थवर्णादिभावमापद्यमानः पुरुषप्रयत्नेन बहिवनिक्षिप्तोऽविनाशिनि व्यक्तिभावमापन्नः श्रोत्रद्वारेणानुप्रविश्य प्रत्याय्यास्य बुद्धि सर्वार्थरूपां सर्वाभिधानरूपां व्याप्नोतीत्येवं व्याप्तिमान् शब्दः, इति दुर्गाचार्यव्याख्यानसारः। अनेनैतत्सिध्यति यद्यास्काचार्यात्पूर्वमपि शब्दनित्यतानित्यत्वविषये विवादः प्रवर्तत एवाऽऽसीत् । तत्पूर्वमपि स्फोटायननाम्ना वैयाकरणेन शब्दस्फोटविषये व्याख्यातमासीदिति--

‘वैयाकरणनागेशः स्फोटायनऋषेर्मतम् ।

परिष्कृत्योक्तवांस्तेन प्रीयतामुमया शिवः ।।' इति नागेशवचनादपि ज्ञायते ।

स्फोटायनो हि वैयाकरणः पाणिनेः पूर्वंव|र्तीति तस्य 'अवङ् स्फोटायनस्य'[२] इति सूत्राज्ज्ञायते । स्फोटायनो नृपविक्रमार्कात्पञ्चविंशतितमशताब्दीपूर्ववर्तीति सामान्यानुमानम् । औदुम्बरायणौ वार्ताक्षश्वाचायौं हि शब्दनित्यत्वानित्यत्वविवेचकाविति -

वाक्यस्ये बुद्धौ नित्यत्वमर्थयोगञ्च लौकिकम् ।

दृष्ट्वा चतुष्ट्वं नास्तीति वार्ताक्षौदुम्बरायणौ ॥'[३] इति भर्तृहरेर्वचनाज्ज्ञायते । औदुम्बरायणो हि यास्कपूर्ववर्तीति तस्य ‘इन्द्रियनित्यं वचनमौदुम्बरायणः' इति वचनाज्ज्ञायते । इदमप्यनुमीयते यदौदुम्बरायणः स्फोटमतव्याख्याता चासीत् । स हि स्फोटरूपं शब्दं नित्यं ध्वनिरूपञ्चानित्यं मन्यते स्म ।

परम्परायामस्यां पाणिनिना हि प्रत्यक्षतो न किमपि मतं प्रकटितं दृश्यते । स हि शब्दं तु नित्यमेव मन्यते यथार्थतः । विषयेऽस्मिन् व्याडिह दाक्षायणः प्रथमः सङ्ग्रहकारः । तस्यापि. ग्रंथस्तु सम्प्रति नैवोपलभ्यते किन्तु महाभाष्यकारो वाक्यपदीयकारश्च तं स्मरतः सादरम् । महाभाष्ये यथोक्तम् -

किं पुनर्नत्यः शब्दः, आहोस्वित्कार्यः ? सङ्ग्रहें एतत्प्राधान्येन परीक्षितम् : नित्यो वा स्यात्कार्यों वेति । तत्रोक्ता दोषाः । प्रयोजनान्यप्युक्तानि । तत्र त्वेष निर्णयः-यद्येव नित्योऽथापि कार्यः, उभयथाऽपि लक्षणं प्रवर्त्यमिति ।” “संग्रहे तावत्कार्यप्रतिद्वन्द्विभावान्मन्यामहे नित्यपर्यायवाचिनौ ग्रहणमिति । इहापि तदेव ।”

‘शोभना खलु दाक्षायणस्य सङ्ग्रहस्य कृतिः।' इति ।

एवमेव अद्यावधिं व्याडिकृतसङ्ग्रहनाम्ना ग्रन्थान्तरेषु समुतानि वचनाः युधिष्ठिरमीमांसकेन स्वकीये व्याकरणैतिह्य समुद्धतांनि । तानि च यथा-

१-नहि किञ्चित् पदं नाम रूपेण नियत क्वचित् । ।

पदानां रूपमर्थो वा वाक्यार्थादेव जयते ।।

२–अर्थात् पदं साभिधेयं पदाद वाक्यार्थनिर्णयः ।।

पदासँघातजं वाक्यं वर्णसंधातजं पदम् ।।

३–शब्दार्थयोरंसंभेदे व्यवहारे पृथक् क्रिया।

यतः शब्दार्थेयोस्तत्त्वमेकं तत्समवस्थितम् ।।

४–संबन्धस्य न कर्तास्ति शब्दानां 'लोकवेदयोः ।

शब्दैरेव हि शब्दानां संबन्धः स्यात् कृतः कथम् ।।

५-वाचक उपादानः . स्वरूपवानव्युत्पत्तिपक्षे । व्युत्पत्तिपक्षे त्वर्थाविहितं समाश्रितनिमित्तं शब्दव्युत्पत्तिकर्मणि प्रयोजकम् । उपादानो द्योतक इत्येके । सोऽयमिति व्यपदेशेन संबन्धोपयोगस्य शक्यत्वात् ।

६-नहि स्वरूपं शब्दानां गोपिण्डादिवत् करणे संनिविशते । तत्तु नित्यमभिधेयमेवाभिधानसंनिवेशे सति तुल्यरूपत्वादसंनिविष्टमपि समुच्चार्यमाणत्वेनावसीयते ।

७-शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।।

स्थितिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ।।

८–असतचान्तराले याञ्छब्दानस्तीति मन्यते ।।

प्रतिपत्तुरशक्तिः सा ग्रह्मणोपाय एव सः ।।

९-यथाद्यसंख्याग्रहणमुपायः प्रतिपत्तये।

संख्यान्तराणां भेदेऽपि यथा शब्दान्तरश्रुतिः ।।

१०–शब्दप्रकृतिरपभ्रंशः ।।

११-शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते ।

स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ।

१२-संस्त्यानं संहननं तमो निवृत्तिरशक्तिरूपरतिः प्रवृत्तिप्रतिबन्धतिरोभाव; स्त्रीत्वम् । प्रसवो विष्वग्भावो वृद्धिशक्तिलाभोऽभ्युद्वेकः प्रवृत्तिराविर्भाव इति पुंस्त्वम् । अविवक्षातः साम्यस्थितिरौत्सुक्यनिवृत्तरपदार्थत्वमङ्गाङ्गिभावनिवृत्तिः कैवल्यमिति नपुंसकत्वमिति ।

१३-इको यण्भिर्व्यवधानमेकेषामिति संग्रहः ।

१४-जाज्वलीति संग्रहे ।

१५-यस्त्वन्यस्य प्रयोगेण यत्नादिव नियुज्यते ।

तमप्रसिद्ध मन्यन्ते गौणार्थाभिनिवेशिनम् ॥

१६-शब्दे तां जाति शब्दमेवार्थजातौ जातिः शुक्लादौ द्रव्यशब्दगुणं कृत्तत्संयोगं योगि चाभिन्नरूपवाच्यं वाच्येषु | शुक्ल ] त्वादयो बोधयन्ति ।

१७–किं कार्यः शब्दोऽथ नित्य इति ।

१८-असति प्रत्यक्षाभिज्ञाने।

१९-काश्यपस्तु आत्त्वपक्षे दिदासते इत्येके इत्युक्त्वा संग्रह इत्त्वव्यतिरिक्तस्य धुकार्यस्योक्तत्वाद् इस्भाव उपदित्सत इत्याह ।

२०-ज्ञानं द्विविधं सम्यगसम्यक् च ।

व्याडेरसौ सङ्ग्रहः पतञ्जलिः समक्षं तु समग्रं एवासीदिति महाभाष्यस्य शोभना खलु दाक्षायणस्य सङ्ग्रहस्यं कृतिः' इति वचनोज्ज्ञायते । भर्तृहरि काले तु स उद्धरणेष्वेव सीमित आसीदितिं भर्तृहरेः -

प्रायेण सङ्क्षेप रुची नाल्पविद्यापरिग्रहान् ।

सम्प्राप्य वैयाकरणान् सङ्ग्रहेऽस्तमुपागते ।

कृतेऽथ पतञ्जलिना. गुरुणा तीर्थदशना।

सर्वेषां न्यायबीजानां महाभाष्ये निबन्धने । इति वचनाज्ज्ञायते ।

यद्यपि वाणभट्टोऽपि -

'सुकृतसङ्ग्रहाभ्यास गुरवो लब्धसाधुशब्दालोको इव व्याकरणेऽपि--'

इत्युक्त्वा सङ्ग्रहस्याभ्यासपरम्परां सङ्कतयति किन्तु तदा सङ्ग्रहः स्यादपि खण्डित एव स्यात् । हेलाराजेनापि सङ्ग्रहस्य स्वदृष्टमिवोद्धरणं सुदीर्घमुद्धरति ।। अनेन तत्स्थितिकालपर्यन्तमर्थात् विक्रमानन्तरैकादशशतकमभितोऽपि कामं । खण्डितरूपेणाऽपि सङ्ग्रहस्यावस्थितिज्ञयते । | ग्रन्थोप्राप्तेयडेर्दर्शनस्य सम्यग्व्याख्या तु नैव सम्भवति तथापि प्राप्तोद्धरणतो ज्ञायते यद्व्याडिरपि स्फोटात्मक शब्दं नित्यं ध्वन्यात्मक शब्दं त्वनित्यं मन्यते स्म । स हि अन्विताभिधानवादिवत्पदार्थहेतुत्वेन वाक्यार्थमेव गृह्णाति । तन्मते नित्यो हि शब्दोऽनित्येन ध्वनिनोच्चार्यते । तेन परावस्थायां स्थितः शब्दोः नित्यस्ततः पश्यन्त्यवस्थातोऽनित्यः । नित्योऽपि - शब्दः प्रकृतिप्रत्ययविभागेन व्याक्रियते इति। व्याकरणदर्शनविषये भतृहरेर्वाक्यपदीयं हि सम्प्रति समुपलब्धः प्राचीन ग्रन्थः ।

भर्तृहरेः वाक्यपदीयम्[सम्पादयतु]

मुख्यलेखः : वाक्यपदीयम्

वाक्यपदीयं हिं वाक्यञ्च पदञ्च तदधिकृत्य प्रणीतम् । तेनाऽस्मिन् वाक्यै ; पदञ्च विवेचिते स्तः । वाक्यपदीयस्य कर्ता भर्तृहरिः स्मृतः । इदं पूर्वमेवोक्त यत्संस्कृतसाहित्ये हि भाष्यदीपिकाकृद् भतृहरि भतृहरिपदेनाभिबोधितः वाक्यपदीयस्य प्रणेता भर्तृहरि हरिर्नाम्ना स्मृतः, भागवृत्तिकृद् भर्तृहरिर्भागवृत्तिकारपदेनाभिहितः शतकत्रयस्य कर्ता भर्तृहरिर्भर्तृहरिपदेनाभिहितश्चेत्यनेके भर्तृहरयः स्मृताः । तेषु हि भाष्यदीपिकायाः कर्ता वाक्यपदीयकारश्च क एव भर्तृहरिः, भागवृत्तिकृदपरः, शतकत्रयकृत्त्वनिर्णीत एव । यथाऽऽह गणरत्नमहोदधिकारो वर्धमानः -

‘भर्तृहरिर्वाक्यपदीयप्रकीर्णकयोः कर्ता महाभाष्यत्रिपाद्या व्याख्याता च' इति । (द्वितीयपद्यस्य व्याख्याने) ।।

मण्डनमिश्रस्य स्फोटसिद्धिः[सम्पादयतु]

मण्डनमिश्रो नाम कश्चिन्महाप्राज्ञः स्फोटसिद्धिनामक ग्रन्थं प्रणीतवानासीत् । ग्रंथोऽयं षटत्रिंशत्सङ्ख्याककारिकासु निबद्धः । अस्योपरि ग्रन्थकारस्यैव स्वोपज्ञा व्याख्या लभ्यते । अस्य स्थितिकालः ६९५ मिंतवैक्र माब्दपूर्वः । स हि महिष्मती पुरवास्तव्यः । तद्विषये इयमनुश्रुतिः -

स्वतः प्रमाणं परतः प्रमाण कीराङ्गना यत्र गिरं गिरन्ति ।

द्वारस्थनोडा तरुसन्निपाते जानीहि तन्मण्डनमिश्रधाम ।। इति ।

अस्योपरि परमेश्वराख्यविपश्चितो गोपालिका नाम्नी व्याख्या लभ्यते । स हि दाक्षिणात्यः ।

भरतमिश्रस्य स्फोटसिद्धिः[सम्पादयतु]

भरतमिश्रेण हि स्फोटसिद्धिर्नामको ग्रन्थः स्फोटविषयकः प्रणीतोऽस्ति । 'तत्र हि प्रत्यक्षा-अर्थ-आगमा इति त्रयः परिच्छेदाः । भरतो हि मण्डनमिश्रानुवर्ती । एवमेव अज्ञातकर्तृकः स्फोटसिद्धिन्यायविचारः, केशवस्य स्फोटप्रतिष्ठा, - शेषकृष्णस्य स्फोटतत्वम्, कृष्णभट्टस्य स्फोटचन्द्रिका, आपदेवस्य स्फोटनिरूपणम्, कुन्दभट्टस्य स्फोटवादः ।

कौण्डभट्टस्य वैयाकरणभूषणं, वैयाकरणभूषणसारश्च[सम्पादयतु]

कौण्डभट्टप्रणीतत्वेन वैयाकरणभूषणाख्यो वैयाकरणभूषणसारख्यश्च ग्रन्थ समुपलभ्येते । भूषणस्य मूलं पद्यात्मकमस्ति यत्र हि चतुःसप्ततिश्लोकाः सन्ति । तद्धि भंट्टोजिदीक्षितकृतिरिति विचक्षणा विश्वसन्ति । तंथामनने हि तस्यैव -

फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः ।

तत्र निर्णीत एवार्थः सङ्क्षेपेणेह, कथ्यते।। इति उपोद्धातश्लोक एव प्रमाणम् ।

तथा च तद्वयाख्याने कौण्डभट्टस्य उद्धत इति-अत्र अस्माभिः, इति शेषः' इति वचनादपि शब्दकौस्तुभस्यैव कर्ता हि भूषणकारिकाणामपि कति ज्ञायते । भट्ठोजिदीक्षितकारिकायाः कौण्डभट्टारूयेन तदभ्रातुष्पुत्रेण वैयाकरणभूषणं नाम व्याख्यानं कृतमस्ति । तथैव तेनैव तस्यापि सारमादाय नवीनश्चि विषयान् समावेश्य वैयाकरणभूषणसाराभिधो ग्रन्थोऽपि प्रणीतः सामान्यतः सारशब्देन कस्यापि बृहग्रन्थस्य संक्षेपो बुध्यते किन्त्वत्र न तथा । वैयाकरणभूषणसारे हि भूषणस्य सारसङ्ग्रहातिरिक्तमप्यन्येऽपि बहुशो विषयाः सन्ति । तेन हि कौण्डभट्टो वैयाकरणभूषणस्य व्याख्याता वैयाकरणभूषणसारस्य कर्ता च । अथवा भट्टोजिदीक्षितकारिकासंग्रहस्यैवे. व्याख्यानमेव वैयाकरणभूषणमिति ।

वैयाकरणभूषणे हि चतुर्दशवैयाकरणप्रमेया निरूपिताः ते च धात्वथैः। लकारार्थ-सुबर्थ--नामार्थ-समासशक्ति-शब्दशक्ति--नबर्थ-निपातार्थ-भावप्रत्ययार्थ-देवताप्रत्ययार्थ-अभेदकत्वसङ्ख्या-सङ्ख्याविवक्षा-कृत्प्रत्ययाद्यर्थ-स्फोटनिर्णयाश्च । ग्रन्थप्रयोजनं निरूपयन् ग्रन्थकारः कथयति -

"पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टाभिधं

द्वैतध्वान्तनिवारणादिफलिकां पुम्भाववाग्देवताम् ।

ढुण्ढिं गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान्

सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषये ।। इति ।

तेनैवास्य ग्रन्थस्य प्रयोजनं वैयाकरणसिद्धान्तानां प्रतिपादनं तद् षकमत • खण्डनमण्डनादिकञ्चति । ग्रन्थोऽयं १६६० मितवैक्रमाब्दमभितः प्रणीत आसीदिति गुरुप्रसादलेखतो ज्ञायते । वैयाकरणभूषणस्य हि मनुदेवभट्टाचार्यस्य रूपाल्यभिधा विवृतिर्लभ्यते ।

भूषणसारस्य च बहवष्टीकाग्रन्थी लभ्यन्ते । तेषु हि वनमालिनो भट्टोजिदीक्षितस्य मतोन्मज्जिनी, हरिबल्लभस्य दर्पणः, मन्नुदेवस्य कान्तिः, ( लघुदर्पणः । बृहंददर्पणश्च ) हरिरामस्य , ‘काले' इत्युपनामकस्य काशिका, भैरवमिश्रस्य परीक्षा, महानन्दस्य महानन्दी, लधुभूषणकान्तिश्व, गोपालशास्त्रिणः सरला रामप्रसादत्रिपाठिनः सुबोधिनी' टिप्पणी, कृष्णमित्रस्य वैयाकरणभूषणसारव्याख्या, रत्नप्रभाख्या, खुद्दीझाशर्मणस्तिङर्थवादसारः अनन्तशास्त्रिणो बृहडिप्पणी, बालकृष्णपञ्चोलीमहाशयस्य प्रभा, गुरुप्रसादशास्त्रिणो, विवृतिः, रुद्रनाथस्य विवृतिश्च ज्ञाताः ।

हरिबल्लभस्तु बल्लभाख्यस्य पुत्रः कुर्माचलीयः १८०० मितवैक्रमाब्दमभितः स्थितिमान् । हरिभट्टस्तु केशवदीक्षितसुतः सखीदेवीगर्भज़ः १८५४ मितवैक्रमाब्दमभितः स्थितिमान् । मन्नुदेवों हि वैद्यनाथशिष्यः १८५० मितवैक्रमाब्दमभितः स्थितिमान भैरवमिश्रस्तु भवदेवपुत्रः, अगस्त्यगोत्रीयः १८८० मितवैक्रमाब्दमभितः स्थितिमान् ।

नागेशभट्टस्य वैयाकरणसिद्धान्तमञ्जूषा[सम्पादयतु]

महावैयाकरणेन नागेशभट्टेनाऽपि वैयाकरणसिद्धान्तमञ्जूषाख्यो वैयाकरणदार्शनिकग्रन्थः प्रणीतोऽस्ति । अस्य हि वैयाकरणसिद्धान्तमञ्जूषां लघुमजूषा 'परमलघुमञ्जूषां चेति श्यः पाठः दृश्यन्ते । तेषु यत्र कुत्र पाठभेदो विषयभेदश्चापि दृश्यते । मङ्गलाचरणपद्यं तु सर्वत्र समानमेव । तदनन्तरवाक्ये हि तत्र तत्र भिन्नता दृश्यते । यथा--

तत्राष्टौ स्फोटा इति सिद्धान्तः'••• •••इति मञ्जूषायाम्,

तत्र वाक्यस्फोटो मुख्यो लोके'•• ••• इति लघुमजूषायाम् |

तत्र वर्णपदवाक्यभेदेन स्फोठस्त्रिधा'•• •••इति परमलघुमञ्जूषायाम् ।

विषयप्रस्तुतिश्चेत्थम् -

क्रमः मञ्जूषायाम् लघुमजूषायाम् परमलघुमजूषायाम्
वर्णस्फोटसामान्यनिरूपणम् स्फोटसामान्यविचारः स्फोटसामान्यविचारः
शक्तिनिरूपणम् शक्तिनिरूपणम् शक्तिविचारः
लक्षणानिरुक्तिः लक्षणानिरूपणम् लक्षणाविचारः
व्यञ्जनानिरुक्तिः व्यञ्जनानिरूपणम् व्यञ्जन विचारः
धात्वर्थविचारः शक्त्याश्रयनिरूपणम् स्फोटुविचारः
निपातसामान्यार्थविचारः स्फोटनिरूपणम् आकाङ्क्षाविचारः
नअर्थविचारः बौद्धार्थनिरूपणम् योग्यताविचारः
एवकारार्थविचारः स्फोटमीमांसा आसत्तिविचारः
तिङर्थविचारः आकाङ्क्षाविचारः तात्पर्यविचारः
१० सनाद्यर्थविचारः योग्यताविचारः धात्वर्थविचारः
११ कुदर्थविचारः आसत्तिविचारः निपातार्थविचारः
१२ नामार्थविचारः तात्पर्येविचारः लकारार्थविचारः
१३ सुबर्थविचारः कारकविचारः
१४ समासशक्तिः नामार्थविचारः
१५ क्यजाद्यर्थाः समासवृत्यर्थविचारः
१६ तद्धितार्थाः
१७ पदवाक्यस्फोटौ
१८ अखण्डपदवाक्यस्फोटः

मञ्जूषायां हि प्रायः परमलघुमञ्जूषा एव सर्वातिशायिनीत्वेन गृह्यते । लघुमञ्जूषायां हि सभापतिशर्मोपाध्यायस्य रत्नप्रभाऽऽख्या व्याख्या दृश्यते । वैद्यनाथभट्टस्य कला, दुर्बलाचार्यस्य कुञ्जिका च अस्यैव व्याख्ये स्मृते सभापतिशर्मणा विपश्चिता। सिद्धान्तमञ्जूषायाः रामनाथस्य बृहन्मजूषाभूषणं, वैद्यनाथस्य बृहन्मञ्जूषाविवरणञ्च टीकाग्रन्थौ ।

परमलधुमञ्जूषायास्तु कालिकाप्रसादस्य ज्योत्स्ना, वंशिधरमिश्रस्य वंशी, अलखदेवस्य तत्त्वप्रकाशिका, नित्यानन्दस्य टिप्पणी च प्रसिद्धाष्टीकाः । नागेशो हि षड़वैयाकरणेष्वन्यतमश्नरमश्च । मुनित्रयं तथा व्याडिर्भतृहरिनागेशश्च ति षड्वैयाकरणाः । अनेन हि नैयायिकमीमांसकादिदूषिता वैयाकरणसिद्धान्ता युक्तिपूर्वकं पुनः स्थापितांः । शब्दानुशासनस्य प्रायोगिकपक्षे 'यथा पाणिनिकात्यायनपतञ्जलिजयादित्यरामचन्द्राणां स्थान तथैव व्याकरणस्य दार्शनिकपक्षे प्रथमाचार्यः स्फोटायनस्ततश्चौदुम्बरायणो वाष्र्यायणिः ग्रास्कः; । व्याडिः पतञ्जलिः भर्तृहरिः भट्टोजिदीक्षितः कौण्डभट्टो नागेशश्चति ।

जगदीशतर्कालङ्कारस्य शब्दशक्तिप्रकाशिका[सम्पादयतु]

१७०० मितवैक्रमाब्दमभितः स्थितिमता महानैयायिकेन जगदीशतर्कालङ्कारभट्टाचार्येण शब्दशक्तिप्रकाशिकाख्यो ग्रन्थः प्रणीतोऽस्ति । न्यायशास्त्रसम्बद्धोऽप्यसौ वैयाकरणदर्शनप्रतिपादकोऽपि । अत्र हि नामप्रकरणं, समासप्रकरणं । सुब्बिभक्तिप्रकरणं, कारकप्रकरणं, आख्यातप्रकरणं तद्धितप्रकरणञ्च ति विषयाः । सम्यनिरूपिताः । अत्र हि कृष्णकान्तविद्यावागीशस्य कृष्णकान्तीटीका, रामभद्रसार्वभौमस्य रामभद्रीटीका, ढुण्ढिराजस्य विषमस्थलटिप्पणी च प्रसिद्धा व्याख्याः ।

तारानाथतर्कवाचस्पतेः शब्दार्थरत्नम्[सम्पादयतु]

तारानाथतर्कवाचस्पतिभट्टाचार्येण शब्दार्थरत्नं नाम ग्रन्थरत्नं प्रणीतमस्ति । प्रणेताऽस्य वङ्गदेशीय इति तभूमिकालेखाज्ज्ञायते । तस्य च स्थितिकालो १८९०-११७० मितवैक्रमाब्दानभितोऽनुमीयते शब्दस्तोममहानिधिभूमिकातः। . | ग्रन्थस्यास्य प्रयोजनं निर्दिशतः ग्रन्थकारेणैवोक्तं यद्यथाहि लुप्तप्रायभाष्यो- . द्धरणाय भर्तृहरिणा वाक्यपदीयं कृतं तथैव लुप्तप्रायस्य वाक्यपदीयस्याल्पायासेन बोधार्थी ग्रन्थोऽयं कृत इति । ग्रन्थेऽस्मिन् त्रीणि काण्डानि सन्ति आगमकाण्डं वाक्यकाण्डं पदकाण्डञ्च । ग्रन्थोऽयं व्याकरणदर्शनबोधाय नितान्तमेवोपयोगी दृश्यते । तेनाऽसावन्वर्थनामा।

इन्द्रदत्तस्य फक्किकाप्रकाशः[सम्पादयतु]

प्राज्ञप्रकाण्डस्य इन्द्रदत्तस्य फक्किकाप्रकाशो यद्यपि महाभाष्यं संक्षेपेण समालोचयति तथाप्यसौ व्याकरणस्य सैद्धान्तिक पक्षमूदभावयति । अत्र हि षोडश प्रकरणानि । प्रणेताऽस्य किदेशिको वा किंकालिक इति तु नैवास्माकं ज्ञातम् ।

वादार्थसङ्ग्रहः[सम्पादयतु]

प्रकरणेऽस्मिन् वादार्थसङ्ग्रहोऽप्यवश्यमेव स्मर्तव्यः । अत्र हि व्याकरणस्य कारक-समास-आख्यातप्रभृतिसर्व विषयाः साङ्गोपाङ्ग विवेचिताः। तत्र हि भावानन्दसिद्धान्तवागीशप्रणीतं षट्कारकविवेचनं, जयरामभट्टाचार्यप्रणीतः कारकवादार्थः, समासवादः, तेनैव व्याख्यातरघुनाथशिरोमणिभट्टाचार्यप्रणीत आख्यातवादश्च नितान्तमेवोपयोगिनो ग्रन्थाः। आख्यांतवादे हि रामकृष्णस्य व्याख्याऽपि लभ्यते ।

गोकुलनाथस्य पदवाख्यरत्नाकरः[सम्पादयतु]

महाप्राज्ञेन गोकुलनाथेनाऽपि व्याकरणदर्शनमधिकृत्य पदवाक्यरलाकरो नाम : | ग्रन्थः प्रणीतोऽस्ति । असौ हि मैथिलः १७४०-१८१० मितवैक्रमाब्दानभितः स्थितिमान् । ग्रन्थेऽस्मिन् समस्ता अपि ब्याकरणविषया विशेषेण कारकविषयः सप्रपञ्च निरूपिताः । अस्योपरि यदुनाथमिश्रस्य गूढार्थदीपिका व्याख्या लभ्यते ।

रामाज्ञापाण्डेयस्य व्याकरणदर्शनभूमिका[सम्पादयतु]

रामाज्ञापाण्डेयस्ये व्याकरणदर्शनभूमिका व्याकरणदर्शनप्रकरणे महत्वपूर्णः सङ्ग्रहः । अत्र हि व्याकरणदर्शनस्य सर्वेऽपि पक्षाः सप्रपञ्च विवेचिताः । असौ हि देवनारायणस्य शिष्यो व्याकरणस्य ख्यातयशस्को विद्वान् । ग्रन्थेऽस्मिन् शब्दार्थनिरूपण-शब्दार्थसम्बन्धनिरूपणं, गुणनिरूपणं, साधननिरूपणं, क्रियानिरूपणं, वृत्तिनिरूपणं, चेति पञ्चाध्यायाः ।

रङ्गनाथपाठकस्य स्फोटदर्शनम्[सम्पादयतु]

श्रीमती रङ्गनाथपाठकेन स्फोटदर्शनं नाम ग्रन्थो देशभाषामाश्रित्य प्रणीतीऽस्ति । अत्रं हि वैयाकरणसम्मतस्फोटः साङ्गोपाङ्ग निरूपितोऽस्ति । एवमेव सत्यकामवर्मणो व्याकरणस्य दार्शनिकभूमिकाऽपि । इत्थं हि स्फोटायनादारभ्य प्रवर्ततं व्याकरणदर्शनं सम्प्रत्यपि दिनानुदिनं पल्लवदस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. १/१
  2. ६।१।१२३
  3. २॥३४३