सामग्री पर जाएँ

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां (योगसूत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शब्दार्थः

[सम्पादयतु]

• श्रद्धा = unconditional faith, trust, confidence, belief, certainty (शुद्धता)

• वीर्यम् = energy, strength of will (धारणा)

• स्मृतिः = memory, intentful remembrance, mindfulness (ध्यानम्)

• समाधिः = deep absorption (तन्मयता) of meditation, entasy

• प्रज्ञा = wisdom, discernment, super cognitive (ज्ञानम्)

• पूर्वकः = preceding, coming before, prerequisite

• इतरेषाम् = of others (योगिनाम्)

सूत्रसारः

[सम्पादयतु]

अपरेषाम् ( अर्थात् योगीनाम्) असम्प्रज्ञातसमाधिः श्रद्धा, वीर्यं, स्मृतिः, समाधिः, प्रज्ञा इत्येताभिः युक्तः भवति॥ इतरेषाम् - अन्येषाम् अर्थात् योगीनाम्। (असम्प्रज्ञातः समाधिः )। श्रद्धा, वीर्यं, स्मृतिः, समाधिः, प्रज्ञा इति तथोक्ताः ताः पूर्वाः यस्यासौ एतेषां पञ्चोपायानां ( पूर्वे ) जाते सति असम्प्रज्ञातः समाधिः भवति। 'एते पञ्च पूर्वे उपायाः यस्य स श्रद्धादिपूर्वकः'॥२०॥

Others follow a five-fold systematic path of

1) faithful certainty in the path,

2) directing energy towards the practices,

3) repeated memory of the path and the process of stilling the mind,

4) training in deep concentration, and

5) the pursuit of real knowledge, by which the higher samadhi (असम्प्रज्ञातसमाधिः) is attained.

व्यासभाष्यम्

[सम्पादयतु]

उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः सम्प्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरुपतिष्ठते । स्मृत्युपस्थाने अ चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते । येन यथावद्वस्तु जानन्ति । तदभ्यासात्तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति ॥२०॥

भाष्यार्थः

[सम्पादयतु]

'उपायप्रत्ययः' असम्प्रज्ञातसमाधिः योगीनां भवति। 'श्रद्धा' चित्तस्य अभिरुचिः अस्ति, मातृवत् कल्याणकारिणी एषा योगिनः रक्षां करोति। श्रद्धालुः विवेकाभिलाषी योगी ( धारणारूपिणं) प्रयत्नात्मकम् 'उत्साह'म् उत्पादयति। एतेन उत्साहेन सम्पन्नस्य योगिनः 'ध्यान'-सिद्धिः भवति। ध्यानस्य उदये सति चित्तं विक्षेपहीनं भूत्वा 'समाहितं' भवति। समाहितं चित्तं 'विवेकज्ञानम् उत्पादयति, येन योगी ( समस्तानां ) वस्तूनां वास्तविकं ज्ञानं प्राप्नोति। एतस्य विवेकज्ञानस्य अभ्यासेन, एतद्विषयकेण च परवैराग्येण 'असम्प्रज्ञातसमाधिः' सिद्ध्यति॥२०॥

विशेषार्थः

[सम्पादयतु]

उपायप्रत्ययः - उपायकारणकात् उत उपायेभ्यः (श्रद्धा, वीर्यं, स्मृतिः, समाधिः, प्रज्ञा) सिद्धजायमानः असम्प्रज्ञातसमाधिः योगिनां भवति। श्रद्धा चेतसः सम्प्रसादः - 'श्रद्धा' तु चित्तस्य सम्यक् प्रसन्नता उत निर्मलता अर्थात् योगविषयिणी अभिरुचिः एव। जननीव कल्याणी सा (श्रद्धा) हि - मातृवत् श्रद्धा योगिणे कल्याणकारिणी भवति। योगिनं पाति — (यतः सा श्रद्धा) (योगमार्गस्य सर्वेभ्यः विघ्नेभ्यः) योगिनः (पा रक्षणे धातु+लट्लकारः प्र० ए०) रक्षणं करोति। तस्य हि श्रद्दधानस्य विवेकार्थिनः - श्रद्धाकुर्वतः तस्य विवेककाक्षिणः योगिनः अर्थात् श्रद्धायुक्तः तस्य विवेकख्यातेः इच्छुकस्य योगिनः (द्वि.ब.)। वीर्यम् - धारणारूपः उत्साहः अर्थात् धारणारूपी उत्साहः एव अत्र 'वीर्यम्' इत्युच्यते। उपजायते - भवति, उत्पद्यते। समुपजातवीर्यस्य – समुपजातं प्रादुर्भूतं धारणारूपं वीर्यं ( उत्साहः ) यस्यासौ तथोक्तः, तस्य साधकस्य अर्थात् धारणारूपी उत्साहः (वीर्यं) प्रादुर्भूतम् अस्ति यस्य साधकस्य सः। स्मृतिः - ध्यानम् 'वीर्यतश्च उपस्मृतियानम्'। उपतिष्ठते - उपस्थिता भवति अर्थात् तस्य ध्यानं भवति। स्मृत्युपस्थाने च - स्मृतेः च ध्यानस्य उपस्थानम् उपस्थितिः तस्मिन् सति अर्थात् ध्याने जाते सति उत सिद्धे सति। चित्तमनाकुलं ( सत् ) - अव्याकुलम् अर्थात् अचञ्चलचित्तम् 'अनाकुलमविक्षिप्तम्'। समाधीयते अर्थात् स्थितिपदं लभते, समाहितं भवति वा।

एवं प्रकारेण 'धारणा, ध्यानं, 'समाधिः' इत्येतैः (सम्प्रज्ञातयोगस्य) त्रिभिः अन्तरङ्ग-उपायैः सम्प्रज्ञातसमाधिः सिद्ध्यति। 'तदेवमखिलयोगाङ्गसम्पन्नस्य सम्प्रज्ञातो जायते'समाहितचित्तस्य - समाहितमेकाग्रं चित्तं यस्य, तस्य योगिनः, समाधिलाभयुक्तस्य ( चित्तवालयुक्तस्य ) योगिनः। प्रज्ञाविवेकः - प्रज्ञायाः बुद्धेः विवेकः वैशिष्टयम्, उत्कर्षः, बुद्धेः परमोत्कर्षः ( विवेकज्ञानरूपस्य)। उपावर्तते - सञ्जायते ( उप + आङ्-+वृत्+लट् प्र० पु० ए०व०) । येन - ( प्रज्ञाविवेकेन ) येन बुद्धिवैशद्येन उत प्रज्ञाविवेकेन। स योगी । वस्तु-पदार्थानां ( जातावेकवचनम् ) । यथावद् जानाति – यथार्थं, सम्यक् ज्ञानं प्राप्नोति। एतस्य प्रज्ञाविवेकस्य अर्थात् बुद्धिवैशद्यस्य एव शास्त्रीयसञ्ज्ञा 'विवेकख्यातिः' अस्ति। तदभ्यासात्तद्विषयाच्च वैराग्यात् - तस्य प्रज्ञाविवेकस्य अभ्यासात् अर्थात् तस्य योगिनः 'विवेकख्यातेः' अभ्यासत्वात्, तदनन्तरं तस्याः विवेकख्यातेः विषये अपि वैराग्ये ( परवैराग्ये) उत्पन्ने सति। असम्प्रज्ञातः समाधिर्भवति - असम्प्रज्ञातसमाधिः सिद्ध्यति।

अत्र स्मरणीयम् अस्ति यत्, विवेकख्यातेः उत्पत्तेः अनन्तरम् अपि तस्याः दृढतायै उत निर्विप्लवतायै अभ्यासः अनिवार्यः भवति।

'सत्त्वपुरुषान्यताप्रत्ययो विवेक ख्यातिः सात्वनिवृत्तमिथ्याज्ञाना प्लवते यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते, तदाविधूतक्लेशरजसः सत्त्वस्य परे वैशारचे परस्यां वशीकारसंज्ञायां वर्त मानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति, सा विवेकख्यातिरविप्लवा हानस्योपायः।।

विवेकख्यातिः अतीव अभ्यस्ते सति 'सर्वथा विवेकख्यातिः' उच्यते। तस्यां दशायां प्रारब्धस्य अतिरिक्ताः सकलाः कर्मसंस्काराः सर्वथा दग्धाः भवन्ति। विवेकख्यातौ एतस्मिन् अज्ञानलेशराहित्ये सति सा एव 'धर्ममेघसमाधिः' उच्यते। 'प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः' । एतस्याः विवेकख्यातेः प्रति जायमानं वैराग्यं 'परवैराग्यम्' उच्यते। विवेकख्यातिः अपि तु सत्त्वगुणस्य एव कार्यं भवति। अत एव तस्यां प्रति अपि वैराग्यम् आवश्यकं भवति। 'सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिरिति, अतस्तस्या विरक्तं चित्तं तामपि ख्याति निरुणद्धि।[] एतत् 'परवैराग्याय' असम्प्रज्ञातस्य सिद्ध्यै अनिवार्यं भवति। एतस्मिन् सत्रे 'परवैराग्य'-शब्दः प्रयुक्तः नास्ति, अतः अत्र भाष्यकारः एनां 'प्रज्ञायाः पराकाष्ठां' मत्वा वर्णयति। ।। २० ।।

ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति; तद्यथा-मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मदूपायस्त्रिविधो मदुसंवेगो मध्यसंवेग स्तीवसंवेग इति; तथा मध्योपायस्तथाधिमात्रोपाय इति। तत्राधिमात्रो पायानाम् -

मृदुः, मध्यः, अधिमात्रः इत्येतेषाम् उपायायां भेदैः ते योगिनः नव प्रकारकाः भवन्ति। ते प्रकाराः एवं सन्ति यथा - मृदूपायः, मध्योपायः, अधिमात्रोपायः च योगी। तेषु मृदूपायः अपि त्रिप्रकारकाः भवन्ति। मृदुवैराग्ययुक्ताः, मध्यवैराग्ययुक्ताः, तीव्रवैराग्ययुक्ताः च। तथैव मध्योपायः, अधिमात्रोपायः अपि ( त्रिप्रकारकाः भवन्ति)। तेषु 'अधिमात्रोपाय'स्य अन्तर्गततया तीव्रस्फूर्तियुक्ताः योगिनः शीघ्रं हि समाधिफलस्य सिद्धिं प्राप्नुवन्ति इति अग्रिमे सूत्रे प्रदर्शितम् अस्ति।

विशेषव्याख्या

[सम्पादयतु]
  • उपायप्रत्ययः - उपायकारणकात् उत उपायेभ्यः (श्रद्धा, वीर्यं, स्मृतिः, समाधिः, प्रज्ञा) सिद्धजायमानः असम्प्रज्ञातसमाधिः योगिनां भवति।
  • विवेकख्यातिः अतीव अभ्यस्ते सति 'सर्वथा विवेकख्यातिः' उच्यते।
  • सर्वथा विवेकख्याति-दशायां प्रारब्धस्य अतिरिक्ताः सकलाः कर्मसंस्काराः सर्वथा दग्धाः भवन्ति। विवेकख्यातौ एतस्मिन् अज्ञानलेशराहित्ये सति सा एव 'धर्ममेघसमाधिः' उच्यते। 'प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः' ।
पातञ्जलयोगसूत्राणि
पूर्वतनः
----
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः


सम्बद्धाः लेखाः

[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. यो० भा० पृ० १०

अधिकवाचनाय

[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine