सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/13

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

मित्रभेदः पञ्चतन्त्रस्य प्रप्रथमं तन्त्रम् । एतस्मिन् तन्त्रे मुख्यकथा सिंहवृषभयोः अस्ति । एतस्याः मित्रभेदस्य कथायाः 'सिंहवृषभयोः स्नेहस्य जम्बुकेन विनाशः' इति अपि अपरं नाम ।

प्रथमतन्त्रम् (मित्रभेदः - सिंहवृषभकथा)[सम्पादयतु]

कर्णपरम्परया श्रूयते यत्, दाक्षिणदेशस्य कस्मिँश्चित् जनपदे महिलारोप्यं नगरं वर्तते । तत्र वर्धमानक-आख्यः वणिक्पुत्रः आसीत् । रात्रौ शय्यायां शयानः सः अचिन्तयत्, धनवैपुल्ये सत्यपि मया अधिकधनोपार्जनस्य उपायाः चिन्तनीया एव । ततः सः स्वविचारस्य पुष्ट्यै अनेकान् तर्कान् अचिन्तयत् ।

जगति अर्थं विहाय किमपि न विद्यते, अतः बुद्धिमान् मनुष्यः अर्थोपार्जनं कुर्यात् । यस्य पार्श्वे अर्थः भवति सः पण्डितः, पुरुषः उच्यते, तस्यैव मित्राणि, बान्धवाः च भवन्ति । विद्या-दान-शिल्प-कला-स्थिरतादयः सर्वेऽपि गुणाः धनिकेषु विद्यमानाः सन्ति इति याचकाः धनिकानां प्रशंसाकाले बहुधा वदन्ति । धनिकानां शुत्रुः उत अपरिचितः सुहृद्वद् आचरति, परन्तु निर्धनानां स्वजनाः अपि शत्रुवत् आरचरणं कुर्वन्ति [१] इति ।

पर्वतानां विभिन्नेभ्यः भागेभ्यः निर्गतं जलं यथा नदी-रूपेण सर्वाणि कार्याणि सिद्ध्यति, तथैव इतस्ततः क्रोडीकृतस्य धनस्य बलेन धनिकानां सर्वाणि कार्याणि सिद्ध्यन्ति । धनस्य प्रभावेण अपूज्यः, अवन्द्यः च मनुष्यः पूज्यः, वन्द्यः च भवति । तस्य कृते अगम्यस्थानम् अपि गम्यं भवति [२] । भोजनात् पोषणं प्राप्य शरीरस्य सर्वाणि कार्याणि स्वत एव भवन्ति, तथैव धनिकानां सर्वाः अपेक्षाः स्वत एव परिपूर्णाः भवन्ति । अतः धनं प्रधानसाधनम् उच्यते । धनेच्छुकः श्मशानस्य सेवनं करोति, स्ववृद्धौ पितरौ त्यक्त्वा दूरे गच्छति च । येषां पार्श्वे धनम् अस्ति, ते वृद्धावस्थायाम् अपि तरुणाः भवन्ति । परन्तु येषां पार्श्वे धनं नास्ति, ते तु तरुणावस्थायाम् एव वृद्धाः भवन्ति [३]

धनोपार्जनस्य षड्मार्गाः सन्ति, ते भिक्षा, सेवावृत्तिः, कृषिः, विद्या, वार्धुष्यव्यवहारः (ब्याज पर धन देना), व्यापारश्च । तेषु व्यापारे सारल्येन, तिरस्कारं विना च धनोपार्जनं शक्यम् अस्ति । वाणिज्ये अपि सप्तप्रकारैः व्यापारः शक्यः । एतेषां सर्वेषां विवरणाय विभिन्नाः श्लोकाः प्रदत्ताः।

१. गान्धिकव्यवहारः - धातुरसौशषधसुगन्धदगद्रव्यादीनां विक्रयः। श्लोकः - पण्यानामिति।

२. आभूषणादिव्यापारः - कुसीदादिलोभेन परैः दत्तानां धनानं स्वनिकटे स्थापनम्। आभूषणादीनां स्वीकारं कृत्वा अपराय जनाय धनदानम्। श्लोकः - निक्षेपे पतिते इति।

३. गौष्ठिककर्म - अन्नं, भोजनस्य उपस्करं, घृतं, गुडः इत्यादीनां व्यापारी हिन्द्यां, संस्कृते च मोदी इत्युच्यते । सर्वकारीयतन्त्रे (राजपरिवारे) यानि वस्तूनि आवश्यकानि भवन्ति, तेषां दाता गौष्ठिकः (ठेकेदार, मोदी, वोहरा - contractor) भवति। गौष्ठिकेन सर्वकाराय यत्किमपि कार्यं क्रियते, तत् गौष्ठिककर्म (निविदा - tender इत्यादिद्वारा कार्यस्य विभाजनं भवति) इत्युच्यते। श्लोकः - गौष्ठिककर्मनियुक्तः इति।

४. परिचितग्राहकवञ्चनम् - परिचितः ग्राहकः विश्वासं कृत्वा आपणिकस्य वा व्यापारिणः पार्श्वे गच्छति। तस्य लाभं स्वीकृत्य सः आपणिकः परिचिताय ग्राहकाय अनावश्यकानि वस्तूनि उत क्षतियुक्तानि वस्तूनि दत्त्वा स्वलाभं करोति। श्लोकः - परिचितमागच्छन्तमिति।

५. मिथ्याक्रयकथनम् - अल्पमूल्यस्य रत्नादेर्मिथ्यैव महर्घत्वख्यापनं, तथा विक्रयश्च। केचन तु ग्राहकान् मिथ्यैव प्रोत्साहयन्ति यत्, शीघ्रमेव क्रयणीयमिदं, शीघ्रं हि महर्घं भविष्यतीति। श्लोकः - पूर्णाऽपूर्णैर्मानैः इति।

६. कूटतुलामानम् - कपटेन तुलामापनकार्ये वञ्चना। मानस्य (बाट - weight  [metal piece]) न्यूनभारः इत्यादिना मानक्रियायां कूटिलता)। श्लोकः - पूर्णाऽपूर्णैर्मानैः इति।

७. विदेशात् वस्तूनाम् आनयनम् - देशान्तरात् उत द्वीपान्तरात् विक्रेयवस्तूनाम् आनयनम्। (import business) श्लोकः - द्विगुणं, त्रिगुणमिति।

इतः परम् उक्तानांं सप्तानाम् अर्थोपायानां पृथक्पृथक् विवरणं करोति -

उक्तम् अस्ति यत्, व्यापारेषु गान्धिककर्म सर्वापेक्षया उत्तमम् अस्ति । अस्य साफल्ये सति सुवर्णादीनां व्यापारः अपि व्यर्थः भवति । तस्मिन् एकरूप्यकस्य वस्तु शतं रूप्यकेषु विक्रयितुं सरलं भवति ।[४] आभूषणादीनां गृहे सम्प्राप्ते सति व्यापारी इष्टदेवं प्रार्थनां करोति यत्, दातुः मृत्युः भवेदिति । गौष्ठिककर्मणि राजप्रासादेषु वस्तूनि स्थापयितुं गतः गौष्ठिकः चिन्तयति यत्, अद्य तु मया पृथिव्याः सम्पूर्णं धनम् अर्जितम् इति । पुनः सः निश्चिन्तो भूत्वा सर्वान् लुण्ठति । व्यापारी परिचितं ग्राहकं स्वापणं प्रति आगच्छन् दृष्ट्वा पुत्रजन्मवत् उत्सवम् आचरति । यतः सः लुण्ठनाय स्ववरसः भवति [५] । आपणे आगतवते परिचितग्राहकाय न्यूनाधिकं तुल्य वस्तु दत्त्वा अधिकमूल्यं प्राप्नुवन्ति व्यापारिणः । वस्तूनाम् आयात-निर्याते पटवः व्यापारिणः द्विगुणं त्रिगुणं वा मूल्यं प्राप्नुवन्ति ।

एवं विचिन्त्य भाण्डानि नीत्वा गुरुजनानाम् आज्ञां प्राप्य च सः वर्धमानकः मथुरां प्रति यात्राम् आरभत । वर्धमानकस्य गृहे बाल्यावस्थाद् आश्रितौ द्वौ वृषभौ अपि तेन सह आस्ताम् । तयोः नाम सञ्जीवकः, नन्दकश्च । मार्गे यमुनायाः तटे शकटस्य आधारयोः तयोः एकस्य सञ्जीवकस्य चरणभङ्गः अभवत् । तेन वर्धमानकः अति दुःखम् अन्वभवत् । त्रिरात्रं यावत् तत्रैव निवासम् अकरोत् सः। ततः तस्य साथिनः तम् अवदन्, श्रेष्ठिन्! एकस्य वृषभस्य कृते सिंहादिहिंसकपशुभिः युक्ते वनेऽस्मिन् अधिकनिवासः अयोग्यः । अनेन सर्वेषां प्राणाः सङ्कटग्रस्ताः सन्ति । उक्तं च – बुद्धिमान् जनः स्वल्पस्य कृते अधिकांशस्य त्यागं न करोति, अपि तु अल्पस्य त्यागं कृत्वा अधिकांशं रक्षितुं यत्नं करोति इति [६]

सर्वेषां वचनं श्रुत्वा सञ्जीवकस्य रक्षायै रक्षापुरुषाणां नियुक्तिं कृत्वा स्वसमूहेन सह वर्धमानकः अग्रे प्रस्थितवान् । ते रक्षापुरुषाः अपि वनात् भीत्वा सञ्जीवकं त्यक्त्वा अगच्छन् । ते रक्षापुरुषाः वर्धमानकम् उप गत्वा वृषभस्य मृत्योः मिथ्या समाचारान् श्रावयन्ति । प्रियवृषभस्य मृत्योः दुःखितः सः व्यापारी वृषभस्य उत्तरक्रियां परिसमापयति ।

अपरत्र यमुनातटस्य शीतलवायोः सेवनेन शेषायोः सञ्जीवकः स्वस्थः भवन् आसीत् । येन केन प्रकारेण सः यमुनातटं प्राप्य तत्रस्थं हरिततृणं भूक्त्वा केषुचित् दिनेषु भगवतः शिवस्य नन्दिवत् ककुद्मान्, बलवान् च अभवत् । हृष्टपुष्टः सः वृषभः नित्यं वल्मीकेन निर्मितानिशिखराणि भङ्गयित्वा सगर्जनम् इतस्ततः भ्रमति स्म । अनेन ज्ञायते यत्, दैवरक्षितः अनाथः वने अपि सुरक्षितः भवति, परन्तु गृहे यत्नेन रक्षितः पुत्रः अपि विनश्यति इति [७]

ततः पिङ्गलक-आख्यः पिपासाकुलः सिंहः सपरिवारं यमुनातटे सञ्जीवकस्य गम्भीरतरं गर्जनं दूरादेव अशृणोत् । वृषभस्य गर्जनेन सिंहः व्याकुलः सन् चतुर्मण्डलाख्यं व्यूहं निर्माय वटवृक्षस्याधः अतिष्ठत् । (चतुर्मण्डलव्यूहस्य प्रथमे परिधौ राजा तिष्ठति । ततः द्वितीयपरिधौ राज्ञः अनुयायिनः, विस्वस्ताः मन्त्रिणः च तिष्ठन्ति । तृतीयपरिधौ काकरवर्गः (भृत्यवर्गः) अर्थात् सैनिकाः, चतुर्थपरिधौ च गुप्तचराः, सीमारक्षकाः, अन्यभृत्याः च तिष्ठन्ति ।) तस्मिन् चतुर्मण्डले सिंहः, सिंहस्य अनुयायिनः, सेवकाः, गुप्तचराः च आसन् ।

तस्य सिंहस्य मन्त्रिणः द्वौ पदभ्रष्टौ पुत्रौ अपि पुनः पदप्राप्त्यै सिंहस्यानुगमनं कुर्वन्तौ आस्ताम् । तयोः नाम करकटः, दमनकश्च । तौ शृगालौ आस्ताम्। तिष्ठन्तं सिंहं दृष्ट्वा तौ परस्परं चर्चाम् आरभेताम् । दमनकः अवदत्, मित्र ! यद्यपि आवयोः स्वामी यमुनोदकं पातुं तटम् आगतवान् आसीत् । पीपासाकुले सत्यपि सः यमुनातटात् प्रत्यागत्य किमर्थं चतुर्मण्डले चिन्ताग्रस्तः स्थितोऽस्ति ? करटकः प्रत्युदतरत्, भद्र ! आवयोः तेन कः सम्बन्धः ? कथ्यते च – अनावश्यकेभ्यः कार्येभ्यः यः जनः चेष्टां करोति, सः कीलोत्पाटिवानरवत् म्रियते इति। ततः दमनकस्य कथमिति पृष्टे सति करटकः कीलोत्पाटिवानरस्य कथां श्रावयति ।

उपकथा १[सम्पादयतु]

कस्मिँश्चित् एकः वणिक्पुत्रः नगरम् उप देवमन्दिरस्य निर्माणम् आरभत । मन्दिरनिर्माणे रताः श्रमिकाः मध्याह्ने भोजनाय नगरं गच्छन्ति स्म । एकस्मिन् दिने अकस्मात् एकः वानरवृन्दः मन्दिरम् उप प्रापत् । श्रमिकेषु एकेन अर्जूनवृक्षस्य अर्धस्फाटिते स्तम्भे खदिरकीलः (खदिर-आख्यस्य वृक्षस्य काष्ठं कीलत्वेन अस्थापयत् इत्यर्थः, खदिरस्य हिन्द्यां खैर इति नाम) मध्ये स्थापितः आसीत् । ते वानराः तत्र यथेच्छं क्रीडाम् आरभन्त । तेषु उत्कष्ठितः एकः वानरः तस्मिन् स्फोटिते स्थम्भे स्थित्वा तं खदिरकीलकं निष्कासितुं प्रयत्नम् आरभत । यावत् सः तं कीलं उत्पाटयति स्म, तावत् वृक्षस्फोटस्य सङ्कुचनं भवति स्म । अन्ततो गत्वा तस्य वृक्षस्य सङ्कोचनेन वानरस्य मृत्युः अभवत् ।

अत एव अहं वदामि यत्, यदि अनावश्यककार्येषु रतौ भवावः, तर्हि कीलोत्पाटिवानरवत् स्थितिः भवति । सिंहस्य भोजनात् अविशिष्टं भागम् आवां प्राप्नुव एव । तस्मात् अधिकेन प्रपञ्चेन आवयोः को वा लाभः ? इति करकटः प्रश्नम् अकरोत् ।

दमनकः प्रत्युदतरत्, भवान् केलवम् भोजनं यावदेव चिन्तयति, तत् न योग्यम् । उक्तं च – बुद्धिमान् मनुष्यः मित्राणाम् उपकारार्थं, शत्रूणाम् अपकारार्थं च राज्ञः आश्रयम् अङ्गीकरोति । जीवनाय केवलम् उदरपूर्तिः न पर्याप्ता । पक्षिणः अपि स्वचञ्च्वा उदरपोषणं कुर्वन्ति । किं तेषां जीवनस्य किमपि महत्त्वम् अस्ति ? येन जनेन अनेकेषां जीवनयापनं भवेत्, स एव दीर्घायुः भवितव्यः विश्वस्मिन् ।

शिल्पादिकलाभिः, शूरतया, सम्पत्त्या, सामुदायिकगुणैः च येषां जीवनं परिपूर्णं भवति, तेषां क्षणमात्रस्य जीवनम् अपि विद्वद्भिः कोटिशः वर्षस्य जीवनत्वेन परिगण्यते । प्रशंसया विना अपि काकः अधिकं जीवति, उदरपूर्तिं च करोति । तादृशेन जीवनेन अस्ति कोऽप्यर्थः ? [८] । येन जनेन स्वेना उत अन्यैः स्वजनानाम् उपकारः न कृतः, दीनान् प्रति दयाभावः न प्रकटितः, सेवकान् प्रति सहानुभूतिः न प्रदर्शिता, तस्य जनस्य जीवनेन जगतः कोऽपि लाभः भवति वा ? सः काकवदेव उदरपूर्त्यै व्यर्थं जीवति [९]

यथा वर्षायाः स्वल्पजलेन लघुनदी परिपूर्णा भवति, मूषकाणाम् अञ्जलिः स्वल्पेन खाद्यान्नेन परिपूर्णं भवति च तथैव उद्योगहीनः जनः स्वल्पधनेनैव सन्तुष्टः सन् उद्योगमेव त्यजति ।[१०] यः पुत्रः कूलरूपिस्तम्भे ध्वजवत् आरोढुं नार्हति, तेन मातुः युवावस्थायाः नाशकेन पुत्रेण को लाभः ? परिवर्तनशीले संसारेऽस्मिन् बहूनां जन्म भवति । परन्तु यः जनः पौरुषेण अर्जितया सम्पत्त्या यशः, प्रतिष्ठां च प्राप्नोति, तस्य जन्म एव सफलं मन्यते । [११] नदीतटे उत्पन्नस्य तस्य तृणस्यापि जीवनं सफलं मन्यते, यदा तत् जलमग्नस्य आर्तजनस्य अवलम्बकं भूत्वा तस्य प्राणान् रक्षति । संसारस्य दुःखान् अपहर्तुं ये स्थिरबुद्धयः, उदारचरिताः सज्जनाः भवन्ति, ते विरलाः एव भवन्ति ।

तथा च - उन्नते गगने लोककष्टान् दूरीकर्तुं विरलाः मेघाः आकाशे समुद्भवन्ति । या माता स्वगर्भे विलक्षणं पुत्रं धरते तथा च सः बालकः श्रेष्ठजनानाम् अपि गुरुः भवति, तस्याः मातुः विद्वांसः बहुधा स्मरणं कुर्वन्ति । यथा काष्ठे विद्यमतः अग्नेः उल्लङ्घनं सर्वे कुर्वन्ति, परन्तु प्रज्वलितम् अग्निम् उल्लङ्घितुं कोऽपि न चिन्तयति, तथैव स्वशक्तेः प्रदर्शनं न कुर्वतः जनस्य निरन्तरम् अपमाननं भवति [१२] [१३]

करटकः उदतरत्, आवां तु अप्रधानौ स्तः, अतः अनेन व्यापारेण आवयोः न कोऽपि सम्बद्धः । उक्तं च – यः अप्रधानः कुबुद्धिः मनुष्यः राज्ञः सम्मुखं किमपि निवेदयति, तेन तस्य अपमानम् एव भवति । श्वेतवस्त्रे यथा रक्तवर्णस्य (श्वेतभिन्नवर्णस्य वा) प्रभावः भवति, तथा वाचः उपयोगः तत्र कर्तव्यः, यत्र तस्याः प्रभावः भवति [१४]

दमनकः अवदत्, एवं मा वद । राज्ञः सेवायां प्रवृत्तः अप्रधानोऽपि प्रधानः भवति, परन्तु सेवाविमुखः प्रधानोऽपि अप्रधानो भवति । यतः राजा कुल-विद्या-संस्कार-रहितानां समीपस्थानाम् एव शृणोति । राजानः, स्त्रियः, लताश्च सामान्यतः समीपस्थानाम् एव आश्रयं स्वीकुर्वन्ति ।[१५] तथा च यः सेवकः राज्ञः प्रसन्नतायाः अप्रसन्नतायाः च मूलभूतकारणानि अवगच्छति, सामान्यतः स एव असन्तुष्टं राजानं वशीभूतं करोति । विद्वान्-महत्त्वाकाक्षि-कलाविद्-वीर-सेवकानां राजा एकमात्रम् आश्रयः भवति । अन्ये केऽपि तेषाम् उचितसम्माननं न कुर्वन्ति । ये जनाः कुलादीनाम् अभिमाने राज्ञः सेवां न कुर्वन्ति, तेषां कृते भिक्षाटनम् एव प्रायश्चित्तम् अस्ति । ये जनाः चिन्तयन्ति यत्, राज्ञः प्रसन्नता अति कष्टेन एव सिद्ध्यति, ते स्वस्य आलस्यं, मूर्खतां, प्रमादं च प्रकटयन्ति । सर्प-व्याघ्र-गज-सिंहाः अपि प्रयासैः वशीभूताः भवन्ति चेत्, सावधानः बुद्धिमान् सारल्येन राजानं वशं करोति । राज्ञः सान्निध्ये एव विद्वान् आश्रयं प्राप्नोति, यतः मलयपर्वतं विहाय अन्यत्र चन्दनवृक्षाः न भवन्ति [१६] । राज्ञः प्रसन्ने सति श्वेतच्छत्रं, चामरं, सुन्दराश्वाः, मत्तगजाः अनायासेन लभ्यन्ते [१७]

एतत्परं भवान् किं कर्तुं चिन्तयति ? इत्यस्य करटकस्य प्रश्नस्योत्तरत्वेन दमनकः अवदत्, आवयोः स्वामी पिङ्गलकः अद्य सपरिवारं भयभीतः अस्ति । तस्य समीपं गत्वा अहं भयस्य मूलकारणं ज्ञातुम् इच्छामि । यतः कारणे ज्ञाते सति सन्धि-विग्रह-यान-आसन-संश्रय-द्वैधीभावनीतिषु एकस्याः अवलम्बनं कृत्वा अस्माकं कार्यं साधयितुं शक्नोमि । (कौटिल्यस्य अर्थशास्त्रे अन्ताराज्यीयसम्बन्धस्य नीतेः षड्प्रकाराः उल्लिखिताः सन्ति । सन्धिविग्रहयानासनसंश्रयद्वैधीभावश्चेति [१८]। सन्धिनीतिः – सन्धिकरणम्, विग्रहनीतिः – युद्धकरणम्, याननीतिः – आक्रमणं कर्तुं तत्परता, आसननीतिः – समयस्य प्रतीक्षा, संश्रयनीतिः – वर्तमानकालस्य, भविष्यकालस्य च प्रबलशत्रूणां विरोधिनः शक्तिशालिराज्ञः आश्रयः स्वीकरणीयः, द्वैधीभावनीतिः – यदि द्वौ शत्रू भवतः, तर्हि उभयाभ्यां सह मिलत्वा स्वस्थानं निश्चितं करणीयम् [१९] [२०])

करकटः अपृच्छत्, भवान् कथं जानाति यत्, आवयोः राजा भयभीतः अस्ति ? इति । दमनकः उदतरत्, एतस्मिन् ज्ञेयं किम् ? उक्तं च – उक्ते सति तु पशवः अपि जानन्ति। प्रेरिताः अश्वाः, गजाः चापि चलन्ति । किन्तु बुद्धिमन्तः जनाः अकथितस्य अर्थम् अपि अवगच्छन्ति । यतः तेषां बुद्धिः आङ्गिकचेष्टया अपि अर्थं ज्ञातुं शक्नोति ।[२१] भगवतः मनोः वचनम् अस्ति यत्, हर्षितानां, विषादग्रस्तानां च मनस्स्थितिः, तेषाम् आकारः, सङ्केतः, गमनं, चेष्टा, भाषणं, नेत्रं, मुखाकृतिः इत्येताभिः ज्ञातुं शक्यते [२२] इति। अतः अहं भयभीतं पिङ्गलकम् उप गत्वा सुबुद्ध्या तं निर्भयं कृत्वा स्ववशे करिष्यामि । ततः स्वमन्त्रिपदं पुनः प्राप्स्यामि ।

परन्तु भवान् सेवाकार्यं तु न जानाति, तर्हि कथं तं वशं करिष्यति ? इति करटकः अपृच्छत् । दमनकः उदतरत्, अहं सेवाधर्मेण अनभिज्ञः नास्मि । स्वपितुः क्रोडे क्रीडन् अहं महापुरुषाणां मुखात् नीतिशास्त्रं बहुधा अशृणवम् । तत् शृणोतु – सुवर्णपुष्पैः पुष्पितां धरां वीर-विद्वान्-सेवावृत्तिज्ञाः एव जेतुं शक्नुवन्ति ।[२३] स्वामिनः कल्याणकर्त्री एव सेवा उच्यते । सा सेवा स्वामिनः वाक्यैः ज्ञातुं शक्यते । अतः विद्ववद्भिः स्वामिनः वचनानि एव अनुसर्तव्यानि । स्वामिनः गुणान् अज्ञात्वा सेवकेन तस्य अनुसरणं न करणीयम् । यतः ऊषरभूमौ कृषिकार्यवत् फलं भवति ।[२४] निर्धनोऽपि यदि सेवार्हः भवेत् चेत्, तस्य सेवा करणीया । यतः सः बहुकाले व्यतीते सत्यपि जीवनपर्यन्तं फलितः भवति । विद्वान् पुरुषः एकस्मिन् स्थाने जीर्णवृक्षवत् स्थित्वा प्राणान् त्यजेत्, परन्तु विवेकहीनात् स्वामिनः आजीविकायाः आशां न कुर्यात् ।

यः सेवकः स्वस्वामिनः कठोरशब्दैः निन्दां करोति, सः स्वस्य एव निन्दां करोति । यतः तस्मिन् एव विवेकः नास्ति यत्, कस्य सेवा करणीया, न करणीया चेति [२५] । यस्य वैभसम्पन्नस्य स्वामिनः सेवां कृत्वापि सेवकाः बुभुक्षिताः, व्याकुलाः च तिष्ठन्ति, सः स्वामी मदारवृक्षवत् (अर्कवृक्षः) फलपुष्पादिसहितः त्यक्तव्यः । राजमातृ-पटराज्ञी-राजकुमारी-मुख्यमन्त्रि-पुरोहित-द्वारपालैः सह सेवकेन राजवत् व्यवहारः करणीयः [२६]

स्वामिनः आह्वानेन "चिरञ्जीव" इतिविचारेण यः सेवकः सेवातत्परः भवति, राज्ञा दत्तेन धनेन सन्तुष्टः भवति, राज्ञा दत्तानि वस्त्राणि धरते, राज्ञः प्राप्तं पारितोषिकादि विनम्रतया स्वीकृत्य कृतज्ञतापूर्वकं सन्तोषम् अनुभवति, अन्तःपुरे दासिभिः, राज्ञीभिश्च अधिकं सम्पर्कं न स्थापयति, द्युतं, मद्यं, स्त्रीं च क्रमेण यमवत्, विषवत्, कुरूपावत् पश्यति, सः राजप्रियः भवति [२७] [२८] । यः सेवकः युद्धे, नगरे, राजभवने च क्रमेण अग्रे, पृष्ठे, देहल्यां (द्वारे) च भवति, सः राजप्रियः भवति । आपत्काले मर्यादायाः अतिक्रमणं न करोति, राज्ञः शत्रुं प्रति शत्रुभावं, मित्रं प्रति मित्रभावं धरते, कटुवचनानि श्रुत्वापि न प्रत्युत्तरति, स्वापराधम् अङ्गीकरोति, राज्ञः आज्ञायाः कठोरपालनं करोति, राजस्त्रीणां निन्दाम् अकृत्वा विवादग्रस्तः न भवति, सः राजप्रियः भवति [२९]

करकटः अपृच्छत्, प्रप्रथमं भवान् तत्र गत्वा किं वदिष्यति इति वदतु । दमनकः प्रत्युदतरत् – वृष्ट्यानन्तरम् एकस्मात् बीजात् यथा अन्यबीजानि स्वत एवोत्पद्यन्ते, तथैव वार्तालापसमये उत्तरप्रत्युत्तरे अग्रिमवाक्यं स्वत एव समायाति [३०] । नीतेः उपायान् ज्ञात्वैव बुद्धिमन्तः प्रत्यक्षवत् द्रष्टुं शक्नुवन्ति यत्, नीतेः केन नियमेन लाभः उत हानिः भविष्यतीति ।[३१] वार्तालापस्य प्रश्नः अस्ति चेत्, मनोहारिसूक्तीः एकः शुकवत् वदति, अपरः हृदये सत्यपि मूकपुरुषवत् तिष्ठति, अन्यः हृदये प्रस्थाप्य यथा काले वदति अपि [३२]

अकालम् अहं न वदामि, यतः बाल्यकाले पितुः क्रोडे क्रीडन् अहं ज्ञातवान् – अप्रासङ्गिकं वचनं यदि बृहस्पतिः अपि वदति, तर्हि सोऽपि अपमानितः भवति इति [३३]

विशिष्टांशाः[सम्पादयतु]

धनोपार्जनस्य षड्मार्गाः सन्ति, ते भिक्षा, सेवावृत्तिः, कृषिः, विद्या, वार्धुष्यव्यवहारः (ब्याज पर धन देना), व्यापारश्च । वाणिज्ये अपि सप्तप्रकारैः व्यापारः शक्यः ।

१. गान्धिकव्यवहारः २. आभूषणादिव्यापारः ३. गौष्ठिककर्म (अन्नं, भोजनस्य उपस्करं, घृतं, गुडः इत्यादीनां व्यापारी हिन्द्यां, संस्कृते च मोदी इत्युच्यते ।) ४. परिचितग्राहकवञ्चनम् ५. मिथ्याक्रयकथनम् ६. कूटतुलामानम्

७. विदेशात् वस्तूनाम् आनयनम्।

  1. तन्त्रं १, श्लो. २,३,४.५
  2. पूज्यते यदपूज्योऽपि, यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि, स प्रभावो धनस्य च ।। तन्त्रं १, श्लो.७
  3. तन्त्रं १, श्लो. ६,७,८,९,१०
  4. यत्रैकेन च यत्क्रीतं तच्छतेन प्रदीयते ॥१३॥
  5. परिचिमागच्छन्तं ग्राहकमुत्कण्ठया विलोक्यासौ । हृष्यति तद्धनलुब्धो यद्वत्पुत्रेण जातेन ।। तन्त्रं १, श्लो. १६
  6. न स्वल्पस्य कृते भूरि, नाशयेन्मतिमान्नरः । एतदेवान्न पाण्डित्यं, यत्स्वल्पाद् भूरिरक्षणम् ॥ तन्त्रं १, श्लो. १९
  7. अरक्षितं तिष्ठति दैवरक्षितं, सुरक्षितं दैवहतं विनश्यति ।
    जीवत्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपि गृहे विनश्यति ।। तन्त्रं १, श्लो. २०
  8. यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानशौर्यविभवार्यगुणैः समेतम् ।
  9. यो नात्मना न च परेण च बन्धुवर्गे, दीने दयां न कुरुते न च भृत्यवर्गे ।
    किं तस्य जीवितफलं हि मनुष्यलोके, काकोऽपि जीवति चिराय बलिञ्च भुङ्क्ते ।। तन्त्रं १, श्लो. २५ ।।
  10. सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥१.२६॥
  11. परिवर्तिनि संसारे मृतः को वा न जायते । जातस्तु गण्यते सोऽत्र यः स्फुरेच्च श्रियाधिकः ॥१.२८॥
  12. अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते ।
    निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ।। ३२ ।।
  13. तन्त्रं १, श्लो. २६-३२
  14. वचस्तत्र प्रयोक्तव्यं, यत्रोक्तं लभते फलम् ।
    स्थायी भवति चात्यन्तं, रागः शुक्लपटे यथा ।। ३४ ।।
  15. प्रायेण भूमिपतयः प्रमदा लताश्च, यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ॥१.३६॥
  16. विश्वस्य विभिन्नेषु स्थानेषु चन्दनवृक्षाः प्राप्यन्ते अतः कालाग्रस्तमेतत् कथनम् ।
  17. तन्त्रं १, श्लो. ३५-४३
  18. https://sa.wikisource.org/s/bqg पृष्ठ १५०७
  19. कौटिल्यार्थशास्त्रस्य सप्तमेऽध्याये, महाभारतस्य कर्णपर्वणि, अग्निपुराणे च एतेषां षड्नीतीनाम् उल्लेखः प्राप्यते ।
  20. विदुरनीतेः प्रथमेऽध्याये अपि विस्तारेण षड्नीतीनां विषये प्राप्यते । एषा षड्नीतिः कुत्रचित् षड्गुणाः अपि उच्यते ।
  21. उदीरितोऽर्थः पशुनापि गृहते, हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्तमप्यूहति पण्डितो जनः, परेङ्गितज्ञानफ्जला हि बुद्धयः ॥१.४४॥
  22. आकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च ।
    नेत्रवक्त्रविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः ।। तन्त्रं १, श्लो. ४५ ।।
  23. सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥१.४६॥
  24. यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥१.४८॥
  25. सेवकः स्वामिनं द्वेष्टि, कृपणं पुरुषाक्षरम् ।
    आत्मानं किं स न द्वेष्टि, सेव्यासेव्यं न वेत्ति यः ।। ५१ ।।
  26. तन्त्रं १, श्लो. ४६-५३
  27. द्यूतं यो यमदूताभं हालां हालाहलोपमम् । पश्येद्दारान् वृथाकारान् स भवेद्राजवल्लभः ॥१.५७॥
  28. तन्त्रं १, श्लो. ५४-५७
  29. तन्त्रं १, श्लो. ५८-६३
  30. उत्तरादुत्तरं वाक्यं, वदतां सम्प्रजायते ।
    सुवृष्टिगुणसम्पन्नात्, बीजात् बीजमिवापरम् ।। ६४ ।।
  31. अपायसन्दर्शनजां विपत्तिम् उपायसन्दर्शनजां च सिद्धिम् । मेधाविनो नीतिगुणप्रयुक्तां पुरः स्फुरन्तीमिव वर्णयन्ति ॥१.६५॥
  32. एकेषां वाचि शुकवद्, अन्येषां हृदि मूकवत् ।
    हृदि वाचि तथाऽन्येषां वल्गु वल्गन्ति सूक्तयः ।। ६६ ।।
  33. अप्राप्तकालं वचनं, बृहस्पतिरपि ब्रुवन् ।
    लभते बह्ववज्ञानमपमानं च पुष्कलम् ।। ६७ ।।