सद्गुरु जग्गी वासुदेव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
सद्गुरु
जन्मतिथिः 3 1957 (1957-09-03) (वयः ५९)
जन्मस्थानम् मैसूरु, कर्णाटकराज्यम्, भारतम्
गुरुः/गुरवः पळनिस्वामी, मल्लाडिहल्लि राघवेन्द्र
तत्त्वचिन्तनम् योगः
उक्तिः भवता विश्वस्यते इत्यनेन भवता ज्ञातमस्ति इति न ।

जग्गी वासुदेवः सद्गुरु नामाख्यः। सद्गुरुः योगी दिव्यदर्शी च अस्ति। सः ईशा फाउन्डेशनस्य (प्रतिष्ठानस्य) संस्थापकः। इदम् ईशा प्रतिष्ठानम् नि:स्वार्भावनया मानवसेवां करोति। इयं संस्था भारतवर्ष-समेतं समस्त विश्वेऽपि—यथा संयुक्तराज्यअमेरिका, इंग्लैण्डः,लेबनानः, सिंगापुर:,आस्ट्रेलिया आदि देशेषु— योगविद्यां शिक्षयति, अन्य सामाजिक-सामुदायिकविकासकार्याणि अपि सम्पादयति। सद्गुरुः संयुक्तराष्ट्रसंघस्य आर्थिक-सामाजिक परिषदि विशेषपरामर्शकपदवीम् अलंकरोति। अध्यात्मक्षेत्रे अस्य महत्तमं योगदानं पुरस्कृत्य २०१७ तमस्य वर्षस्य २५ तमे दिनाङ्के भारतसर्वकारेण अस्मै पद्मविभूषणप्रशस्तिः धोषिता । [१]

प्रारम्भिकं जीवनम्[सम्पादयतु]

सद्गुरु जग्गी वासुदेवः ख्रिस्ताब्दे १९५७ सितम्बर मासस्य तृतीयायां तिथौ कर्नाटक प्रान्ते मैसूर नगरे जात:। अस्य पिता वैद्यः आसीत्। बालक: जग्गी वासुदेवः स्वभावेन प्रकृतिप्रियः। प्रायः अयं कतिपयदिनपर्यन्तं वनेषु तिरोहितो भूत्वा पर्यटनं करोति स्म। तत्रैव स: वृक्षस्य उत्तुङ्गशाखायाम् उपविश्य रमणीयवायोः सुखम् आस्वादयन् गहनध्यानावस्थायां लीनः भवति स्म । यदा अयं गृहं प्रत्यागच्छति अस्य झौलिका बहुभिः सर्पै: पूरिता भवति स्म। स: एभिः सर्पै: सह क्रीडति स्म। स: सर्पाणां ग्रहणे बन्धने च निपुणः आसीत्। स: एकादशवर्षावस्थायाः प्रभृति योगाभ्यासं करोति स्म। तस्य योग-गुरुः मल्लाडिहल्लि स्वामिनः इति विख्यातः श्री राघवेन्द्र रावः। जग्गी वासुदेवः मैसूरुविश्वविद्यालयात् आंग्लभाषायाम् स्नातकोपाधिं प्राप्नोत्।

आध्यात्मिकानुभवः[सम्पादयतु]

पंचविंशतिवर्षावस्थायाम् अयं एकस्मिन् दिने अनायासेन एव गहनम् आध्यात्मिकानुभवं प्राप्तवान् यत् अस्य जीवनस्य दिशां पर्यवर्तत। एकदा मध्याह्नकाले जग्गी वासुदेवः मैसूर नगरे चामुंडी-पर्वतम् आरुह्य एकस्यां शिलायाम् उपाविशत्। तदा अस्य नेत्रे पूर्णतः उन्मीलिते आस्ताम्। तस्मिन् समये अयम् अकस्मात् इव आत्मानं स्वशरीरात् असम्पृक्तम् अन्वभव�त् । यत् अयं शरीरात् परः सर्वस्मिन् स्थाने यथा शिलासु वृक्षेषु पृथिव्यां च प्रसरति इति तेन अनुभूतम् । ततः प्रभृति कतिचनदिनपर्यन्तम् अयमेव अनुभवः वारं वारं तेन प्राप्तः। सदैव परमानन्दस्थितिं प्रत्यनुभूतवान्। अनया घटनया अस्य जीवन-शैली परिवर्त्तिता। जग्गी वासुदेवः स्वानुभवं सहमानवै: सह बंटनार्थम् आत्मनः जीवितं समर्पयितुं संकल्पितवान् । इदमेव लक्ष्यं पुरस्कृत्य अयं ईशा फाउन्डेशनं स्थापयित्वा योगसम्बद्धान् विविधानि कार्याणि आरब्धवान्।

ईशा प्रतिष्ठानम्[सम्पादयतु]

सद्गुरुणा स्थापितं ईशा प्रतिष्ठानम् लाभेच्छारहितं निःस्वार्थसेवासंस्थानम्। सर्वेषां जनानां शारीरिक-मानसिक-आन्तरिकुशलतायै समर्पिता इयं संस्था प्रायः द्विलक्षपंचसहस्रादपि अधिक-स्वयंसेवकेभ्यः संचाल्यते। प्रतिष्ठानस्य मुख्यालयः ईशा योग केन्द्रम् कोयंबत्तूर नगरे विद्यते। अत्र ग्रीन हैंड्स परियोजना विशुद्ध्पर्यावरणम् उद्दिश्य प्रवर्त्तयति। तमिलनाडुप्रान्ते प्रायः षोडशकोटि संख्यानां वृक्षाणां रोपणं परियोजनायाः उद्देश्यः। अधुना तमिलनाडु प्रान्ते पुदुचेरी प्रदेशे च अष्टादशशताधिकेषु समुदायेषु विंशतिलक्ष-संख्यया वृक्षारोपणं सम्पन्नम्। २००६ ख्रिस्ताब्दे अक्टूबर मासे सप्ततदश तिथौ तमिलनाडु प्रान्ते सप्तविंशति जनपदेषु अष्टलक्ष-द्विपंचाशत् सहस्रान् पादपान् रोपयित्वा गिनिज् विश्वरिकार्ड स्थापयति स्म। २००८ ख्रिस्ताब्दे इयं संस्था इंदिरा गांधी पर्यावरण-पुरस्कारमपि प्राप्नोत् ।

ईशा योगकेन्द्रम्[सम्पादयतु]

ईशायोगकेन्द्रे नन्दिनः प्रतिमा

ईशा योगकेन्द्रम् ईशा प्रतिष्ठानस्य संरक्षणे स्थापितम्। इदं वेलंगिरि पर्वतेषु १५० एकरमितायां भूम्यां स्थितमस्ति। सघन-वनैरावृतम् ईशा योगकेन्द्रम् नीलगिरि जीवमंडलस्य सम्भागे स्थितम्। अत्र प्रभूतं वन्यजीविनः अपि विद्यन्ते । आन्तरिकविकासार्थं स्थापितम् एतत् शक्तिसम्पन्नं स्थानं ज्ञान-कर्म-| क्रिया-भक्ति नामाख्यान् योगस्य चतुरः मुख्यमार्गान् जनान्तिके प्रापयितुं बद्धलक्ष्यमस्ति। अस्मिन् स्थाने ध्यानलिङ्गयोगमन्दिरस्य प्राणप्रतिष्ठा कृता।

ध्यानलिङ्गम्[सम्पादयतु]

मन्दिरस्य अन्तः ध्यानलिङ्गम्

१९९९ ख्रिस्ताब्दे सद्गुरुणा प्रतिष्ठापितं ध्यानलिङ्गं अखिले विश्वे अतिविशिष्टं वर्तते । योगविज्ञानस्य सारभूतं ध्यानलिङ्गम् ऊर्जायाः शाश्वतम् आकारमस्ति। त्रयोदश फ़ुट-नव इंच-पर्यन्तं लम्बितम् इदं ध्यानलिङ्गं पारद-आधारितम् । इदं केनाऽपि संप्रदायेन मतेन वा सम्बंधितं नास्ति, न च अत्र कस्यापि विधि-विधानस्य पूजायाः वा आवश्यकता अस्ति। ये जनाः ध्यानानुभवेन वञ्चिताः, तेऽपि ध्यानालिङ्गमन्दिरे कतिपयक्षणपर्यन्तं मौनेन उपविश्य ध्यानस्य गहनम् अनुभवं प्राप्तुं शक्नुवन्ति। अस्य प्रवेशद्वारे सर्वधर्म स्तम्भोऽस्ति यस्मिन् हिन्दू-मुस्लिम-ईसाई-जैन-बौद्ध-सिक्ख- पारसी-यहूदी-शिन्तो धर्मसम्बद्धानि प्रतीकानि अङ्कितानि। अयं स्तम्भः धार्मिकमतभेदान् उल्लंघ्य सम्पूर्णमानवताम् आमन्त्रयति।

प्रकाशिताः ग्रन्थाः[सम्पादयतु]

आङ्ग्लभाषा[सम्पादयतु]

तमिळुभाषा[सम्पादयतु]

हिन्दीभाषा[सम्पादयतु]

कन्नडभाषा[सम्पादयतु]

तेलुगुभाषा[सम्पादयतु]

पुरस्काराः[सम्पादयतु]

पद्मविभूषणप्रशस्तिः (२०१७) [२]

टिप्पणी[सम्पादयतु]

अग्रिमाध्ययनाय[सम्पादयतु]

  • Subramaniam, Arundhathi (2010). Sadhguru, More than a life. New Delhi: Penguin Ananda. ISBN 978-0-670-08512-5.