सरस्वतीनदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सरस्‍वती नदी इत्यस्मात् पुनर्निर्दिष्टम्)

सरस्वती नदी नाम्ना एका नदी पुरा काले आसीत्। सरस्वतीनदी यत्र लुप्ताऽभवत्, तस्य स्थानस्य नाम ‘विनशनम्' अस्ति। तस्याः पुनरुद्गमस्थानस्य अभिधानम् ‘प्लक्षप्रासवणम्' अस्ति।[१] विनशनात् चतुश्चत्वारिंशत् दिनपर्यन्तं निरन्तरम्, अश्वगत्या चलित्वैव प्लक्षप्रासवणस्य उपसर्पणम्भवति।[२] न तावदेतावद् एव सरस्वतीदृषद्वत्योः मध्यवर्तीप्रदेशस्य तथा तयोः सङ्गमस्थानस्य अपि निर्देशो लभते। सर्वाधिकमहत्त्वपूर्णः सङ्केतः एवम् अस्ति - प्रजापतेः वेदिस्वरूपेण कुरुक्षेत्रस्य मान्यता - 'एतावतो वात्र प्रजापतेर्वेदिर्यावत् कुरुक्षेत्रमिति'[३]। प्रजापतेः यज्ञस्य प्रतीकत्वेन ‘कुरुक्षेत्रम्' यज्ञवेदि सिद्धो भवति। अर्थादस्मिन्नेव प्रदेशे ब्राह्मणानां सङ्कलनं कृतमासीत्। यज्ञयागस्यापि पूर्णप्रतिष्ठाऽस्मिन्नेव प्रान्तेऽभवत्। मनुस्मृतौ दृषद्वती-सरस्वत्योः उभयोः देवनद्योः मध्यवर्त्तीप्रदेशः ‘ब्रह्मावर्त्त'-नाम्ना ख्यातोऽभवत्।[४] याज्ञिकसंस्कृत्याः केन्द्रं पीठस्थलञ्च इदमेव स्थानमस्ति, यत्र ब्राह्मणानां यज्ञप्रक्रियायाः पूर्णविकासः सम्पन्नोऽभवत्। अस्यैव प्रान्तस्य भाषा ‘राष्ट्रभाषा' अभवत्। अत्रत्यः आचारः समस्तभारतवर्षस्य मान्याचारोऽभवत्। अत्रत्य संस्कृतिरेव समस्तभारतवर्षस्य संस्कृतिरस्ति। 


सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ( ताण्ड्य० २५॥१०॥२१ )
  2. ( ता० ब्रा० २५।।१०।१६ )
  3. ( ताण्ड्य० २५॥१३॥३१ )
  4. ( मनु० २॥२२ )
"https://sa.wikipedia.org/w/index.php?title=सरस्वतीनदी&oldid=424926" इत्यस्माद् प्रतिप्राप्तम्