सह्यः
भारतस्य पश्चिमे भागे दक्षिणोत्तरदिशि सागरतीरे स्थितः अस्ति गिरिगह्वरप्रदेशयुक्तः सह्याद्रिः । कोङ्कणसीमायाः रत्नगिरितः मौनतपस्विनः कन्याकुमारीशक्तिपीठपर्यन्तं प्रसृतः धीमान् गिरिकूटः अयं सह्याद्रिः । पुराणेषु उल्लिखितेषु सप्तकुलपर्वतेषु अयम् अपि अन्यतमः । अस्माकं पर्वतेषु औन्नत्ये हिमालयस्य अनन्तरस्थाने अस्ति सह्याद्रिः । तापीनद्याः तीरतः कुमारीपीठपर्यन्तं पृसृता एषा पर्वतश्रेणी त्रिधा विभक्ता अस्ति । तापीतः दक्षिणदिशि ८०० मैलपर्यन्तं विद्यमानः पर्वतभागः प्रधानपर्वतः “सह्याद्रिः” । अनन्तरं १६मैलपर्यन्तं “पालघाटी”खातम् अस्ति । तदनन्तरं कुमारीक्षेत्रं यावत् २०० मैलपर्यन्तं विद्यमानः “मलयः” इति उच्यते ।
सह्यशिखराणां माकिम् औन्नत्यं ४००० पादमितम् । कळ्सूबायीइत्याख्यस्य महाराष्ट्रे विद्यमानस्य सह्यशिखरस्य औन्नत्यं ५४२७ पादमितम् । कर्णाटके एते सह्यपर्वताः ६०००-८००० पादमितम् उन्नताः सन्ति । नीलगिरेः मध्यभागे विद्यमानः “दोड्डबेट्ट”शिखरं ८१२५ पादमितम् उन्नतम् अस्ति ।
हिन्दुसाम्राज्यस्य संस्थापकः शिवाजिमहाराजः जन्म प्राप्नोत् अस्य एव पर्वतस्य गर्भभूते शिवनेरिप्रदेशे । “शिवनश्वद रणकुणितद गीत, स्वामिसमर्थर सुरसङ्गीत” (शिवाजेः अश्वस्य रणनृत्यगीतं, स्वामिसमर्थरामदासस्य सुरसङ्गीतम्) द्वयम् अपि श्रुतवान् पर्वतः सह्याद्रिः । सिंहगढं, पन्नाळं, विशालं, प्रतापं, पुरन्दरं, चाकणं, तोरणं, कल्याणं, रायगढम् इत्यादीनि आदिलषाहि-मुगलषाहि-जनानां हृदयभेदनं कृतानि अभेद्यानि ऐतिहासिकानि दुर्गाणि सन्ति अत्र । सह्यपर्वतस्य ब्रह्मगिरौ विद्यमाने त्र्यम्बकक्षेत्रे गौतमऋषेः तपसः प्रभावात् गोदावरी जन्म प्राप्नोत् । कृष्णा भीमा च नद्यौ अपि सह्याद्रिसलिलम् एव । एताभिः सह वैनगङ्गा, तापी, प्रवरा, मुळा, नीरा, वेणा, कोयना, तुङ्गभद्रा, वरदा, कावेरी, घटप्रभा, मलप्रभा, काली, गङ्गावली, वासिष्ठी, वेदवती, सीता, नन्दिनी, नलिनी, मलापहारी इत्यादयः शताधिकाः नदीप्रवाहाः प्रवहन्तः सन्ति सह्याद्रिगर्भतः । एतासां सर्वासां नदीनां पिता इव विद्यमानः सह्याद्रिः दक्षिणभारतीयानां जीवनाधारः । दक्षिणभारतस्य वृष्टि-फलोदयाः अस्य पर्वतस्य कृपावलम्बिनः । असंख्यानां वनस्पतीनाम्, ओषधीनां, गहनारण्यानाम् आश्रयभूतः अयं सह्याद्रिः अस्माकं भाग्यमेव ।
हिमालयः औन्नत्ये वैशाल्ये च सह्याद्रेः अपेक्षया महान् चेदपि वयसा ज्येष्ठः सह्याद्रिरेव । भारतवर्षस्य मूलाधारस्य सह्याद्रेः इतिहासः हिमगिरेः इतिहासस्य अपेक्षया प्राचीनः अस्ति । हिमालयः इव सह्याद्रिः अपि देवभूमिः । ज्योतिर्लिङ्गानि सह्याद्रेः वैशिष्ट्यानि । द्वादशज्योतिर्लिङेषु षट् सन्ति सह्याद्रेः उपत्यकायाम् । भूगर्भे जायमानानि परिवर्तनानि अग्निज्वालायाः स्फोटानि च तदा तदा एतेषां लिङ्गानां द्वारा प्रकटितानि ।
अयं सह्याद्रिः रामस्य सीतायाः लक्ष्मणस्य च चरणस्पर्शेन पुनीतः जातः । रामः, सीता, लक्ष्मणः च वनवासस्य महान्तं कालं यापितवन्तः पञ्चवटीक्षेत्रे । तत् पञ्चवटीक्षेत्रम् अस्ति अस्मिन् सह्यपर्वते । तस्मिन् एव क्षेत्रे शूर्वणखायाः नासिकाच्छेदः सञ्जातः । तस्मात् एव कारणात् पञ्चवटीक्षेत्रं “नासिक्” इति नाम प्राप्नोत् । “जनस्थान”नामके स्थाने एव खरदूषणयोः वधं, मारीचसंहारः, सीतापहरणम् इत्यादयः घटनाः सञ्जाताः । गोदावर्याः मूलम् अपि एतदेव । ज्योतिर्लिङ्गेषु अन्यतमस्य त्र्यम्बकेश्वरस्य क्षेत्रम् अपि एतदेव । पण्डरापुरं, महाबलेश्वरम्, वालुकेश्वरं, करवीरं, सज्जनगढं (स्वामिनः समर्थरामदासस्य तपोभूमिः), पुणे, शिरडि, अष्टविनायकक्षेत्राणि, परली, भीमशङ्करं, नागनाथम्, अजन्ता, एल्लोरा, नान्देडं (गुरु-गोविन्द-सिंहस्य स्मारकं), प्रतिष्ठानम् (शालिवाहनस्य राजधानी) इत्यादीनि असंख्यानि पौराणिकानि ऐतिहासिकानि च तीर्थक्षेत्राणि सन्ति अस्मिन् पर्वते । अस्मिन् एव पर्वते दैत्ययोः अतिबल-महाबलयोः संहारः अभवत् । अत्रत्ये प्रतापगढे दैत्यस्य, देवस्य अपि अपेक्षया महान् इति आत्मानं मन्यमानस्य अफजलखानस्य वधम् अभवत् । सिंहगढे शिवाजेः आप्तस्य तानाजिमालसुरस्य बलिदानम् अभवत् । पन्हाळसमीपस्थे “पावनखिण्डि”नामके स्थाने एव शिवाजिमहाराजस्य रक्षणार्थं सूर्योदयात् सूर्यास्तपर्यन्तम् अपि हस्तद्वयेन अपि खड्गं गृहीत्वा युद्धं कृतवतः ज्येष्ठस्य सेनानायकस्य “बाजिप्रभु-देशपाण्डे” इत्यस्य बलिदानम् अपि अभवत् । हिन्दुधर्म-संस्कृत्योः रक्षणार्थं परिवारम् एव बलिं कृतवान् गुरु-गोविन्दसिंहः अग्रिमयुद्धार्थं “बन्दा-बैरागि” इत्यस्मै प्रेरणाम् अयच्छत् अस्मिन् एव गोदावरीतीरे विद्यमाने नान्देडक्षेत्रे । तस्य गुरु-गोविन्दसिंहस्य बलिदानम् अपि अत्रैव अभवत् । कश्यपस्य, अत्रेः, भरद्वाजस्य, गौतमस्य, अगस्त्यस्य इत्यादीनां श्रेष्ठानाम् ऋषीणां जीवनेन सह अपि महान् सम्बन्धः आसीत् सह्याद्रेः । एतादृशस्य अस्य सह्यपर्वतस्य स्मरणेन हृदयं पुलकितं न जायते किम् ?