हक्किपिक्किजनाङ्गः
आदिवासी जनाः | |
---|---|
कर्णाटका क्षेत्रस्य आदिवासी जनः |
आदिवासी जनाः | |
---|---|
कर्णाटका क्षेत्रस्य आदिवासी जनः |
हक्किपिक्किजनाङ्गः | |
---|---|
हक्किपिक्किजनाङ्गः |
हक्किपिक्किजनाङ्गः | |
---|---|
हक्किपिक्किजनाङ्गः |
हक्किपिक्किजनाङ्गस्य स्थानानि
[सम्पादयतु]एतेषां मूलवासस्थानं राजास्थानस्य ‘बाग्रा’ नामक प्रदेशः । अतः एते स्वान् ‘वाग्रि’ (बाग्रि) इति आह्वयन्ति । कर्णाटकस्य गुल्बर्गामण्डले, बीदरमण्डले, बिजापुरमण्डले, बळ्ळारीमण्डले, धारवाडमण्डले, चिक्कमगळुरुमण्डले, शिवमोग्गामण्डले, हासनमण्डले, मण्ड्यमण्डले, मैसूरुमण्डले, बेङ्गळूरुमण्डले च अधिकतया वसन्तः सन्ति । एतेषु जात्, भुक्सा च इति गणद्वयम् अस्ति । एतेषु अधिकानि गोत्राणि(बळि) च सन्ति ।
हक्किपिक्किजनाङ्गस्य वृत्तिः
[सम्पादयतु]एते मृगयाम् अवलम्ब्य जीवन्ति । मृगयां कुर्वन्तः तस्य मूलोत्पन्नस्य विक्रयणं कुर्वन्ति । स्वेषां पशुभिःवः, परिवारेण च सह प्रदेशतः प्रदेशम् अटन्ति ।
हक्किपिक्किजनाङ्गस्य आचाराः
[सम्पादयतु]सामान्यतः एतेषु बाल्यविवाहपद्धतिः अस्ति । वधुदक्षिणापद्धतिः अपि अस्ति । एतेषु विवाहविच्छेदनं बहुसुलभम् । पक्षिणः इव कूजन्तः तेषां मृगयां कुर्वन्ति । मयूरस्य, गीजगस्य, कपोतस्य, वनकुक्कुटस्य च शब्दस्य अनुकरणकला एतैः करगता अस्ति । स्वस्य प्रियाः एव आह्वयन्तः सन्ति इति मत्वा शब्दस्य दिशि धावन्ति पक्षिणः। स्थापिते जाले पतन्ति । हरिणजालस्य रन्ध्रजालस्य च निर्माणे एते कुशलाः । एतेषां सम्भाषणस्य भाषायाः लिपिः नास्ति । एतेषां गृहभाषा ‘वाग्रि’ (वागरियो) । एषा काचित् मिश्रभाषा । गुजराती, हिन्दी, मराठी, राजस्थानी भाषाणां शब्दाः वाग्रिभाषायाम् अधिकतया उपयुज्ज्यन्ते ।