राजकोट

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Rajkot इत्यस्मात् पुनर्निर्दिष्टम्)
राजकोट

રાજકોટ

Rajkot
Best City-Women Safety 2013
राजकोट
राजकोट
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् राजकोटमण्डलम्
महानगरविस्तारः १७० चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ३,८०४,५५८
Founded by ठाकोर साहेब विभोजी आजोजी जाडेजा
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body राजकोट म्युनिसिपल् कोर्पोरेशन्
 • महापौरः रक्षा बोरीचा
 • उपमहापौरः विनु धावा
 • म्युनिसिपल कमीशनर् अजयः भाडू
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
पीनकोड
३६० ०XX
Area code(s) ०२८१
Vehicle registration जीजे-३,जीजे-३०
साक्षरता ८६.६५%
भाषाः गुजराती, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website www.rmc.gov.in

राजकोट ( /ˈrɑːjəkth/) (गुजराती: રાજકોટ, आङ्ग्ल: Rajkot)महानगरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रप्रदेशे आजीनद्याः तीरे स्थितमस्ति । एतन्महागरम् गुजरातराज्यस्य महानगरेषु चतुर्थमस्ति । भारतस्य बृहत्तमनगरेषु अस्य क्रमः २६ तमः, शीघ्रविकसितनगरेषु २२ तमः अस्ति । एतस्मिन्महानगरे महात्मागान्धेः गृहमासीत् । एतन्महानगरं राजकोटमण्डलस्य प्रशासनिककेन्द्रमस्ति ।

इतिहासः[सम्पादयतु]

१६२० तमे वर्षे ‘ठाकोर साहेब नभोजी आजोजी जाडेजा’नामकः ‘जाडेजा’वंशीयराजा लघुग्रामाणां सङ्ग्रहणं कृत्वा राजकोटनामकस्य नवनगरस्य रचनां चकार । ‘राजुसङ्घी’ इत्याख्यस्वमित्रस्य नाम्ना, नगरस्यास्य राजकोट इति नामाभिधानं सः कृतवान् । १७२० तमे वर्षे जुनागढप्रदेशस्य सेनापतिः ‘मासुम् खान्’ 'जाडेजा'वंशीयं ’महेरामण’राजानं पराज्य राजकोटमहानगरे स्वाधिपत्यं स्थापितवान् । सः राजकोटमहानगरस्य नाम परिवर्त्य ‘मासुमाबाद्’ इति कृतवान् । परन्तु एतन्नामकरणं १२ वर्षं यावदेवासीत्, कारणं १२ वर्षपश्चात् अर्थात् १७३२ तमे वर्षे ‘महेरामण’राज्ञः ‘रमणल’ इत्याख्यपुत्रः स्वपराक्रेण ‘मासुम् खान्’ इत्येनं मारितवान्, स्वसाम्राज्यञ्च पुनः प्राप्तवान् । सः नगरस्य नाम ‘मासुमाबाद्’ इत्यस्मात् पुनःपरिवर्त्य राजकोट इति मूलनाम एव प्रादात् । यदा सौराष्ट्रं भिन्नं राज्यमासीत्, तदा १५-४-१९४८ तः ३१-१०-१९५६ पर्यन्तं सौराष्ट्रराज्यस्य राजधानी राजकोटमहानगरमासीत् । ततः १-११-१९५६ पर्यन्तं राजकोटमहानगरं महाराष्ट्रस्य सीमायामन्तर्भूतम् आसीत् । परन्तु गुजरातस्वतन्त्रतान्दोलनपश्चात् १-५-१९६० दिनाङ्के एतन्महानगरम् गुजरातराज्यस्य अङ्गम् अभूत् ।

वी‌‍‍‍‌‍‍क्षणीयस्थलानि[सम्पादयतु]

राजकोटमहानगरे 'जूबली'-उद्यानं प्रख्यातं स्थलमस्ति । अत्रैव ‘वाट्सन्’-वस्तुसङ्ग्रहालयः अस्ति । अस्योद्यानस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति, यथा – महात्मागान्धिमहाविद्यालयः, महात्मागान्धेः बाल्यकालगृहम्, राष्ट्रियशाला च इति । राजकोटस्य याज्ञिकमार्गस्थितं पुत्रिका(Doll)सङ्ग्रहालयः बालेभ्यः आकर्षकं, मोदकञ्च स्थलमस्ति । अत्रस्थाः भिन्नश्रृङ्गारैः सज्जिताः १,४०० पुत्रिकाः बालान् कर्षन्ति । राजकोटमहानगरे अन्यानि बहूनि स्थलानि सन्ति, येषां गणना वीक्षणीयस्थलेषु भवति । यथा – श्रीरामकृष्णपरमहंसाश्रमः, रणछोडदासाश्रमः, स्वामिनारायणमन्दिरं, नागेश्वरपाशवान-जैनमन्दिरं, बालकृष्णप्रासादः, ईश्वरीय-मन्दिरम् उद्यानञ्च, ‘गेबन् शाह् दरगाह्’, ‘हशन् शाह् दरगाह्’ इति ।

राजकोटमहानगरे परिवहनम्[सम्पादयतु]

यस्य कस्यापि नगरस्य प्रसिद्धिं, तस्य नगरस्य परिवहनव्यवस्थायाः यागदानेनापि परिक्षन्ते जनाः । २००७ तमे वर्षे 'राजकोट म्युनिसिपल् कोर्पोरेशन्'द्वारा वैयक्तिकसंस्थानां (Private Companies) सहयोगेन परिवहनव्यवस्थायाः आरम्भः कृतः । वैयक्तिकसंस्थानां (Private Companies) १०० 'बस्'यानानि महानगरस्य मार्गेषु सञ्चरन्ति ।

कर्णावतीमहानगरे BRTS (Bus Rapid Transit System) इति 'बस्'यानप्रयोगस्य सफलतायाः पश्चात् सद्यः राजकोटमहानगरेऽपि अस्य प्रारम्भः १-१०-२०१२ दिने अभूत् । अधुना १५ 'बस्'यानानि चलन्ति सन्ति, इतोऽपि १५७ 'बस्'यानानाञ्च योजनास्ति ।

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

राजकोट-राष्ट्रियविमानस्थानकं मुख्यनगरात् ५ कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च राजकोटमहानगराय वायुयानानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः राजकोटमहानगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः राजकोटमहानगराय 'बस्'यानानि अपि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-जयपुरादिनगरेभ्यः 'बस्'यानानि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

आजीनदी

रामकृष्णमशिन् (राजकोटः)

सौराष्ट्रम्

बाह्यानुबन्धः[सम्पादयतु]

http://rajkot.gujarat.gov.in/ Archived २०२०-११-०१ at the Wayback Machine

http://www.rmc.gov.in/

http://www.mapsofindia.com/maps/gujarat/rajkot.htm

http://timesofindia.indiatimes.com/city/rajkot

"https://sa.wikipedia.org/w/index.php?title=राजकोट&oldid=480867" इत्यस्माद् प्रतिप्राप्तम्