राजकोट
राजकोट રાજકોટ Rajkot | |
---|---|
Best City-Women Safety 2013 | |
राजकोट | |
देशः | भारतम् |
राज्यम् | गुजरातराज्यम् |
मण्डलम् | राजकोटमण्डलम् |
महानगरविस्तारः | १७० चतुरस्रकि.मी. |
जनसङ्ख्या(२०११) | ३,८०४,५५८ |
Founded by | ठाकोर साहेब विभोजी आजोजी जाडेजा |
Government | |
• Type | महापौरपरिषद्-सर्वकारः(Mayor–council government) |
• Body | राजकोट म्युनिसिपल् कोर्पोरेशन् |
• महापौरः | रक्षा बोरीचा |
• उपमहापौरः | विनु धावा |
• म्युनिसिपल कमीशनर् | अजयः भाडू |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
पीनकोड |
३६० ०XX |
Area code(s) | ०२८१ |
Vehicle registration | जीजे-३,जीजे-३० |
साक्षरता | ८६.६५% |
भाषाः | गुजराती, हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | www.rmc.gov.in |
|
राजकोट ( ( शृणु) /ˈrɑːjəkoʊth/) (गुजराती: રાજકોટ, आङ्ग्ल: Rajkot)महानगरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रप्रदेशे आजीनद्याः तीरे स्थितमस्ति । एतन्महागरम् गुजरातराज्यस्य महानगरेषु चतुर्थमस्ति । भारतस्य बृहत्तमनगरेषु अस्य क्रमः २६ तमः, शीघ्रविकसितनगरेषु २२ तमः अस्ति । एतस्मिन्महानगरे महात्मागान्धेः गृहमासीत् । एतन्महानगरं राजकोटमण्डलस्य प्रशासनिककेन्द्रमस्ति ।
इतिहासः
[सम्पादयतु]१६२० तमे वर्षे ‘ठाकोर साहेब नभोजी आजोजी जाडेजा’नामकः ‘जाडेजा’वंशीयराजा लघुग्रामाणां सङ्ग्रहणं कृत्वा राजकोटनामकस्य नवनगरस्य रचनां चकार । ‘राजुसङ्घी’ इत्याख्यस्वमित्रस्य नाम्ना, नगरस्यास्य राजकोट इति नामाभिधानं सः कृतवान् । १७२० तमे वर्षे जुनागढप्रदेशस्य सेनापतिः ‘मासुम् खान्’ 'जाडेजा'वंशीयं ’महेरामण’राजानं पराज्य राजकोटमहानगरे स्वाधिपत्यं स्थापितवान् । सः राजकोटमहानगरस्य नाम परिवर्त्य ‘मासुमाबाद्’ इति कृतवान् । परन्तु एतन्नामकरणं १२ वर्षं यावदेवासीत्, कारणं १२ वर्षपश्चात् अर्थात् १७३२ तमे वर्षे ‘महेरामण’राज्ञः ‘रमणल’ इत्याख्यपुत्रः स्वपराक्रेण ‘मासुम् खान्’ इत्येनं मारितवान्, स्वसाम्राज्यञ्च पुनः प्राप्तवान् । सः नगरस्य नाम ‘मासुमाबाद्’ इत्यस्मात् पुनःपरिवर्त्य राजकोट इति मूलनाम एव प्रादात् । यदा सौराष्ट्रं भिन्नं राज्यमासीत्, तदा १५-४-१९४८ तः ३१-१०-१९५६ पर्यन्तं सौराष्ट्रराज्यस्य राजधानी राजकोटमहानगरमासीत् । ततः १-११-१९५६ पर्यन्तं राजकोटमहानगरं महाराष्ट्रस्य सीमायामन्तर्भूतम् आसीत् । परन्तु गुजरातस्वतन्त्रतान्दोलनपश्चात् १-५-१९६० दिनाङ्के एतन्महानगरम् गुजरातराज्यस्य अङ्गम् अभूत् ।
वीक्षणीयस्थलानि
[सम्पादयतु]राजकोटमहानगरे 'जूबली'-उद्यानं प्रख्यातं स्थलमस्ति । अत्रैव ‘वाट्सन्’-वस्तुसङ्ग्रहालयः अस्ति । अस्योद्यानस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति, यथा – महात्मागान्धिमहाविद्यालयः, महात्मागान्धेः बाल्यकालगृहम्, राष्ट्रियशाला च इति । राजकोटस्य याज्ञिकमार्गस्थितं पुत्रिका(Doll)सङ्ग्रहालयः बालेभ्यः आकर्षकं, मोदकञ्च स्थलमस्ति । अत्रस्थाः भिन्नश्रृङ्गारैः सज्जिताः १,४०० पुत्रिकाः बालान् कर्षन्ति । राजकोटमहानगरे अन्यानि बहूनि स्थलानि सन्ति, येषां गणना वीक्षणीयस्थलेषु भवति । यथा – श्रीरामकृष्णपरमहंसाश्रमः, रणछोडदासाश्रमः, स्वामिनारायणमन्दिरं, नागेश्वरपाशवान-जैनमन्दिरं, बालकृष्णप्रासादः, ईश्वरीय-मन्दिरम् उद्यानञ्च, ‘गेबन् शाह् दरगाह्’, ‘हशन् शाह् दरगाह्’ इति ।
राजकोटमहानगरे परिवहनम्
[सम्पादयतु]यस्य कस्यापि नगरस्य प्रसिद्धिं, तस्य नगरस्य परिवहनव्यवस्थायाः यागदानेनापि परिक्षन्ते जनाः । २००७ तमे वर्षे 'राजकोट म्युनिसिपल् कोर्पोरेशन्'द्वारा वैयक्तिकसंस्थानां (Private Companies) सहयोगेन परिवहनव्यवस्थायाः आरम्भः कृतः । वैयक्तिकसंस्थानां (Private Companies) १०० 'बस्'यानानि महानगरस्य मार्गेषु सञ्चरन्ति ।
कर्णावतीमहानगरे BRTS (Bus Rapid Transit System) इति 'बस्'यानप्रयोगस्य सफलतायाः पश्चात् सद्यः राजकोटमहानगरेऽपि अस्य प्रारम्भः १-१०-२०१२ दिने अभूत् । अधुना १५ 'बस्'यानानि चलन्ति सन्ति, इतोऽपि १५७ 'बस्'यानानाञ्च योजनास्ति ।
मार्गाः
[सम्पादयतु]विमानमार्गः
[सम्पादयतु]राजकोट-राष्ट्रियविमानस्थानकं मुख्यनगरात् ५ कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च राजकोटमहानगराय वायुयानानि सन्ति ।
धूमशकटमार्गः
[सम्पादयतु]भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः राजकोटमहानगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।
भूमार्गः
[सम्पादयतु]भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः राजकोटमहानगराय 'बस्'यानानि अपि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-जयपुरादिनगरेभ्यः 'बस्'यानानि सन्ति ।
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यानुबन्धः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये राजकोट सम्बन्धिताः सञ्चिकाः सन्ति। |
http://rajkot.gujarat.gov.in/ Archived २०२०-११-०१ at the Wayback Machine