भक्तियोगः (गीता)
अध्यायस्य सारः
[सम्पादयतु]भक्तियोगो गीताज्ञानस्य अमृतफलम् अस्ति । अयमेव 'राजविद्या’ शब्देनापि प्रोक्तः । अपि चायं सर्वेषां रहस्यानां रहस्यम् अस्ति । भक्तिं विना साधकस्य साधनरुपम् आचरणम् अपूर्णमेव तिष्ठति । विराटरुपिणो दर्शनस्यान्ते भगवान् श्रीकृष्णः प्रतिपादयति यद देवदुर्मभस्य विराटरुपिणः साक्षात्कारो न वेदेन, न तपस्यया, न दानेन, च चेज्यया विधातुं शक्यते अपितु अनन्यभक्त्यैव सः सम्भवति । अनयैव जीवः ईश्वरं प्रत्यक्षं द्रष्टुं क्षमते, तत्त्वतो ज्ञातुं शक्नोति, भगवता सह ऐक्यभावमपि लब्धुं क्षमते ! अनन्यभक्तितत्त्वस्य स्वरुपम् श्रीमद्भगदगीतायामेवं प्रकारेण निरुपतिम् –
- मत्कर्मकृद् मत्परमो मद्भक्तः सङ्गवर्जितः ।
- निर्वैरः सर्वभूतेषु यः स मामेति पाण्डवः ॥
यज्ञ-दान तपः प्रभृतीनि सर्वाणि कर्त्तव्यकर्माणि भगवद्रूपाणि मत्वा साधनारतः भगवन्त मेव परमाश्रयं मत्वा तत्प्राप्त्यर्थं सततं प्रयत्नशीलः भक्तियोगस्य अनुष्ठाता, अनासक्तः, सर्वप्रणिषु शत्रुभावारहितो जनो भक्तोऽस्ति । भक्तस्य साधनायाः स्वरुपमेव भक्तिरस्ति । भगवत्प्राप्तिरेव भक्तेः फलं विद्यते । श्रीमद्भगद्गीता लोकल्याणाय सगुण- सकाम –भक्तिमार्गाय उपदेशं प्रददाति । भक्तिः उपासनापद्धतिम् अवलब्य प्रवर्तिताऽस्ति । गीताया भक्तियोगे इतरसाधनेभ्योऽविरोधोऽस्ति ।
गीताया भक्तियोगे भक्तस्य महत्त्वं सर्वोपरि निर्धारितम् अस्ति । भक्ताश्चतुर्विधाः प्रतिपादिताः सन्ति-आर्तभक्ता, जिज्ञासुभक्ताः अर्थार्थिनो भक्ताः ज्ञानिनो भक्ताः । एषु चतुर्षु ज्ञानिनां श्रेष्ठता प्रतिपादिताऽस्ति । ज्ञानी भक्तो भगवत आत्मसरुपो भवति । यथोक्तम् –“ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते”। एवं श्रीमद्भगवद्गीता विविधमार्गेषु समन्वयं प्रदर्श्य साधनमार्गं सुगमं सुलभं च करोति ।
गीतोक्तम्तानुसारेण कर्म-ज्ञान- ध्यान-भक्तिमार्गः एकस्यैव ईश्वारस्य प्राप्त्युपायाः सन्ति । अध्यात्मसाधकः एषां मार्गाणां यथेच्छम् उपयोगं कर्त्तुं शक्नोति । गीतायाः साधनामार्गस्य प्रारम्भो निष्कामकर्मणा अनन्यशरणागतिभावेन च भवति । निष्कामकर्मणोऽनुष्ठानेन, नियमपूर्वकं ध्यानयोगस्य अभ्यासेन साधको ब्रह्मभावं प्राप्नोति । तस्य चेतसि समत्वभावना जागर्ति । एषैव ब्राह्मी स्थितिः गीतायां प्रतिपादिता ।
यदा ब्राह्मी स्थितिः समुदिता भवति, तदा साधकः उत्कृष्टां भक्तिं लभते । भक्तेरुदयानन्तरमेव परमज्ञानस्य अधिकारी भवति । परमज्ञानेनैव भगवतः स्वभावं स्वरुपं विभूतिगुणानाञ्च यथार्थतो जानाति । परमज्ञानस्यैव फलम् ईश्वरोपलब्धिरस्ति । ईश्वरोपलब्धये प्रतत्तिरावश्यकी अस्ति। प्रपत्तिमार्गोऽन्यमार्गाणां नैसर्गिकं पर्यवसानमस्ति । गीतायाः गुह्यं ज्ञानमिदमेवास्ति । उक्तञ्च –
- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
- मामेवैष्यसि युक्त्यैवमात्मानं मत्परायणः ॥
वस्तुतो ज्ञानकर्मणोरुभयोः समन्वयः भक्तौ दृश्यते । भक्त एव यथार्थतः ज्ञानी कर्मयोगी च भवितुं शक्यते । स्वयं भगवता श्रीकृष्णेनोक्तम् शास्त्रज्ञानस्य, प्रत्यक्षदर्शनस्य, भगवदैक्यस्य च प्राप्तिरनन्यभक्त्यैव सम्भवति । सात्त्विकीं श्रद्धां दैवीं सम्पत्ति च विना अनन्या भक्तिर्नैव जायते । अतो भगवदभक्त्यै अभय –सत्त्व शुद्धयादि –सद्गुणानाम् उपार्जनं नितान्तम् आवश्यकमस्ति । इमेऽपि सदगुणाः सात्त्विकश्रद्धयैव उदभवन्ति, अतो दैवैसम्पत्तिं लब्ध्वा कर्मज्ञानयोश्च तदुपयोगं विधाय अनन्या भक्तिरेव आचरणीयेति गीतायाः सन्देशोऽस्ति ।
भक्तिज्ञानयोर्मध्ये आन्तरिकविरोधो न मन्तव्यः । यतो हि यावत् ज्ञानं न भविष्यति तावत् भक्तिः कुतः सम्भवा ? ज्ञानेनैव ईश्वरानुरागः समुदेति । भक्तिं विना ज्ञानमपि नीरसं वर्तते, ज्ञानं विना च भक्तिः नेत्रहीनेवास्ति । उभयोः परस्परं सम्बन्धोऽस्ति । अतः ज्ञानसम्पन्न एव जनः यथार्थभक्तो भवति । यश्च भक्तोऽस्ति, सः न कदापि ज्ञानमुपेक्षते । ज्ञानी अपि भक्तेरुपेक्षां कर्त्तुं न क्षमते ।
एवं भगवद्गीतायाः दार्शनिकविचाराणमयमेवाशयोऽस्ति यत् ईश्वरं प्रति समर्पणभावनां कृत्वा कर्म कुर्वाणो जनः अनासक्तभावेन न कदापि कर्मबन्धने निपतति न च सांसारिकतैव तस्मिन् प्रभावं निपातयति, जीवनसंग्रामे स्वच्छन्दो भूत्वाऽसौ कर्मयोगी ज्ञानस्य उपयोगेन सह भक्तिमाचरमाणो मुक्तिं लभते ।
श्लोकानाम् आवलिः
[सम्पादयतु]भगवद्गीतायाः अध्यायाः |
---|
- 12.1 एवं सततयुक्रा ये….
- 12.2 मय्यावेश्य मनो….
- 12.3 ये त्वक्षरमनिर्देश्यं….
- 12.4 सन्नियम्येन्द्रियग्रामं….
- 12.5 क्लेशोधिकतरः तेषां….
- 12.6 ये तु सर्वाणि….
- 12.7 तेषामहं समुद्धर्ता….
- 12.8 मय्येव मन आधं….
- 12.9 अथ चित्तं समाधातुं….
- 12.10 अभ्यासेऽप्यसमर्थो….
- 12.11 अथैतदप्यशक्तोऽसि….
- 12.12 श्रेयो हि ज्ञानम्….
- 12.13 अद्वेष्टा सर्वभूतानां….
- 12.14 सन्तुष्टः सततं….
- 12.15 यस्मान्नोद्विजते….
- 12.16 अनपेक्षः शुचिः….
- 12.17 यो न दृश्यति न….
- 12.18 स्मः शत्रौ च ….
- 12.19 तुल्यनिन्दास्तुतिः….
- 12.20 ये तु धर्म्यामृतम्….