रमोन् मैग्सेसे-पुरस्कारः
Ramon Magsaysay Award | |
---|---|
विवरणम् | Outstanding contributions in Government Service, Public Service, Community Leadership, Journalism, Literature and Creative Communication Arts, Peace and International Understanding and Emergent Leadership |
देशः | Philippines |
पुरस्कर्ता | Ramon Magsaysay Award Foundation |
पुरस्कारस्य आरम्भः | 1958 |
जालपुटम् | http://www.rmaf.org.ph |
रमोन् मैग्सेसे-पुरस्कारः (Ramon Magsaysay Award) फिलिपीन्सदेशस्य भूतपूर्वराष्ट्रपतिः-रमोन् मेग्सेसेवर्यस्य स्मरणे दीयमानः प्रमुखः पुरस्कारः । उत्तमशासकः, प्रजानुरागी रमोन्-वर्यः जनसामान्यानाम् आराध्यमूर्तिरित्येव प्रसिद्धः आसीत् । तदर्थं फिलिपीन्ससर्वकारः प्रतिवर्षं एतस्य नाम्नि विभिन्नक्षेत्राणां साधकानां कृते प्रशस्तिं ददाति । एषः पुरस्कारः १९५७तमे वर्षे 'रोकेफ़ल्लर् ब्रदर्स्' इति संस्थायाः द्वारा स्थापितम् । सार्वजनिक-सर्वकार-समुदायनायकत्वसेवासु-साहित्य- कला- पत्रिकोद्यमक्षेत्रेषु निरताः अत्युत्तमजनाः एतां मेग्सेसेप्रशस्तिं प्राप्नुवन्ति । मेग्सेसेप्रशस्तिः एशियाखण्डस्य 'नोबेल्' इत्यपि उच्यते ।
रमोन् मैग्सेसे-पुरस्कारः एशियाखण्डस्य षट्सु विभिन्नेषु क्षेत्रेषु कार्यः कुर्वाणेभ्यः उत्तमसाधकेभ्यः दीयते । किन्तु २००९ वर्षादारभ्य पञ्चक्षेत्राणां पुरस्कारः स्थगितः वर्तते ।
- सर्वकारीयसेवा (१९५८ - २००८)
- सामजिकसेवा (१९५८ - २००८)
- समुदायनायकत्वम् (१९५८ - २००८)
- पत्रिकोद्यमः,साहित्यम्, कला (१९५८ - २००८)
- अन्ताराष्ट्रिय शान्तिपालनम् (१९५८ - २००८)
- उदयोन्मुखनायकत्वम्(२००१ )
पुरस्कारभाजाः
[सम्पादयतु]१९५८तमे संवत्सरतः एतावता रमोन् मैग्सेसे-पुरस्कारभाजानां भारतीयानाम् आवलिः अत्र विद्यते ।
- सर्वकारीयसेवा - GS
- सामजिकसेवा - PS
- समुदायनायकत्वम् - CL
- पत्रिकोद्यमः,साहित्यम्, कला - JLCCA
- अन्ताराष्ट्रिय शान्तिपालनम् - PIU
- उदयोन्मुखनायकत्वम् - EL