इन्दिरा गान्धी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(इन्दिरा गान्धिः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Indira Gandhi
इंदिरा गांधी
3rd Prime Minister of India
कार्यालये
14 January 1980 – 31 October 1984
राष्ट्रपतिः नीलं सञ्जीव रेड्डि
ज्ञानी जैल सिंह
पूर्वगमः चौधरी चरणसिंह
पादानुध्यातः राजीवगान्धिः
कार्यालये
24 January 1966 – 24 March 1977
राष्ट्रपतिः सर्वपल्ली राधाकृष्णन्
जाकिर हुसैन
वराहगिरिः वेङ्कटगिरिः (Acting)
मोहम्‍मद हिदायतुल्‍लाह (Acting)
वराहगिरिः वेङ्कटगिरिः
फक्रुद्‍दीन अलि अहमद
बसप्प दानप्प जत्ति (Acting)
Deputy मोरारजी देसाई
पूर्वगमः गुलजारीलाल नन्दा (Acting)
पादानुध्यातः मोरारजी देसाई
विदेशीयमन्त्री
कार्यालये
9 March 1984 – 31 October 1984
पूर्वगमः नरसिंह राव्
पादानुध्यातः राजीवगान्धिः
कार्यालये
22 August 1967 – 14 March 1969
पूर्वगमः महमदाली करीम् चाग्ला
पादानुध्यातः दिनेश् सिंह
रक्षणा मन्त्री
कार्यालये
14 January 1980 – 15 January 1982
पूर्वगमः चिदम्बरम् सुब्रह्मण्यम्
पादानुध्यातः रामस्वामी वेङ्कटरामन्
कार्यालये
30 November 1975 – 20 December 1975
पूर्वगमः सरदार स्वरण् सिंह
पादानुध्यातः बन्सी लाल्
ग्रुहमन्त्री
कार्यालये
27 June 1970 – 4 February 1973
पूर्वगमः यशवन्तराव् चवाण्
पादानुध्यातः उमा शङ्कर् दीक्षित्
वित्त मन्त्री
कार्यालये
16 July 1969 – 27 June 1970
पूर्वगमः मोरारजी देसाई
पादानुध्यातः यशवन्तराव् चवाण्
व्यक्तिगत विचाराः
जननम् 19 November 1917(1917-11-19)
Allahabad, United Provinces, British India
मरणम् 31 October 1984(1984-10-31) (aged 66)
नव देहली, भारत्
राजनैतिकपक्षः भारतीय नॅशनल् कान्ग्रेस्
पतिः/पत्नी Feroze Gandhi
अपत्यानि Rajiv
Sanjay
मुख्यशिक्षणम् Somerville College, Oxford

इन्दिरा प्रियदर्शिनी गान्धी (१९१७-१९९३) प्रयागे जाता । पठितुं सा गुरुदेवरवीन्द्रनाथ ठाकुरस्य शान्तिनिकेतन विद्यापीठम् अगच्छत् । ततः युरोपमहाद्वीपं गतवती । सा भारतस्य प्रधानमन्त्रिणी आसीत् । भारतदेशे सा एका एव महिला वित्‍तमन्त्रालये प्रमुखमन्त्रिपदं भूषितवती । तस्‍या: शासनकाले भारतदेशे प्रथमम् अण्वस्‍त्रपरीक्षणं कृतम् । इयं १९६६ तमात् वर्षात् १९७७ तमवर्षपर्यन्तं त्रिवारं भारतस्य प्रधानमन्त्रिणी आसीत् । तदनन्तरं १९८० तम वर्षतः १९८४ तस्याः हत्याकाण्डपर्यन्तं मन्त्री आसीत् । सा आहत्य १५ वर्षकालं प्रधानमन्त्रीस्थानं समलङ्करोत् । सा भारतस्य प्रथमा महिला प्रधानमन्त्री आसीत् इदानीमपि तत्स्थानं रिकतमेवास्ति । एतस्याः मोहनदासगान्धीमहाभागस्य च सम्बन्धः एव नास्ति ।
एषा प्रभावीनेहरुकुले जाता प्रबलराजनैतिकवातावरणे वर्धिता च । मोतिलालनेहरु अस्याः पितामहः । भारतीय स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः आसीत् सः । स्वतन्त्रभारतस्य प्रधानमन्त्री जवहरलालनेहरु एव अस्याः पिता । १९४१ तमे वर्षे आक्सफर्डतः]].[१] भारतं प्रति आगत्य एषा भारतीयस्वातन्त्रसंग्रामे पात्रम् ऊढवती । १९५० तमे वर्षे प्रथमप्रधानमन्त्री तस्य पिता यदा आसीत् तदा एषा तस्य वैयक्तिकसहायिका भूत्वा सेवां कृतवती । १९६४ तमे वर्षे तस्याः पिता दिवङ्गतः । भारतस्य राष्ट्रपतिना एतस्याः राज्यसभासदस्यत्वं प्राप्तम् । ततः वार्ताप्रसारमन्त्रिपदवीं लालबहादूरशास्त्रीसचिवालये प्राप्तम् ।
सा सहस्राब्दे: महिला(Woman of the Millennium) इति बी बी सी संस्थया प्रशस्तिः दत्ता आसीत् [२]। शास्त्रिमहोदयस्य निधनं तु अनिरीक्षितमासीत् । ततः इन्दिरागान्धी प्रधानमन्त्री अभूत् । एनाम् एतत्पदव्यां स्थापयितुं काङ्ग्रेसपक्षस्य अध्यक्षः कापरमहाभागस्य एव मुख्यप्रात्रमस्ति । सा जनानुरागी भूत्वा सिद्धान्तस्थापनं कृतवती । सा निर्वाचने विजयं प्राप्य स्वसामर्थ्यं प्रदर्शितवती । सा कृषिकार्यार्थं कृषिकान् प्रोत्साहितवती । १९७१ तमे वर्षे जाते भारतपाकिस्थानयोः युद्धे भारतेन निर्णायकः विजयः प्राप्तः । तदा इन्दिरा प्रधानी आसीत् । परन्तु तस्मिन् सन्दर्भे भारते असुरक्षितता सर्वत्र कोलाहलमयवातावरणं च आसीत् । तदा सा देशे आपत्कालिकीं परिस्थितिं धोषितवती । दीर्धकालीनं निरङ्कुशप्रभुत्वम् आसीत् तस्याः । अतः पूर्वं कदापि अपजयमेव न दृष्टवता कांग्रेस्पक्षेण १९७७ तमे वर्षे सार्वत्रिकनिर्वाचने पराभवः प्राप्तः ।
पुनः १९८० तमे वर्षे काङ्ग्रेस्पक्षेण अधिकारः प्राप्रः । पुनः इन्दिरा एव आगतवती॥ १९८४ तमे वर्षे जून्मासे नेक्स्लेट्स् जनानां बन्धनं कर्तुम् इन्दिरा सिक्कजनानां पवित्रं स्थलं स्वर्णमन्दिरं प्रवेष्टुम् आदिदेश । एतत् सिक्कजनानां महतः क्रोधस्य कारणं जातम् । तस्मात् १९८४ तमे वर्षे अक्टोबर् मासस्य ३१ तमे दिनाङ्के तस्याः हननं कृतम् ।

प्रारम्भिकजीवनम्[सम्पादयतु]

इन्दिरा नेहरुगान्धी १९१७ तमे वर्षे नवेम्बर् मासे १९ दिनाङ्के पण्डितजवहरलाल नेहरु तथा कमलानेहरु दम्पत्योः पुत्रीरूपेण जन्म प्राप्नोत् । सा एकमात्रपुत्री आसीत् । नेहरु महोदयस्य काश्मीरपाण्डितकुलम् । यदा इन्दिरा जाता तदा पितामहः मोतिलाः तथा पिता जवहरलालनेहरु उभौ अपि राजकीयनेतारौ आस्ताम् । बाल्ये गृहे तीव्रराजनैतिकवातावरणम् आसीत् । एतस्याः पिता स्वात्मचरित्रं 'टुवर्डस् फ्रीडम्’ इति पुस्तके एवं उल्लिखितवान् अस्ति - 'यदा अहं कारागृहे आसम् तदा आरक्षकः पुनः पुनः गृहमागत्य सर्वकारेण दापितस्य शुल्कस्य निमित्तं पीठोपकरणानि स्वीकृत्य गच्छन्ति स्म । ममपुत्री चतुर्वर्षीया एतत् दृष्ट्वा खिन्ना भूता बहु असन्तोषं प्रकटितवती । आरक्षकां प्रति अवरोधः यः दर्शितः तया तत् दर्शयति यत् दृष्टं प्रायः तस्याः मनसि आरक्षकाणां व्यवस्थायां विभिन्ना द्दष्टिः एव जायते इति मम खेदः" ।
इन्दिरा युवकानां युवतीनां कृते वानरसेना्-आन्दोलनं प्रारब्धवती । तत् भारतीयस्वातन्त्र्यसंग्रामे मुख्यपात्रम् आवहत । एतेन भारतीय राष्ट्रिय कांग्रेस् पक्षे सूक्ष्म समाचाराणं प्रकटनं निर्बान्धितविचाराणां प्रकटनम् इत्यादि कार्यद्वारा साहाय्यमभवत् । ध्वजपथसञ्चलनं तथा आन्दोलनानि तत्र तत्र अभवन् । शालास्यूते एव प्रमुखकार्यक्रमाणां कार्यसूची पितृगृहात् आरक्षकद्वारा एव रहसि इन्दिरा प्रेषितवती । एवमेव १९३० तमवर्षस्य क्रान्तेः एतदेव मूलस्रोतः अभवत् ।

यूरोपदेशे विद्याभ्यासः[सम्पादयतु]

इन्दिरायाः माता कमलनेहरु दायरोगेण पीडिता आसीत् । कथञ्चित् चिरकालात् दुःखम् अनुभूथ १९३६ तमे वर्षे सा दिवङ्गता । तदा इन्दिरा अष्टादवर्षीया आसीत् । सा यदा इङ्ग्लेण्डमध्ये आक्सफर्डविद्यालये सोमरविल्लेकलाशालायां १९३० तमे वर्षे पठन्ती आसीत् तदा लण्डन्मूलस्य तीव्रगमी स्वातन्त्रपम् 'इण्डियालीग्’ इत्यस्य सदस्या आसीत् ।
१९४० तमे वर्षे प्रारम्भिकदिनेषु इन्दिरा श्वासकोशरोगपीडिता भूत्वा तस्य निवारणार्थं स्विट्सर्लण्ड्देशे गृहे अवसत् । तदा सा दीर्धं पत्रं पित्रे लिखन्ती आसीत् पितृपुत्र्योः मध्ये राजनैतिकी चर्चा पत्रद्वारा चलदासीत् ।
यदा सा युरोप्खण्डे आसीत् तदा क्रियाशीलं फार्सीतरुणं फिरोजगान्धिं दृष्टवती सः मोहनदासगान्धेः दत्तकपुत्रः । तयोः सम्पर्कः गाढः जातः । यतः सोऽपि कुटुम्बसदस्यः इवासीत् ।

फिरोजगान्धिना साकं विवाहः[सम्पादयतु]

इन्दिरा फिरोज भारतं प्रति यदा आगतौ तदा तयोः प्रीतिः परस्परमासीत् । वैद्यस्य सूचनामपि उल्लङ्घ्य परिणेतुमैच्छत् । फिरोजस्य सरलमनोभावः हास्यप्रज्ञा आत्मविश्वासश्च इन्दिराम् आकर्षत् । नेहरु एतावत् शीघ्रं तस्याः विवाहं कर्तुं नेच्छति स्म । तदर्थं तन्निवारणाय महात्मागान्धिम् आश्रितवान् । एतत्सर्वं व्यर्थमभवत् । १९४२ तमे वर्षे मार्च-मासे तयोः विवाहः हैन्दवरीत्या समभवत्.[३]
फिरोज इन्दिरा च भारतीय राष्ट्रिय कांग्रेस् पक्षस्य सदस्यौ आस्ताम् । १९०४ तमे वर्षे सञ्जाते भारतात् निर्गच्छ इत्येतस्मिन् आन्दोलने द्वावपि भाम् ऊढ्वा कारागृहं गतवन्तौ । स्वातन्त्र्यानन्तरं फिरोज निर्वाचने भाड्म् ऊढवान् उत्तरप्रदेशी संसत्सदस्यः अभवत् । तयोः पुत्रद्वयं राजीवः, सञ्जीवश्च । गच्छता कालेन तयोः मध्ये भिन्नाभिप्रायाः अधिकाः जाताः । विच्छेदनपर्यन्तमागतम् परन्तु तावता एव फिरोजस्य अस्वास्थ्यकारणतः तत् स्थगितम् । फिरोजस्य मरणं १९६० तमे वर्षे सेप्टेम्बरमासे अभवत् तावत्पर्यन्तं द्वावपि एकत्र सम्यक् कालं यापितवन्तौ ।

भारतीयराष्ट्रियकांग्रेस्पक्षस्य अध्यक्षा[सम्पादयतु]

१९५९ तथा १९६० तमे वर्षे भारतीयराष्ट्रियकांग्रेस्पक्षे अध्यक्षारूपेण निर्वाचिता जाता । अधिकारावधौ घटानाविशेषाः किमपि नासन् । स्वपितुः कार्यकारी समितिमुख्यस्था भूत्वा कार्यं कृतवती । नेहरु स्वजनपक्षपातं विरुध्य कार्यं करोति स्म । गान्धी १९६२ तमस्य निर्वाचने भागं न ऊढवती ।

वार्ताप्रसारमन्त्री[सम्पादयतु]

१९६४ तमे वर्षे मे २७ तमे दिनाङ्के नेहरु दिवंगतः । नूतनप्रधानमन्त्रिणः लालबहाद्धूरशास्त्री महोदयस्य आग्रहेण इन्दिरा निर्वाचने भागं गृहीतवती सर्वकारं च प्रविषृवती । सा वार्ताप्रसारमन्त्रीणी अभवत् [४]
यदा हिन्दी राष्ट्रभाषात्वेन उदघोषिता तदा तमिलुनाडु राज्ये कोलाहलः जातः । तस्मिन्नवसरे तमिलुनाडु राज्यस्य राजधानी मद्रासनगरं इन्दिरा गतवती । तत्र प्रमुखान् दृष्ट्वा तैः साकं चर्चां कृत्वा तेषां कोपशमनं कृतवती । कोलाहलकारणतः यत्र यत्र नष्टानि जातानि तत्र पुननिर्माणकार्यं स्वयं कारितवती । एतस्याः राजनैतिककलाकौशलं व्यक्तित्वनैपुण्यं च श्लाधनीयमासीत् ।

टिप्पणी[सम्पादयतु]

  1. "Exhibit celebrates 120 years of South Asians at Oxford". University of Oxford. 22 April 2010. Retrieved 24 December 2012. 
  2. "Indira Gandhi 'greatest woman'", BBC News, 1 December 1999. Retrieved on 31 July 2013. 
  3. "Sonia assures help for father-in-law’s grave". Indianexpress.com. 21 November 2005. Retrieved 31 July 2013. 
  4. Gandhi, Indira. (1982) My Truth

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=इन्दिरा_गान्धी&oldid=278946" इत्यस्माद् पुनः प्राप्तिः